रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः। मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत्॥ १॥ यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम्। न पिबेन्मधु सम्प्राप्य स नरो बालिशो भवेत्॥ २॥ ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण। रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु॥ ३॥ बलात्कुक्कुटवृत्तेन वर्तस्व सुमहाबल। आक्रम्य सीतां वैदेहीं तथा भुङ्क्ष्व रमस्व च॥ ४॥ लब्धकामस्य ते पश्चादागमिष्यति यद्भयम्। प्राप्तमप्राप्तकालं वा सर्वं प्रतिसहिष्यसि॥ ५॥ कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः। प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम्॥ ६॥ उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्। समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय॥ ७॥ इह प्राप्तान् वयं सर्वाञ्शत्रूंस्तव महाबल। वशे शस्त्रप्रतापेन करिष्यामो न संशयः॥ ८॥ एवमुक्तस्तदा राजा महापार्श्वेन रावणः। तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत्॥ ९॥ महापार्श्व निबोध त्वं रहस्यं किञ्चिदात्मनः। चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा॥ १०॥ पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्। चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव॥ ११॥ सा प्रसह्य मया भुक्ता कृता विवसना ततः। स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा॥ १२॥ तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः। अथ संकुपितो वेधा मामिदं वाक्यमब्रवीत्॥ १३॥ अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि। तदा ते शतधा मूर्धा फलिष्यति न संशयः॥ १४॥ इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्। नारोपये बलात्सीतां वैदेहीं शयने स्वके॥ १५॥ सागरस्येव मे वेगो मारुतस्येव मे गतिः। नैतद् दाशरथिर्वेद ह्यासादयति तेन माम्॥ १६॥ यस्तु सिंहमिवासीनं सुप्तं गिरिगुहाशये। क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति॥ १७॥ न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्नगान्। रामः पश्यति संग्रामे तेन मामभिगच्छति॥ १८॥ क्षिप्रं वज्रसमैर्बाणैः शतधा कार्मुकच्युतैः। राममादीपयिष्यामि उल्काभिरिव कुञ्जरम्॥ १९॥ तच्चास्य बलमादास्ये बलेन महता वृतः। उदयन् सविता काले नक्षत्राणामिव प्रभाम्॥ २०॥ न वासवेनापि सहस्रचक्षुषा युधास्मि शक्यो वरुणेन वा पुनः। मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता॥ २१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे महापार्श्ववचोऽभिनन्दनं नाम र्श्त्रयोदशः सर्गः ॥६-१३॥