home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

त्रिंशदुरशततमः सर्गः ॥६-१३०॥

॥भरतसमागमः॥

[ अयोध्यायां श्रीरामस्य सत्कारार्थमायोजनम्, श्रीरामं प्रत्युद्गन्तुमनसां सर्वेषां जनानां भरतेन सह नन्दिग्रामे गमनम्, श्रीरामस्यागमनं भरतादिभिः सह तस्य समागमः पुष्पकविमानस्य तेन कुबेरपार्श्वे प्रेषणं च ]

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः। हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा॥ १॥ दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः॥ २॥ सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा। सर्वे वादित्रकुशला गणिकाश्चापि सङ्घशः॥ ३॥ अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम्। भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा॥ ४॥ विष्टीरनेकसाहस्राश्चोदयामास वीर्यवान्। समीकुरुत निम्नानि विषमाणि समानि च॥ ५॥ स्थालानि च निरस्यन्तां नन्दिग्रामादितः परम्। सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा॥ ६॥ ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः। समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे॥ ७॥ शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति। स्रग्दामभिर्मुक्तपुष्पैः सुगन्धैः पञ्चवर्णकैः॥ ८॥ राजमार्गमसम्बाधं किरन्तु शतशो नराः। राजदारास्तथामात्याः सैन्याः सेनगणाङ्गनाः॥ ९॥ ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः। धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः॥ १०॥ अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः। मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितैः॥ ११॥ अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः। निर्ययुस्तुरगाक्रान्तैः रथैश्च सुमहारथाः॥ १२॥ शक्त्यृष्टिप्रासहस्तानां सध्वजानां पताकिनाम्। तुरगाणां सहस्रैश्च मुख्यैर्मुख्यनरान्वितैः॥ १३॥ पदातीनां सहस्रैश्च वीराः परिवृता ययुः। ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः॥ १४॥ कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः। कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन्॥ १५॥ कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत्। अश्वानां खुरशब्देन रथनेमिस्वनेन च॥ १६॥ शङ्खदुन्दुभिनादेन संचचालेव मेदिनी। द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः॥ १७॥ माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः। शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः॥ १८॥ आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः। पाण्डरं छत्रमादाय शुक्लमाल्योपशोभितम्॥ १९॥ शुक्ले च वालव्यजने राजार्हे हेमभूषिते। उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः॥ २०॥ भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः। प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह॥ २१॥ समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम्। कच्चिन्न खलु कापेयी सेव्यते चलचित्तता॥ २२॥ न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम्। कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः॥ २३॥ अथैवमुक्ते वचने हनूमानिदमब्रवीत्। अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम्॥ २४॥ सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्। भरद्वाजप्रसादेन मत्तभ्रमरनादितान्॥ २५॥ तस्य चैष वरो दत्तो वासवेन परन्तप। ससैन्यस्य तथातिथ्यं कृतं सर्वगुणान्वितम्॥ २६॥ निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्। मन्ये वानरसेना सा नदीं तरति गोमतीम्॥ २७॥ रजोवर्षं समुद्धूतं पश्य वालुकीनीं प्रति। मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः॥ २८॥ तदेतद् दृश्यते दूराद् विमलं चन्द्रसन्निभम्। विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम्॥ २९॥ रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना। तरुणादित्यसंकाशं विमानं रामवाहनम्॥ ३०॥ धनदस्य प्रसादेन दिव्यमेतन्मनोजवम्। एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ॥ ३१॥ सुग्रीवश्च महातेजा राक्षसश्च विभीषणः। ततो हर्षसमुद्भूतो निःस्वनो दिवमस्पृशत्॥ ३२॥ स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते। रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः॥ ३३॥ ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे। प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः॥ ३४॥ स्वगतेन यथार्थेन ततो राममपूजयत्। मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः॥ ३५॥ रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः। ततो विमानाग्रगतं भरतो भ्रातरं तदा॥ ३६॥ ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम्। ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्॥ ३७॥ हंसयुक्तं महावेगं निष्पपात महीतले। आरोपितो विमानं तद् भरतः सत्यविक्रमः॥ ३८॥ राममासाद्य मुदितः पुनरेवाभ्यवादयत्। तं समुत्थाय काकुत्स्थश्चिरस्याक्षिपथं गतम्॥ ३९॥ अङ्के भरतमारोप्य मुदितः परिषस्वजे। ततो लक्ष्मणमासाद्य वैदेहीं चाभ्यवादयत्॥ ४०॥ अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत्। सुग्रीवं केकयीपुत्रो जाम्बवन्तं तथाङ्गदम्॥ ४१॥ मैन्दं च द्विविदं नीलमृषभं परिषस्वजे। सुषेणं च नलं चैव गवाक्षं गन्धमादनम्॥ ४२॥ शरभं पनसं चैव भरतः परिषस्वजे। ते कृत्वा मानुषं रूपं वानराः कामरूपिणः॥ ४३॥ कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा। अथाब्रवीद् राजपुत्रः सुग्रीवं वानरर्षभम्॥ ४४॥ परिष्वज्य महातेजा भरतो धर्मिणां वरः। त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः॥ ४५॥ सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम्। विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत्॥ ४६॥ दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम्। शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्॥ ४७॥ सीतायाश्चरणौ पश्चाद्विनयादभ्यवादयत्। रामो मातरमासाद्य विवण्णां शोककर्शिताम्॥ ४८॥ जग्राह प्रणतः पादौ मनो मातुः प्रसादयन्। अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्॥ ४९॥ स मातॄश्च ततः सर्वाः पुरोहितमुपागमत्। स्वागतं ते महाबाहो कौसल्यानन्दवर्धन॥ ५०॥ इति प्राञ्जलयः सर्वे नागरा राममब्रुवन्। तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः॥ ५१॥ व्याकोशानीव पद्मानि ददर्श भरताग्रजः। पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम्॥ ५२॥ चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्। अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः॥ ५३॥ एतत् ते रक्षितं राजन् राज्यं निर्यातितं मया। अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः॥ ५४॥ यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम्। अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम्॥ ५५॥ भवतस्तेजसा सर्वं कृतं दशगुणं मया। तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्॥ ५६॥ मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः। ततः प्रहर्षाद् भरतमङ्कमारोप्य राघवः॥ ५७॥ ययौ तेन विमानेन ससैन्यो भरताश्रमम्। भरताश्रममासाद्य ससैन्यो राघवस्तदा॥ ५८॥ अवतीर्य विमानाग्रादवतस्थे महीतले। अब्रवीच्च तदा रामस्तद् विमानमनुत्तमम्॥ ५९॥ वह वैश्रवणं देवमनुजानामि गम्यताम्। ततो रामाभ्यनुज्ञातं तद् विमानमनुत्तमम्। उत्तरां दिशमागम्य जगाम धनदालयम्॥ ६०॥ पुरोहितस्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः। निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश राघवः॥ ६१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे भरतसमागमो नाम त्रिंशदुरशततमः सर्गः ॥६-१३०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध