home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

विंशः सर्गः ॥६-२०॥

॥सुग्रीवभेदनोपायः॥

[ शार्दूलप्रेरणया रावणेन शुकं दूतीकृत्य तद्द्वारा सुग्रीवसविधे संदेशस्य प्रेषणम्, तत्र वानरकृता तदीया दुरवस्था, श्रीरामस्यानुग्रहेण तस्य क्लेशतो मोक्षणं सुग्रीवेण च रावणं प्रत्युत्तरदानम् ]

ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्। ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान्॥ १॥ चारो राक्षसराजस्य रावणस्य दुरात्मनः। तां दृष्ट्वा सर्वतोऽव्यग्रं प्रतिगम्य स राक्षसः॥ २॥ प्रविश्य लङ्कां वेगेन रावणं वाक्त्यमब्रवीत्। एष वानरऋक्षौघो लङ्कां समभिवर्तते॥ ३॥ अगाधश्चाप्रमेयश्च द्वितीय इव सागरः। पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ॥ ४॥ उत्तमाधसम्पन्नौ सीतायाः पदमागतौ। एतौ सागरमासाद्य संनिविष्टौ महाद्युते॥ ५॥ बलमाकाशमावृत्य सर्वतो दशयोजनम्। तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि॥ ६॥ तव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम्। उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम्॥ ७॥ शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः। उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः। शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम्॥ ८॥ सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम। यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा॥ ९॥ त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजःसुतश्च। न कश्चदर्थस्तव नास्त्यनर्थ- स्तथा हि मे भ्रातृसमो हरीश॥ १०॥ अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः। किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम्॥ ११॥ न हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथंचन। देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः॥ १२॥ स तथा राक्षसेन्द्रेण संदिष्टो रजनीचरः। शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम्॥ १३॥ स गत्वा दूरमध्वानमुपर्युपरि सागरम्। संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत्॥ १४॥ सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना। तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः॥ १५॥ प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः। स तैः प्लवंगैः प्रसभं निगृहीतो निशाचरः॥ १६॥ गगनाद् भूतले चाशु परिगृह्य निपातितः। वानरैः पीड्यमानस्तु शुको वचनमब्रवीत्॥ १७॥ न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः। यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रभाषते॥ १८॥ अनुक्तवादी दूतः सन् स दूतो वधमर्हति। शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम्॥ १९॥ उवाच मा वधिष्टेति घ्नतः शाखामृगर्षभान्। स च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये॥ २०॥ अन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत्। सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम। किं मया खलु वक्तव्यो रावणो लोकरावणः॥ २१॥ स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः। उवाच वाक्यं रजनीचरस्य चारं शुकं दीनमदीनसत्त्वः॥ २२॥ न मेऽसि मित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि। अरिश्च रामस्य सहानुबन्धः स मेऽसि वालीव वधार्ह वध्यः॥ २३॥ निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश। लङ्कां च सर्वां महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म॥ २४॥ न मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः। अन्तर्हितः सूर्यपथं गतो वा नभो न पातालमनुप्रविष्टः॥ गिरीशपादाम्बुजसङ्गतोवा हतोऽसि रामेण सहानुजस्त्वम्॥ २५॥ तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम्। त्रातारमनुपश्यामि न गन्धर्वं न चासुरम्॥ २६॥ अवधीर्य जरावृद्धं गृध्रराजं जटायुषम्। किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा॥ २७॥ हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे। महाबलं महाप्राज्ञं दुर्धर्षममरैरपि॥ २८॥ न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति। ततोऽब्रवीद् वालिसुतस्त्वङ्गदो हरिसत्तमः॥ २९॥ नायं दूतो महाराज चारिकः प्रतिभाति मा। तुलितं हि बलं सर्वमनेनात्रैव तिष्ठता॥ ३०॥ गृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते। ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः॥ ३१॥ जगृहुस्तं बबन्धुश्च विलपन्तमनाथवत्। शुकस्तु वानरैश्चण्डैस्तत्र तैः सम्प्रपीडितः॥ ३२॥ व्याचुक्रोशत महात्मानं रामं दशरथात्मजम्। लुप्येते मे बलात्पक्षौ भिद्येते च तथाक्षिणी॥ ३३॥ यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम्। एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्॥ ३४॥ सर्वं तदुपपद्येथा जह्यां चेद्यदि जीवितम्। नाघातयत्तदा रामः श्रुत्वा तत्परिदेवतम्। वानरानब्रवीद्रामो मुच्यतां दूत आगतः॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सुग्रीवभेदनोपायो नाम विंशः सर्गः ॥६-२०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध