home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

अष्टात्रिंशः सर्गः ॥६-३८॥

॥सुवेलारिहणम्॥

[ प्रमुखवानरैः सह सुवेलपर्वतमधिरूढस्य श्रीरामस्य तत्रैव रात्रौ निवासः ]

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति। लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्॥ १॥ विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्। मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा॥ २॥ सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम्। अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्॥ ३॥ लङ्कां चालोकयिष्यामो निलये तस्य रक्षसः। येन मे मरणान्ताय हृता भार्या दुरात्मना॥ ४॥ येन धर्मो न विज्ञातो न त्द्वृत्तं न कुलं तथा। राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम्॥ ५॥ तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे। यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्॥ ६॥ एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति॥ ७॥ एवं सम्मन्त्रयन्नेव सक्रोधो रावणं प्रति। रामः सुवेलं वासाय चित्रसानुमुपारुहत्॥ ८॥ पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः। सशरं चापमुद्यम्य सुमहद्विक्रमे रतः॥ ९॥ तमन्वारोहत्सुग्रीवः सामात्यः सविभीषणः। हनुमानङ्गदो नीलो मैन्दो द्विविद एव च॥ १०॥ गजो गवाक्षो गवयः शरभो गन्धमादनः। पनसः कुमुदश्चैव हरो रम्भश्च यूथपः॥ ११॥ जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः। दुर्मुखश्च महातेजास्तथा शतवलिः कपिः॥ १२॥ एते चान्ये च बहवो वानराः शीघ्रगामिनः। ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः॥ १३॥ अध्यारोहन्त शतशः सुवेलं यत्र राघवः। ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः॥ १४॥ ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्। तां शुभां प्रवरद्वारां प्राकारपरिशोभिताम्॥ १५॥ लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः। प्राकारचयसंस्थैश्च तदा नीलैर्निशाचरैः॥ १६॥ ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्॥ १७॥ ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः॥ १८॥ मुमुचुर्विविधान्नादांस्तत्र रामस्य पश्यतः। ततोऽस्तमगमत्सूर्यः सण्ध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीप्ता च क्षपा समभिवर्तते॥ १९॥ ततः स रामो हरिवाहिनीपति- र्विभीषणेन प्रतिनन्द्य सत्कृतः। सलक्ष्मणो यूथपयूथसंवृतः सुवेलपृष्ठे न्यवसद्यथासुखम्॥ २०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सुवेलारोणं नाम अष्टात्रिंशः सर्गः ॥६-३८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध