home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकत्रिंशदुरशततमः सर्गः ॥६-१३१॥

॥सीरामपट्टाभिषेकः॥

[ भरतेन श्रीरामाय राज्यस्य पुन: प्रत्यर्पणं श्रीरामस्य नगरे गमनं राज्येऽभिषेकः वानराणां प्रस्थापनं ग्रन्थस्य माहात्म्यं च ]

शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम्॥ १॥ पूजिता मामिका माता दत्तं राज्यमिदं मम। तद् ददामि पुनस्तुभ्यं यथा त्वमददा मम॥ २॥ धुरमेकाकिना न्यस्तामृषभेण बलीयसा। किशोरव गुरुं भारं न वोढुमहमुत्सहे॥ ३॥ वारिवेगेन महता भिन्नः सेतुरिव क्षरन्। दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥ ४॥ गतिं खर इवाश्वस्य हंसस्येव च वायसः। नान्वेतुमुत्सहे राम तव मार्गमरिंदम॥ ५॥ यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने। महांश्च सुदुरारोहो महास्कन्धप्रशाखवान्॥ ६॥ शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। तस्य नानुभवेदर्थं यस्य हेतोः स रोपितः॥ ७॥ एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि। यद्यस्मान्मनुजेन्द्र त्वं भक्तान् भृत्यान्न शाधि हि॥ ८॥ जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम्॥ ९॥ तूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव॥ १०॥ यावदावर्तते चक्रं यावती च वसुन्धरा। तावत् त्वमिह सत्वस्य स्वामित्वमनुवर्तय॥ ११॥ भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे॥ १२॥ ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः। सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत॥ १३॥ पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे॥ १४॥ विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन्॥ १५॥ प्रतिकर्म च रामस्य कारयामास वीर्यवान्। लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः॥ १६॥ प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम्॥ १७॥ ततो वानरपत्नीनां सर्वासामेव शोभनम्। चकार यत्नात् कौसल्या प्रहृष्टा पुत्रवलालसा॥ १८॥ ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम्॥ १९॥ अर्कमलसंकाशं दिव्यं दृष्ट्वा रथं रथोत्तमम्। आरुरोह महाबाहू रामः सत्यपराक्रमः॥ २०॥ सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ॥ २१॥ वराभरणसंपन्न ययुस्ताः शुभकुण्डलाः। सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः॥ २२॥ अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥ २३॥ अशोको विजयश्चैव सुमन्त्रश्चैव संगताः। मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च॥ २४॥ सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। कर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम्॥ २५॥ इति ते मन्त्रिणः सर्वे संदिश्य च पुरोहितः। नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः॥ २६॥ हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। प्रययौ रथमास्थाय रामो नगरमुत्तमम्॥ २७॥ जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत्॥ २८॥ श्वेतं च वालव्यजनं जग्राह परतः स्थितः। अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः॥ २९॥ ऋषिसङ्घैस्तदाकाशे देवैश्च समरुद‍्गणैः। स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः॥ ३०॥ ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः॥ ३१॥ नवनागसहस्राणि ययुरास्थाय वानराः। मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः॥ ३२॥ शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः। प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम्॥ ३३॥ ददृशुस्ते समायान्तं राघवं सपुरःसरम्। विराजमानं वपुषा रथेनातिरथं तदा॥ ३४॥ ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम्॥ ३५॥ अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः॥ ३६॥ स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः। प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृत॥ ३७॥ अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः। नरा मोदकहस्ताश्च रामस्य पुरतो ययुः॥ ३८॥ सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे। वानराणां च तत् कर्म राक्षसानां च तद्बलम्॥ ३९॥ विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम्। श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः॥ ४०॥ द्युतिमानेतदाख्याय रामो वानरसंवृतः। हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह॥ ४१॥ ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे। ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम्॥ ४२॥ अथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम्। अर्थोपहितया वाचा मधुरं रघुनन्दनः॥ ४३॥ पितुर्भवनमासाद्य प्रविश्य च महात्मनः। कौसल्यां च सुमित्रां च कैकेयीमभिवादय॥ ४४॥ तच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय॥ ४५॥ तस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः। पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम्॥ ४६॥ ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः॥ ४७॥ उवाच च महातेजाः सुग्रीवं राघवानुजः। अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥ ४८॥ सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। ददौ क्षिप्रं च सुग्रीवः सर्वरत्नविभूषितान्॥ ४९॥ यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः॥ ५०॥ एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडानिलशीघ्रगाः॥ ५१॥ जाम्बवांश्च सुशेनश्च वेगदर्शी च वानरः। ऋषभश्चैव कलशान् जलपूर्णानथानयन्॥ ५२॥ नदीशतानां पञ्चानां जलं कुम्भैषु चाहरन्। पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्॥ ५३॥ सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम्। ऋषभो दक्षिणात् तोयमाजहार महार्णवात्॥ ५४॥ रक्तचन्दनखाबिः संवृतं काञ्चनं घटम्। गवयः पश्चिमात् तोयमाजहार महार्णवात्॥ ५५॥ रत्नकुम्भेन महता शीतं मारुतविक्रमः। उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः॥ ५६॥ आजहार स धर्मात्मा नलः सर्वगुणान्वितः। ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम्॥ ५७॥ अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। पुरोहिताय श्रेष्ठाय सुहृद‍्भ्यश्च न्यवेदयत्॥ ५८॥ ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह। रामं रत्नमये पीठे ससीतं न्यवेशयत्॥ ५९॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा॥ ६०॥ अभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ६१॥ ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा। योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः॥ ६२॥ सर्वौषधिरसैत्दिव्यैर्दैवतैर्नभसि स्थितैः। चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः॥ ६३॥ ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम्। अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम्॥ ६४॥ तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः। सभायां हेमक्लृप्तायां शोभितायां महाजनैः॥ ६५॥ रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः। नानारत्नमये पीठे कल्पयित्वा यथाविधि॥ ६६॥ किरीटेन ततः पश्चाद् वसिष्ठेन महात्मना। ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः॥ ६७॥ छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डरं शुभम्। श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः॥ ६८॥ अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः। मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्॥ ६९॥ राघवाय ददौ वायुर्वासवेन प्रचोदितः। सर्वरत्नसमायुक्तं मणिरत्नविभूषितम्॥ ७०॥ मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः। प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः॥ ७१॥ अभिषेके तदर्हस्य तदा रामस्य धीमतः। भूमिः सस्यवती चैव फलवन्तश्च पादपाः॥ ७२॥ गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे। सहस्रशतमश्वानां धेनूनां च गवां तथा॥ ७३॥ ददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः। त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः॥ ७४॥ नानाभरणवस्त्राणि महार्हाणि च राघवः। अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्॥ ७५॥ सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः। वैदूर्यमणिचित्रे च चन्द्ररश्मिविभूषिते॥ ७६॥ वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ। मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम्॥ ७७॥ सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम्। अरजे वाससी दिव्ये शुभान्याभरणानि च॥ ७८॥ अवेक्षमाणा वैदेही प्रददौ वायुसूनवे। अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी॥ ७९॥ अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः। तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम्॥ ८०॥ प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि। तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः॥ ८१॥ पौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा ददौ सा वायुपुत्राय तं हारमसितेक्षणा॥ ८२॥ हनूमांस्तेन हारेण शुशुभे वानरर्षभः। चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः॥ ८३॥ ततो द्विविदमैन्दाभ्यां नीलाय च परंतपः। सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः॥ ८७॥ सर्वे वानरवृद्धाश्च ये चान्ये वानरेश्वराः। वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः॥ ८४॥ विभीषणोऽथ सुग्रीवो हनूमान् जाम्बवांस्तथा। सर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा॥ ८५॥ यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः। प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम्॥ ८६॥ नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः। विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन्॥ ८८॥ सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम्। पूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम्॥ ८९॥ विभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः। लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः॥ ९०॥ स राज्यमखिलं शासन्निहतारिर्महायशाः। राघवः परमोदारो रराज परया मुदा। उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः॥ ९१॥ आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन। तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व॥ ९२॥ सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। नियुज्यमानोऽपि च यौवराज्ये ततोऽभ्यषिञ्चद् भरतं महात्मा॥ ९३॥ पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्। अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः॥ ९४॥ राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः। शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान्॥ ९५॥ आजानुलम्बबाहुः स महास्कन्धः प्रतापवान्। लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत्॥ ९६॥ राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्। ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवैः॥ ९७॥ न पर्यदेवन् विधवा न च व्यालकृतं भयम्। न व्याधिजं भयं वापि रामे राज्यं प्रशासति॥ ९८॥ निर्दस्युरभवल्लोको नानर्थः कश्चिदस्पृशत्। न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥ ९९॥ सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्। राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्॥ १००॥ आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। निरामया विशोकाश्च रामे राज्यं प्रशासति॥ १०१॥ रामो रामो राम इति प्रजानामभवन् कथाः। रामभूतं जगदभूद् रामे राज्यं प्रशासति॥ १०२॥ नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः। काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः॥ १०३॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः। स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः॥ १०४॥ आसन् प्रजा धर्मरता रामे शासति नानृताः। सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः॥ १०५॥ दश वर्षसहस्राणि दश वर्षशतानि च। भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत्॥ १०६॥ धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम्। आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम्॥ १०७॥ यःपठेच्छृणुयाल्लोके नरः पापाद् विमुच्यते। पुत्रकामश्च पुत्रान् वै धनकामो धनानि च॥ १०८॥ लभते मनुजो लोके श्रुत्वा रामाभिषेचनम्। महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति॥ १०९॥ राघवेण यथा माता सुमित्रा लक्ष्मणेन च। भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः॥ ११०॥ भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः। श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति॥ १११॥ रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः। शृणोति य इदं काव्यंमार्षं वाल्मीकिना कृतम्॥ ११२॥ श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ। समागमं प्रवासान्ते लभते चापि बान्धवैः॥ ११३॥ प्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात्। श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्॥ ११४॥ विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै। विजयेत महीं राजा प्रवासी स्वस्तिमान् व्रजेत्॥ ११५॥ स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान्। पूजयंश्च पठंश्चेममितिहासं पुरातनम्॥ ११६॥ सर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात्। प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्त्रियैर्द्विजात्॥ ११७॥ ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः। रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा॥ ११८॥ प्रीयते सततं रामः स हि विष्णुः सनातनः। आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः। साक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते॥ ११९॥ कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च। श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम्॥ १२०॥ आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं शुभं च। श्रोतव्यमेतन्नियमेन सद्भि- राख्यानमोजस्करमृद्धिकामैः॥ १२१॥ एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम्॥ १२२॥ देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा। रामायणस्य श्रवणात् तृप्यन्ति पितरस्तथा॥ १२३॥ भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्। लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे॥ १२४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुरशततमः सर्गः ॥ १३१ ॥

॥इति श्रीमद्वाल्मीकिरामायणे युद्धकाण्डः संपूर्णः॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध