home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

सप्तत्रिंशः सर्गः ॥६-३७॥

॥रामगुल्मविभागः॥

[ विभीषणेन श्रीरामं प्रति रावणेन विहिताया लङ्कारक्षाव्यवस्थाया वर्णनं श्रीरामेण लङ्काया द्वारेष्वाक्रमणाय वानरसेनापतीनां नियुक्तिः ]

नरवानरराजौ तौ स च वायुसुतः कपिः। जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः॥ १॥ अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः। सुषेणः सहदायादो मैन्दो द्विविद एव च॥ २॥ गजो गवाक्षो गवयो नलोऽथ पनसस्तथा। अमित्रविषयं प्राप्ताः समवेताः समर्थयन्॥ ३॥ इयं सा लक्ष्यते लङ्का पुरी रावणपालिता। सासुरोरगगन्धर्वैरमरैरपि दुर्जया॥ ४॥ कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये। नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः॥ ५॥ तथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्। वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः॥ ६॥ अनलः शरभश्चैव सम्पातिः प्रघसस्तथा। गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः॥ ७॥ भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्। विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः॥ ८॥ संविधानं यदाहुस्ते रावणस्य दुरात्मनः। राम तद् ब्रुवतः सर्वं याथातथ्येन मे शृणु॥ ९॥ पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति। दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ॥ १०॥ इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः। पट्टिशासिधनुष्मद्भिः शूलमुद‍्गरपाणिभिः॥ ११॥ नानाप्रहरणैः शूरैरावृतो रावणात्मजः। राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः॥ १२॥ युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः। उत्तरं नगरद्वारं रावणः स्वयमास्थितः॥ १३॥ विरूपाक्षस्तु महता शूलखड्गधनुष्मता। बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः॥ १४॥ एतानेवंविधान् गुल्माँल्लङ्कायां समुदीक्ष्य ते। मामका सचिवाः सर्वे पुनः शीघ्रमिहागताः॥ १५॥ गजानां च सहस्त्रं च रथानामयुतं पुरे। हयानामयुते द्वे च साग्रकोटिश्च रक्षसाम्॥ १६॥ विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः। इष्टा राक्षसराजस्य नित्यमेते निशाचराः॥ १७॥ एकैकस्यात्र युद्धार्थे राक्षसस्य विशाम्पते। परीवारः सहस्राणां सहस्रामुपतिष्ठते॥ १८॥ एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तां विभीषणः। एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत्॥ १९॥ लङ्कायां सचिवैः सर्वं रामाय प्रत्यवेदयत्। रामं कमलपत्राक्षमिदमुत्तरमब्रवीत्॥ २०॥ रावणावरजः श्रीमान् रामप्रियचिकीर्षया। कुबेरं तु यदा राम रावणः प्रतियुध्यत॥ २१॥ षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः। पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्॥ २२॥ सदृशा येऽत्र दर्पेण रावणस्य दुरात्मनः। अत्र मन्युर्न कर्तव्यः रोषये त्वां न भीषये॥ २३॥ समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे। तद्भवांश्चतुरङ्गेण बलेन महता वृतः॥ २४॥ व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्। रावणावरजे वाक्यमेवं ब्रुवति राघवः॥ २५॥ शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत्। पूर्वद्वारं तु लङ्काया नीलो वानरपुङ्गवः॥ २६॥ प्रहस्तप्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः। अङ्गदो वालिपुत्रस्तु बलेन महता वृतः॥ २७॥ दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ। हनूमान् पश्चिमद्वारं निपीड्य पवनात्मजः॥ २८॥ प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः। दैत्यदानवसङ्घानामृषीणां च महात्मनाम्॥ २९॥ विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः। परिक्रमति यः सर्वान् लोकान् संतापयन् प्रजाः॥ ३०॥ तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः। उत्तरं नगरद्वारमहं सौमित्रिणा सह॥ ३१॥ निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः। वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान्॥ ३२॥ राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे। न चैव मानुषं रूपं कार्यं हरिभिराहवे॥ ३३॥ एषा भवतु संज्ञा नो युद्धेऽस्मिन् वानरे बले। वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति॥ ३४॥ वयं तु मानुषेणैव सप्त योत्स्यामहे परान्। अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा॥ ३५॥ आत्मना पञ्चमश्चायं सखा मम विभीषणः। स रामः कृत्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्॥ ३६॥ सुवेलारोहणे बुद्धिं चकार मतिमान् मतिम्। रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम्॥ ३७॥ ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा। प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रामगुल्मविभागो नाम सप्तत्रिंशः सर्गः ॥६-३७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध