एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्। अङ्केनादाय वैदेहीमुत्पपात विभावसुः॥ १॥ स विधूय चितां तां तु वैदेहीं हव्यवाहनः। उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम्॥ २॥ तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्। रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्॥ ३॥ अक्लिष्टमाल्याभरणां तथारूपां मनिस्विनीम्। ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः॥ ४॥ अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः। एषा ते राम वैदेही पापमस्यां न विद्यते॥ ५॥ नैव वाचा न मनसा नानुध्यानान्न चक्षुषा। सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह॥ ६॥ रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा। त्वया विरहिता दीना विवशा निर्जनाद्वनात्॥ ७॥ रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा। रक्षिता राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः॥ ८॥ प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली। नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना॥ ९॥ विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव। न किञ्चिदभिधातव्यमहमाज्ञापयामि ते॥ १०॥ ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः। दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः॥ ११॥ एवमुक्तो महातेजा धृतिमान् दृढविक्रमः। अब्रवीत्त्रिदशश्रेष्ठं रामो धर्मभृतां वरः॥ १२॥ अवश्यं त्रिषु लोकेषु न सीता पापमर्हति। दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा॥ १३॥ बालिशः खलु कामात्मा रामो दशरथात्मजः। इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि॥ १४॥ अनन्यहृदयां सीतां मच्चित्तपरिवर्तिनीम्। अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्॥ १५॥ प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः। उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्॥ १६॥ इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा। रावणो नातिवर्तेत वेलामिव महोदधिः॥ १७॥ न हि शक्तः सुदुष्टात्मा मनसापि हि मैथिलीम्। प्रधर्षयितुमप्राप्यां दीप्तामग्निशिखामिव॥ १८॥ नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा। अनन्या हि मया सीता भास्करेण प्रभा यथा॥ १९॥ विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा। न हि हातुमियं शक्या कीर्तिरात्मवता यथा॥ २०॥ अवश्यं च मया कार्यं सर्वेषां वो वचः शुभम्। स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम्॥ २१॥ इतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा। समेत्य रामः प्रियया महाबलः सुखं सुखार्होऽनुबभूव राघवः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सीताप्रतिग्रहो नाम एकविंशत्युत्तरशततमः सर्गः ॥६-१२१॥