home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकोनचत्वारिंशः सर्गः ॥६-३९॥

॥लङ्कादर्शनम्॥

[ वानरैः सह श्रीरामेण सुवेलशिखराल्लङ्काया निरीक्षणम् ]

तां रात्रिमुषितास्तत्र सुवेले हरियूथपाः। लङ्कायां ददृशुर्वीरा वनान्युपवनानि च॥ १॥ समसौम्यानि रम्याणि विशालान्यायतानि च। दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः॥ २॥ चम्पकाशोकपुन्नागशालतालसमाकुला। तमालवनसंछन्ना नागमालासमावृता॥ ३॥ हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः। तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः॥ ४॥ शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः। लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती॥ ५॥ विचित्रकुसुमोपैतैः रक्तकोमलपल्लवैः। शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः॥ ६॥ गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च। धारयन्त्यगमास्तत्र भूषणानीव मानवाः॥ ७॥ तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्। वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्॥ ८॥ नत्यूहकोयष्टिबकैर्नृत्यमानैश्च बर्हिणैः। रुतं परभृतानां च शुश्रुवुर्वननिर्झरे॥ ९॥ नित्यमत्तविहङ्गानि भ्रमराचरितानि च। कोकिलाकुलषण्डानि विहङ्गाभिरुतानि च॥ १०॥ भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च। कोणालकविघुष्टानि सारसाभिरुतानि च॥ ११॥ विविशुस्ते ततस्तानि वनान्युपवनानि च। हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः॥ १२॥ तेषां प्रविशतां तत्र वानराणां महौजसाम्। पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः॥ १३॥ अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः। सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्॥ १४॥ वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान्। कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः॥ १५॥ कुर्वन्तस्ते महावेगा महीं चरणपीडिताम्। रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम्॥ १६॥ ऋक्षाः सिंहा वारहाश्च महिषा वारणा मृगाः। तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश॥ १७॥ शिखरं तत्त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्। समन्तात्पुष्पसंछन्नं महारजतसंनिभम्॥ १८॥ शतयोजनविस्तीर्णं विमलं चारुदर्शनम्। श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि॥ १९॥ मनसापि दुरारोहं किं पुनः कर्मणा जनैः। निविष्टा तत्र शिखरे लङ्का रावणपालिता॥ २०॥ शतयोजनविस्तीर्णा त्रिंशद्योजनमायता। सा पुरी गोपुरैरुच्चैः पाण्डराम्बुदसंनिभैः॥ २१॥ काञ्चनेन च सालेन राजतेन च शोभते। प्रासादैश्च विमानैश्च लङ्का परमभूषिता॥ २२॥ घनैरिवातपापाये मध्यमं वैष्णवं पदम्। यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः॥ २३॥ कैलासशिखराकारो दृश्यते खमिवोल्लिखन्। चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्॥ २४॥ शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते। मनोज्ञां काननवतीं पर्वतैरुपशोभिताम्॥ २५॥ नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम्। नानाविहगसंघुष्टां नानामृगनिषेविताम्॥ २६॥ नानाकुसुमसंछन्नां नानाराक्षससेविताम्। तां समृद्धां समृद्धार्थां लक्ष्मीवाँल्लक्ष्मणाग्रजः॥ २७॥ रावणस्य पुरीं रामो ददर्श सह वानरैः। तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः। नगरीममरप्रख्यां विस्मयं प्राप वीर्यवान्॥ २८॥ तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलंकृतां च। पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे लङ्कादर्शनं नाम एकोनचत्वारिंशः सर्गः ॥६-३९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध