निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः। सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत्॥ १॥ परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण॥ २॥ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्। निबर्हणं प्रवीराणामृक्षवानररक्षसाम्॥ ३॥ वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा। पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः॥ ४॥ मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः। क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः॥ ५॥ रक्तचन्दनसंकाशा सन्ध्या परमदारुणा। ज्वलतः प्रतप्येतदादित्यादग्निमण्डलम्॥ ६॥ दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः। प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम्॥ ७॥ रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः। कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः॥ ८॥ ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः। आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते॥ ९॥ रजसा महता चापि नक्षत्राणि हतानि च। युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण॥ १०॥ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च। शिवाश्चाप्यशिवान्नादान्नदन्ति सुमहाभयान्॥ ११॥ शैलैः शूलैश्च खड्गैश्च विसृष्टैः कपिराक्षसैः। भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा॥ १२॥ क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम्। अभियाम जवेनैव सर्वतो हरिभिर्वृताः॥ १३॥ इत्येवमुक्त्वा धर्मात्मा धन्वी संग्रामहर्षणः। प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः॥ १४॥ सविभीषणसुग्रीवास्ततस्ते वानरर्षभाः। प्रतस्थिरे विनर्दन्तो निश्चिता द्विषतां वधे॥ १५॥ राघवस्य प्रियार्थं तु धृतानां वीर्यशालिनाम्। हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः॥ १६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे लङ्काभिषेणनं नाम त्रयोविंशः सर्गः ॥६-२३॥