राघवेणाभये दत्ते संनतो रावणानुजः। विभीषणो महाप्राज्ञो भूमिं समवलोकयत्॥ १॥ खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह। स तु रामस्य धर्मात्मा निपपात विभीषणः॥ २॥ पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः। अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः॥ ३॥ धर्मयुक्तं च युक्तं च मनसः सम्प्रहर्षणम्। अनुजो रावणस्याहं तेन चास्म्यवमानितः॥ ४॥ भवन्तं सर्वभूतानां शरण्यं शरणं गतः। परित्यक्ता मया लङ्का मित्राणि च धनानि च॥ ५॥ भवद्गतं हि मे राज्यं जीवितं च सुखानि च। तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत्॥ ६॥ वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव। आख्याहि मम तत्त्वेन राक्षसानां बलाबलम्॥ ७॥ एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा। रावणस्य बलं सर्वमाख्यातुमुपचक्रमे॥ ८॥ अवध्यः सर्वभूतानां देवदानवरक्षस्सम्। राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः॥ ९॥ रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्। कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि॥ १०॥ राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः। कैलासे येन संग्रामे माणिभद्रः पराजितः॥ ११॥ बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि। धनुरादाय यस्तिष्ठन् स त्वदृश्यो भवतीन्द्रजित्॥ १२॥ संग्रामे स महव्यूहे तर्पयित्वा हुताशनम्। अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव॥ १३॥ महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः। अनीकपास्तु तस्यैते लोकपालसमा युधि॥ १४॥ दशकोटिसहस्राणि रक्षसां कामरूपिणाम्। मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम्॥ १५॥ स तैः परिवृतां राजा लोकपालानयोधयत्। सह देवैस्तु ते भग्ना रावणेन महात्मना॥ १६॥ विभीषणवचः श्रुत्वा रामो दृढपराक्रमः। अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत्॥ १७॥ यानि कर्मापदानानि रावणस्य विभीषण। आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम्॥ १८॥ अहं हत्वा दशग्रीवं सप्रहस्तं सहानुजम्। राजानं त्वां करिष्यामि सत्यमेतद्ब्रवीमि ते॥ १९॥ रसातलं वा प्रविशेत्पातालं वापि रावणः। पितामहसकाशं वा न मे जीवन् विमोक्ष्यते॥ २०॥ अहत्वा रावणं संख्ये सपुत्रबलबान्धवम्। अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे॥ २१॥ श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः। शिरसा वन्द्य धर्मात्मा वक्तुमेवोपचक्रमे॥ २२॥ राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे। करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्॥ २३॥ इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्। अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय॥ २४॥ तेनचैनं महाप्राज्ञमभिषिञ्च विभीषणम्। राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद॥ २५॥ एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद् विभीषणम्। मध्ये वानरमुख्यानां राजानं रामशासनात्॥ २६॥ तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन्॥ २७॥ अब्रवीच्च हनूमांस्तं सुग्रीवश्च विभीषणम्। कथं सागरमक्षोभ्यं तराम वरुणालयम्॥ २८॥ सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्। उपायं नाधिगच्छामो यथा नदनदीपतिम्॥ २९॥ तराम तरसा सर्वे ससैन्या वरुणालयम्। एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः॥ ३०॥ समुद्रं राघवो राजा शरणं गन्तुमर्हति। खानितः सगरेणायमप्रमेयो महोदधिः॥ ३१॥ कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः। एवं विभीषणेनोक्तो राक्षसेन विपश्चिता॥ ३२॥ आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः। ततश्चाख्यातुमारेभे विभीषणवचः शुभम्॥ ३३॥ सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम्। प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत॥ ३४॥ स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्। सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमभाषत॥ ३५॥ विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते। ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते॥ ३६॥ सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः। उभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम्॥ ३७॥ एवमुक्तौ तु तै वीरावुभौ सुग्रीवलक्ष्मणौ। समुदाचारसंयुक्तमिदं वचनमूचतुः॥ ३८॥ किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव। विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम्॥ ३९॥ अबध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये। लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः॥ ४०॥ विभीषणस्य शूरस्य यथार्थं क्रियतां वचः। अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्॥ ४१॥ यथा सैन्येन गच्छेम पुरीं रावणपालिताम्। एवमुक्तः कुशास्तीर्णे तीरे नदनतीपतेः। संविवेश तदा रामो वेद्यामिव हुताशनः॥ ४२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे समुद्रतरणोपायो नाम एकोनविंशः सर्गः ।। १९ ।।