ततो हि दुर्मना रामः श्रुत्वैव वदतां गिरः। दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः॥ १॥ ततो वैश्रवणो राजा यमश्चामित्रकर्शनः। सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः॥ २॥ षडर्धनयनः श्रीमान् महादेवो वृषध्वजः। कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः॥ ३॥ एते सर्वे समागम्य विमानैः सूर्यसंनिभैः। आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्॥ ४॥ ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्। अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम्॥ ५॥ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवितां वरः। उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने॥ ६॥ कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे। ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः॥ ७॥ त्रयाणां त्वं हि लोकानामादिकर्ता स्वयंप्रभुः। रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः॥ ८॥ अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी। अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप॥ ९॥ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा। इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः॥ १०॥ अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः। आत्मानं मानुषं मन्ये रामं दशरथात्मजम्॥ ११॥ योऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे। इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः॥ १२॥ अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम। भवान् नारायणो देवः श्रीमांश्चक्रायुधो विभुः॥ १३॥ एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्। अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव॥ १४॥ लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः। शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः॥ १५॥ अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः। सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः॥ १६॥ प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः। इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्॥ १७॥ शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः। सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः॥ १८॥ त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः। सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः॥ १९॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परन्तपः। प्रभवं निधनं वा ते न विदुः को भवानिति॥ २०॥ दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च। दिक्षु सर्वासु गगने पर्वतेषु वनेषु च॥ २१॥ सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक्। त्वं धारयसि भूतानि वसुधां च सपर्वताम्॥ २२॥ अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः। त्रीँल्लोकान् धारयन् राम देवगन्धर्वदानवान्॥ २३॥ अहं ते हृदयं राम जिह्वा देवी सरस्वती। देवा गात्रेषु रोमाणि निर्मिताः ब्रह्मणा प्रभो॥ २४॥ निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवद्दिवा। संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना॥ २५॥ जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्। अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः॥ २६॥ त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिमिः। महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम्॥ २७॥ सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः। वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्॥ २८॥ तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर। निहतो रावणो राम प्रहृष्टो दिवमाक्रम॥ २९॥ अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः। अमोघं दर्शनं राम न च मोघः स्तवस्तवः॥ ३०॥ अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः। ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्॥ ३१॥ प्राप्नुवन्ति तथा कामानिह लोके परत्र च। इममार्षं स्तवं नित्यमितिहासं पुरातनम्। ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः॥ ३२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे ब्रह्मकृतरामस्तवो नाम विंशत्युत्तरशततमः सर्गः ॥६-१२०॥