home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

अष्टादशः सर्गः ॥६-१८॥

॥विभीषणसंग्रहनिर्णयः॥

[ शरणागतरक्षणस्य महत्त्वं स्वकीयं व्रतं च प्रति- पाद्य श्रीरामस्य विभीषणेन सह समागमः ]

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह। प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्॥ १॥ ममापि तु विवक्षास्ति काचित्प्रति विभीषणम्। श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः॥ २॥ मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन। दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्॥ ३॥ सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः॥ ४॥ सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत्॥ ५॥ को नाम स भवेत्तस्य यमेष न परित्यजेत्। वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य च॥ ६॥ ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्। इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः॥ ७॥ अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च। न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः॥ ८॥ अस्ति सूक्ष्मतरं किञ्चिद्यदत्र प्रतिभाति मे। प्रत्यक्षं लौकिकं वापि विद्यते सर्वराजसु॥ ९॥ अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः। व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः॥ १०॥ अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान्। एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः॥ ११॥ यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च। तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु॥ १२॥ न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः। पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः॥ १३॥ अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति संगताः। प्रणादश्च महानेष ततोऽस्य भयमागतम्। इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः॥ १४॥ न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः। मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः॥ १५॥ एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः। उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्॥ १६॥ रावणेन प्रणिहितं तमवेहि विभीषणम्। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर॥ १७॥ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वानघ॥ १८॥ लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह। रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः॥ १९॥ एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्॥ २०॥ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्॥ २१॥ सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन॥ २२॥ पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्। अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर॥ २३॥ श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः॥ २४॥ स हि तं प्रतिजग्राह भार्याहर्तारमागतम्। कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः॥ २५॥ ऋषेः कण्वस्य पुत्रोण कण्डुना परमर्षिणा। शृणु गाथां पुरा गीतां धर्मिष्ठा सत्यवादिना॥ २६॥ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्। न हन्यादानृशंस्यार्थमपि शत्रुं परंतप॥ २७॥ आर्तो वा यदि वा दृप्तः परेषां शरणागतः। अपि प्राणान् परित्यज्य रक्षितव्यः कृतात्मना॥ २८॥ तं चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति। स्वया शक्त्या यथान्यायं तत्पापं लोकगर्हितम्॥ २९॥ विनष्टः पश्यतो यस्यारक्षितुः शरणागतः। आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः॥ ३०॥ एवं दोषो महानत्र प्रपन्नानामरक्षणे। अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्॥ ३१॥ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्। धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदयम्॥ ३२॥ सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम॥ ३३॥ आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्॥ ३४॥ रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः। प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः॥ ३५॥ किमत्र चित्रं धर्मज्ञ लोकनाथ सुखावह। यत्त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः॥ ३६॥ मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्। अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः॥ ३७॥ तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव। विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः॥ ३८॥ ततस्तु सुग्रीववचो निशम्य त- द्धरीश्वरेणाभिहितं नरेश्वरः। विभीषणेनाशु जगाम संगमं पतत्रिराजेन यथा पुरंदरः॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे विभीषणसंग्रहनिर्णयो नाम अष्टादशः सर्गः ॥६-१९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध