home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

त्रिंशः सर्गः ॥६-३०॥

॥वानरब्लसंख्यानम्॥

[ रावणप्रहितानां गुप्तचराणां शार्दूलस्य च तं प्रति वानरसेनायाः समाचारस्य बोधनं तत्रत्यप्रमुख- वीराणां परिचयदानं च ]

ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्॥ १॥ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोऽभवत् किंचिच्छार्दूलं वाक्यमब्रवीत् ॥ २॥ अयथावच्च ते वर्णो दीनश्चासि निशाचर। नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः॥ ३॥ इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयन्। तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः॥ ४॥ न ते चारयितुं शक्या राजन् वानरपुङ्गवाः। विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः॥ ५॥ नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते। सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः॥ ६॥ प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते। बलाद् गृहीतो रक्षोभिर्बहुधास्मि विचालितः॥ ७॥ जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्। परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः॥ ८॥ परिणीय च सर्वत्र नीतोऽहं रामसंसदि। रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः॥ ९॥ हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः। राघवेण परित्रातो मा मेति च यदृच्छया॥ १०॥ एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम्। द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः॥ ११॥ गरुडं व्यूहमास्थाय सर्वतो हरिभिर्वृतः। मां विसृज्य महातेजा लङ्कामेवाभिवर्तते॥ १२॥ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु। सीतां वास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम्॥ १३॥ मनसा तं तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः। शार्दूलं सुमहद्वाक्यमथोवाच स रावणः॥ १४॥ यदि मां प्रति युध्येरन् देवगन्धर्वदानवाः। नैव सीतां प्रदास्यामि सर्वलोकभयादपि॥ १५॥ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्। चरिता भवता सेना केऽत्र शूराः प्लवङ्गमाः॥ १६॥ कीदृशाः किंप्रभाः सौम्य वानरा ये दुरासदाः। कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस॥ १७॥ तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्। अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छताम्॥ १८॥ अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः। इदं वचनमारेभे वक्तुं रावणसंनिधौ॥ १९॥ अथर्क्षरजसः पुत्रो युधि राजा सुदुर्जयः। गद‍्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः॥ २०॥ गद‍्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः। कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्॥ २१॥ सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्। सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः॥ २२॥ सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः। मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा॥ २३॥ पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम्। अनिलस्य च पुत्रोऽत्र हनुमानिति विश्रुतः॥ २४॥ नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा। मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ॥ २५॥ पुत्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः। गजो गवाक्षो गवयः शरभो गन्धमादनः॥ २६॥ दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्। श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे॥ २७॥ पुत्रो दशरथस्यैष सिंहसंहननो युवा। दूषणो निहतो येन खरश्च त्रिशिरास्तथा॥ २८॥ नास्ति रामस्य सदृशे विक्रमे भुवि कश्चन। विराधो निहतो येन कबन्धश्चान्तकोपमः॥ २९॥ वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान् क्षितौ। जनस्थानगता येन यावन्तो राक्षसा हताः॥ ३०॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः। यस्य बाणपथं प्राप्य न जीवेदपि वासवः॥ ३१॥ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ। वरुणस्याथ च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः॥ ३१॥ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः। विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः॥ ३३॥ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः। प्रतिगृह्य पुरीं लङ्कां राघवस्य हिते रतः॥ ३४॥ इति सर्वं समाख्यातं तवेदं वानरं बलम्। सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे वानरब्लसंख्यानं नाम त्रिंशः सर्गः ॥६-३०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध