home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकविंशः सर्गः ॥६-२१॥

॥समुद्रसंक्षोभः॥

[ श्रीरामस्य समुद्रतटे कुशानास्तीर्य दिनत्रयं यावदुपवेशनं ततोऽपि स्वात्मानमदर्शयतः समुद्र- स्योपरि कुपितेन श्रीरामेण बाणप्रहारेण तस्य विक्षोभणम् ]

ततः सागरवेलायां दर्भानास्तीर्य राघवः। अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधिम्॥ १॥ बाहुं भुजगभोगाभमुपधायारिसूदनः। जातरूपमयैश्चैव भूषणैर्भूषितं पुरा॥ २॥ वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः। भुजैः परमनारीणामभिमृष्टमनेकधा॥ ३॥ चन्दनागुरुभिश्चैव पुरस्तादधिवासितम्। बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम्॥ ४॥ शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा। तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम्॥ ५॥ संयुगे युगसंकाशं शत्रूणां शोकवर्धनम्। सुहृदानन्दनं दीर्घं सागरान्तव्यपाश्रयम्॥ ६॥ अस्यता च पुनः सव्यं ज्याघातविहतत्वचम्। दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम्॥ ७॥ गोसहस्रप्रदातारमुपधाय महद्भुजम्। अद्य मे मरणं वाथ तरणं सागरस्य वा॥ ८॥ इति रामो मतिं कृत्वा महाबाहुर्महोदधिम्। अधिशिश्ये च विधिवत् प्रयतो नियतो मुनिः॥ ९॥ तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले। नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः॥ १०॥ स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः। उपासत तदा रामः सागरं सरितां पतिम्॥ ११॥ न च दर्शयते मन्दस्तदा रामस्य सागरः। प्रयतेनापि रामेण यथार्हमभिपूजितः॥ १२॥ समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः। समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्णम्॥ १३॥ अवलेपः समुद्रस्य न दर्शयति यत् स्वयम्। प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता॥ १४॥ असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः। आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्॥ १५॥ सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्। न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः॥ १६॥ प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूर्धनि। अद्य मद‍्बाणनिर्भन्नैर्मकरैर्मकरालयम्॥ १७॥ निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः। भोगिनां पश्य भोगानि मया छिन्नानि लक्ष्मण॥ १८॥ महाभोगानि मत्स्यानां करिणां च करानिह। सशङ्खशुक्तिकानालं समीनमकरं शरैः॥ १९॥ अद्य युद्धेन महता समुद्रं परिशोषये। क्षमया हि समायुक्तं मामयं मकरालयः॥ २०॥ असमर्थं विजानाति धिक् क्षमामीदृशे जने। न दर्शयति साम्ना मे सागरो रूपमात्मनः॥ २१॥ चापमानय सौमित्रे शरांश्चाशीविषोपमान्। समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः॥ २२॥ अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्। वेलासु कृतमर्यादं सहस्रोर्मिसमाकुलम्॥ २३॥ निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्। महार्णवं क्षोभयिष्ये महानक्रसमाकुलम्॥ २४॥ एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः। बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन्॥ २५॥ सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत्। मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः॥ २६॥ ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः। प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम्॥ २७॥ तोयवेगः समुद्रस्य सनक्रमकरो महान्। संबभूव महाघोरः समारुतरवस्तदा॥ २८॥ महोर्मिमालाविततः शङ्खशुक्तिसमावृतः। सधूमः परिवृत्तोर्मिः सहसासीन्महोदधिः॥ २९॥ व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः। दानवाश्च महावीर्याः पातालतलवासिनः॥ ३०॥ ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा। विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः॥ ३१॥ आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः। उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः॥ ३२॥ ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम्। सौमित्रिरुत्पत्य समुच्छ्वसन्तं मा मेति चोक्त्वा धनुराललम्बे॥ ३३॥ एतद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम्। भवद्विधाः कोपवशं न यान्ति दीर्घं भवान् पश्यतु साधुवृत्तम्॥ ३४॥ अन्तर्हितैश्चव तथान्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च। शब्दः कृतः कष्टमिति ब्रुवद्भिर्मा मेति चोक्त्वा महता स्वरेण॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे समुद्रसंक्षोभो नाम एकविंशः सर्गः ॥६-२१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध