home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकोनत्रिंशः सर्गः ॥६-२९॥

॥शार्दूलादिचारप्रेषणम्॥

[ शुकसारणौ निर्भर्त्स्य रावणेन तयोः सभातो निष्कासनं तत्प्रहितानां गुप्तचराणां श्रीरामानुग्रहेण वानरतो मोक्षणं लङ्कायां निवर्तनं च ]

शुकेन तु समाख्यातांस्तान् दृष्ट्वा स हरियूथपान्। लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्॥ १॥ समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम्। सर्ववानरराजं च सुग्रीवं भीमविक्रमम्॥ २॥ गजं गवाक्षं गवयं मैन्दं द्विविदमेव च। अङ्गदं चैव बलिनं वज्रहस्तात्मजात्मजम्॥ ३॥ हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम्। सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम्॥ ४॥ किञ्चिदाविग्नहृदयो जातक्रोधश्च रावणः। भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ॥ ५॥ अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ। रोषगद‍्गदया वाचा संरब्धं परुषं वचः॥ ६॥ न तावत्सदृशं नाम सचिवैरुपजीविभिः। विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः॥ ७॥ रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्। उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्॥ ८॥ आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः। सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते॥ ९॥ गृहीतो वा न विज्ञातो भारो ज्ञानस्य वाह्यते। ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्॥ १०॥ किं नु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः। यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्॥ ११॥ अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः। राजदिषपरामृष्टास्तिष्ठन्ते नापराधिनः॥ १२॥ हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसकौ। यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत्॥ १३॥ अपध्वंसत गच्छध्वं संनिकर्षादितो मम। न हि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम्॥ १४॥ हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ। एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ॥ १५॥ रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ। अब्रवीच्च दशग्रीवः समीपस्थं महोदरम्॥ १६॥ उपस्थापय मे शीघ्रं चारान्नितिविशारदान्। महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान्॥ १७॥ ततश्चाराः संत्वरिताः प्राप्ताः पार्थिवशासनात्। उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा॥ १८॥ तानब्रवीत् वाक्यं रावणो राक्षसाधिपः। चारान् प्रत्यायिकान् शूरान् भक्तान् विगतसाध्वसान्॥ १९॥ इतो गच्छत रामस्य व्यवसायं परीक्षिथ। मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः॥ २०॥ कथं स्वपिति जागर्ति किमन्यच्च करिष्यति। विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः॥ २१॥ चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः। युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते॥ २२॥ चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्। शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम्॥ २३॥ ततस्तं तु महात्मानं चारा राक्षससत्तमम्। कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः॥ २४॥ ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ। प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ॥ २५॥ प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविक्लवाः। ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः॥ २६॥ विभीषणेन तत्रस्था निगृहीता यदृच्छया। शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः॥ २७॥ मोचितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः। आनृशंस्येन रामस्य मोचिता राक्षसाः परे॥ २८॥ वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः। पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः॥ २९॥ ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः। गिरेः सुवेलस्य समीपवासिनं न्यवेदयन् रामबलं महाबलाः॥ ३०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे शार्दूलादिचारप्रेषणं नाम एकोनत्रिंशः सर्गः ॥६-२९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध