home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

द्वाविंशः सर्गः ॥६-२२॥

॥सेतुबन्धः॥

[ समुद्रस्य सम्मत्या नलेन सागरोपरि शतयोजन- विस्तृतसेतोर्निर्माणं तेन श्रीरामप्रभृतिभिः सह वानरसेनायाः परे पारे गमनं तत्र निवेशनं च ]

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः। अद्य त्वां शोषयिष्यामि सपातालं महार्णव॥ १॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर। मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान्॥ २॥ मत्कार्मुकविसृष्टेन शरवर्षेण सागर। परं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः॥ ३॥ विचिन्वन्नाभिजानासि पौरुषं वापि विक्रमम्। दानवालय संतापं मत्तो नाम गमिष्यसि॥ ४॥ ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्। संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः॥ ५॥ तस्मिन् विकृष्टे सहसा राघवेण शरासने। रोदसी सम्पफालेव पर्वताश्च चकम्पिरे॥ ६॥ तमश्च लोकमावव्रे दिशश्च न चकाशिरे। परिचुक्षुभिरे चाशु सरांसि सरितस्तथा॥ ७॥ तिर्यक् च सह नक्षत्रैः सङ्गतौ चन्द्रभास्करौ। भास्करांशुभिरादीप्तं तमसा च समावृतम्॥ ८॥ प्रचकाशे तदाकाशमुल्काशतविदीपितम्। अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः॥ ९॥ पुर्स्फुरुश्च घना दिव्य दिवि मारुतपङ्‍क्तयः। बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्नपि॥ १०॥ आरुजंश्चैव शैलाग्रान् शिखराणि बभञ्जनः। दिविस्पृशो महामेघाः सङ्हताः समहास्वनाः॥ ११॥ मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा। यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम्॥ १२॥ अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम्। शिश्यिरे चापि भूतानि संत्रस्तान्युद्विजन्ति च॥ १३॥ सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात्। सहभूतैः सतोयोर्मिः सनागः सहराक्षसः॥ १४॥ सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः। योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात्॥ १५॥ तं तदा समतिक्रान्तं नातिचक्राम राघवः। समुद्धतममित्रघ्नो रामो नदनदीपतिम्॥ १६॥ ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः। उदयन् हि महाशैलान्मेरोरिव दिवाकरः॥ १७॥ पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत। स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषतः॥ १८॥ रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः। सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम्॥ १९॥ जातरूपमयैश्चैव तपनीयविभूषितैः। आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः॥ २०॥ धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव। एकावलीमध्यगतं तरलं पाटलप्रभम्॥ २१॥ विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम्। आघूर्णिततरङ्गौघः कालिकानिलसंकुलः॥ २२॥ उद्वर्तितमहाग्राहः सम्भ्रान्तोरगराक्षसः। देवतानां सुरूपाभिर्नानारूपाभिरीश्वरः॥ २३॥ गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः। सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान्॥ २४॥ अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्। पृथिवी वायुराकाशमापो ज्योतिश्च राघव॥ २५॥ स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः। तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः॥ २६॥ विकारस्तु भवेद्गाध एतत् वेद्स्याम्यहम्। न कामान्न च लोभाद्वा न भयात् पार्थिवात्मज॥ २७॥ ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन। विधास्ये येन गन्तासि विषहिष्ये ह्यहं तथा॥ २८॥ ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति। हरीणां तरणे राम करिष्यामि यथा स्थलम्॥ २९॥ तमब्रवीत्तदा राम उद्यतो हि नदिपते। अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम्॥ ३०॥ रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम्। महोदधिर्महातेजा राघवं वाक्यमब्रवीत्॥ ३१॥ उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतमो मम। द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान्॥ ३२॥ उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः। आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम॥ ३३॥ तैस्तु संस्पर्शनं पाप्तैर्न सहे पापकर्मभिः। अमोघः क्रियतां राम तत्र तेषु शरोत्तमः॥ ३४॥ तस्य तद्वचनं श्रुत्वा सागरस्य महात्मनः। मुमोच तं शरं दीप्तं वीरः सागरदर्शनात्॥ ३५॥ तेन तन्मरुकान्तारं पृथिव्यां खलु विश्रुतम्। निपातितः शरो यत्र दीप्ताशनिसमप्रभः॥ ३६॥ ननाद च तदा तत्र वसुधा शल्यपीडिता। तस्माद् व्रणमुखात्तोयमुत्पपात रसातलात्॥ ३७॥ स बभूव तदा कूपो व्रण इत्यभिविश्रुतः। सततं चोत्थितं तोयं समुद्रस्येव दृश्यते॥ ३८॥ अवदारणशब्दश्च दारुणः समपद्यत। तस्मात्तद् बाणपातेन त्वपः कुक्षिष्वशोषयत्॥ ३९॥ विख्यातं त्रिषु लोकेषु मरुकान्तारमेव तत्। शोषयित्वा ततः कुक्षिं रामो दशरथात्मजः॥ ४०॥ वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः। पशव्यश्चाल्परोगश्च फलमूलरसायुतः॥ ४१॥ बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः। एवमेतैर्गुणैर्युक्तो बहुभिः सततं मरुः॥ ४२॥ रामस्य वरदानाच्च शिवः पन्था बभूव ह। तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः॥ ४३॥ राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत्। अयं सौम्य नलो नाम तनुजो विश्वकर्मणः॥ ४४॥ पित्रा दत्तवरः श्रीमान् प्रीतिमो विश्वकर्मणः। एष सेतुं महोत्साहः करोतु मयि वानरः॥ ४५॥ तमहं धारयिष्यामि तथा ह्येष यथा पिता। एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्तदा॥ ४६॥ अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः। अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये॥ ४७॥ पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः। दण्ड एव वरो लोके पुरुषस्येति मे मतिः॥ ४८॥ धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा। अयं हि सागरो भीमः सेतुकर्मदिदृक्षया॥ ४९॥ ददौ दण्डभयाद्गाधं राघवाय महोदधिः। मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा॥ ५०॥ मया तु सदृशः पुत्रस्तव देवि भविष्यति। औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा॥ ५१॥ स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः। न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान्॥ ५२॥ समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये। काममद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः॥ ५३॥ ततोऽतिसृष्टा रामेण सर्वतो हरियूथपाः। उभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः॥ ५४॥ ते नगान्नगसंकाशाः शाखामृगगणर्षभाः। बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम्॥ ५५॥ ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः। कुटजैरर्जुनैस्तालैस्तिलकैस्तिनिशैरपि॥ ५६॥ बिल्वैश्च सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः। चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्॥ ५७॥ समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः। इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून्॥ ५८॥ तालान् दाडिमगुल्मांश्च नारिकेलन् विभीतकान्। बकुलान् खदिरान्निम्बान् समाजह्रुः समन्ततः॥ ५९॥ हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः। पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च॥ ६०॥ प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्। समुत्पतितमाकाशमुपासर्पत्ततस्ततः॥ ६१॥ समुद्रं क्षोभयामासुर्वानराश्च समन्ततः। सूत्राण्यन्ये प्रगृह्णन्ति व्यायतं शतयोजनम्॥ ६२॥ दशयोजनविस्तारं शतयोजनमायतम्। नलश्चक्रे महासेतुं मध्ये नदनदीपतेः॥ ६३॥ स तथा क्रियते सेतुर्वानरैर्घोरकर्मभिः। दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथा परे॥ ६४॥ वानराः शतशस्तत्र रामस्याज्ञापुरःसराः। मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बबन्धिरे॥ ६५॥ पुष्पिताग्रैश्च तरुभिः सेतुं बघ्नन्ति वानराः। पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च॥ ६६॥ दृश्यन्ते परिधावन्तो गृह्य वारणसंनिभाः। शिलानां क्षिप्यमाणानां शैलानां च निपात्यताम्॥ ६७॥ बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ। कृतानि प्रथमेनाह्ना योजनानि चतुर्दश॥ ६८॥ प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः। द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः॥ ६९॥ कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः। अह्ना तृतीयेन तथा योजनानि कृतानि तु॥ ७०॥ त्वरमाणैर्महाकायैरेकविंशतिरेव च। चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि च॥ ७१॥ योजनानि महावेगैः कृतानि त्वरितैस्तु तैः। पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः॥ ७२॥ योजनानि त्रयोविंशत् सुवेलमधिकृत्य वै। स वानरवरः श्रीमान् विश्वकर्मात्मजो बली॥ ७३॥ बबन्ध सागरे सेतुं यथा चास्य पिता तथा। स नलेन कृतः सेतुः सागरे मकरालये॥ ७४॥ शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे। ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः॥ ७५॥ आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम्। दशयोजनविस्तीर्णं शतयोजनमायतम्॥ ७६॥ ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम्। आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः॥ ७७॥ तदचिन्त्यमसह्यं च अद्भुतं रोमहर्षणम्। ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्॥ ७८॥ तानि कोटिसहस्राणि वानराणां महौजसाम्। बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः॥ ७९॥ विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः। अशोभत महासेतुः सीमन्त इव सागरे॥ ८०॥ ततः पारे समुद्रस्य गदापाणिर्विभीषणः। परेषामभिघातार्थमतिष्ठत् सचिवैः सह॥ ८१॥ सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्। हनुमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः॥ ८२॥ अयं हि विपुलो वीर सागरो मकरालयः। वैहायसौ युवामेतौ वानरौ तारयिष्यतः॥ ८३॥ अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः। जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः॥ ८४॥ अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः। सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे॥ ८५॥ केचिद्वैहायसगताः सुपर्णा इव पुप्लुवुः। घोषेण महता तस्य सिन्धोर्घोषं समुच्छ्रितम्॥ ८६॥ भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी। वानराणां हि सा तीर्णा वाहिनी नलसेतुना। तीरे निविविशे राज्ञो बहुमूलफलोदके॥ ८७॥ तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः। उपेत्य रामं सहसा महर्षिभिः समभ्यषिञ्चन् सुशुभैर्जलैः पृथक्॥ ८८॥ जयस्व शत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः। इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन्॥ ८९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सेतुबन्धो नाम द्वाविंशः सर्गः ॥६-२२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध