home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

चतुर्दशः सर्गः ॥६-१४॥

॥प्रहस्तविभीषणविवादः॥

[ श्रीरामस्याजेयतां प्रतिपाद्य विभीषणेन रावणं प्रति सीताया रामपार्श्वे प्रेषणायैव सम्मतिदानम् ]

निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि। विभीषणो राक्षसराजमुख्य- मुवाच वाक्यं हितमर्थयुक्तम्॥ १॥ वृतो हि बाह्वन्तरभोगराशि- श्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः। पञ्चाङ्गुलीपञ्चशिरोऽतिकायः सीतामहाहिस्तव केन राजन्॥ २॥ यावन्न लङ्कां समभिद्रवन्ति बलीमुखाः पर्वतकूटमात्राः। दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली॥ ३॥ यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुंगवानाम्। वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली॥ ४॥ न कुम्भकर्णेन्द्रजितौ च राजं- स्तथा महापार्श्वमहोदरौ वा। निकुम्भकुम्भौ च तथातिकायः स्थातुं न सक्ता युधि राघवस्य॥ ५॥ जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राप्यथ वा मरुद्भिः। न वासवस्याङ्कगतो न मृत्योर्न खं न पातालमनुप्रविष्टः॥ ६॥ निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे। न नो भयं विद्म न दैवतेभ्यो न दानवेभ्यो ह्यथवा कुतश्चित्॥ ७॥ न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोत्तमेभ्यः। कथं नु रामाद्भविता भयं नो नरेन्द्रपुत्रात्समरे कदाचित्॥ ८॥ प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी। ततो महार्थं वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः॥ ९॥ प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथार्थजातम्। ब्रवीथ रामं प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः॥ १०॥ वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा। कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य॥ ११॥ धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः। प्रहस्त देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः॥ १२॥ तीक्ष्णा न तावत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः। भित्त्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम्॥ १३॥ न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णस्य सुतो निकुम्भः। न चेन्द्रजिद्दाशरथिं प्रवोढुं त्वं वा रणे शक्रसमं समर्थाः॥ १४॥ देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा। अकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य॥ १५॥ अयं च राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः। अन्वास्यते राक्षसनाशनाय तीक्ष्णः प्रकृत्या ह्यसमीक्षकारी॥ १६॥ अनन्तभोगेन सहस्रमूर्ध्ना नागेन भीमेन महाबलेन। बलात्परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु॥ १७॥ यावद्धि केशग्रहणात् सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः। निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः॥ १८॥ सुवारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः। युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः॥ १९॥ इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य। सम्यग्घि वाक्यं सततं ब्रवीमि नरेन्द्रपुत्राय ददाम पत्नीम्॥ २०॥ परस्य वीर्यं स्वबलं च बुद्‍ध्वा स्थानं क्षयं चैव तथैव वृद्धिम्। तथा स्वपक्षेऽप्यनुमृश्य बुद‍्ध्या वदेत्क्षमं स्वामिहितं स मन्त्री॥ २१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे प्रहस्तविभीषणविवादो नाम चतुर्दशः सर्गः ॥६-१४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध