home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

त्रिचत्वारिंशः सर्गः ।। ४३ ।।

॥द्वन्द्वयुद्धम्॥

[ द्वन्द्वयुद्धे वानरै रक्षसां पराजयः ]

युध्यतां तु ततस्तेषां वानराणां महात्मनाम्। रक्षसां सम्बभूवाथ बलकोपः सुदारुणः॥ १॥ ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः। रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः॥ २॥ निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश। राक्षसा भीमकर्माणो रावणस्य जयैषिणः॥ ३॥ वानराणामपि चमूर्बृहती जयमिच्छताम्। अभ्यधावत तां सेनां रक्षसां कामरूपिणाम्॥ ४॥ एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्। रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत॥ ५॥ अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः। अयुध्यत महातेजास्त्र्यम्बकेन यथान्धकः॥ ६॥ प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे। जम्बुमालिनमारब्धो हनुमानपि वानरः॥ ७॥ संगतः सुमहाक्रोधो राक्षसो रावणानुजः। समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः॥ ८॥ तपनेन गजः सार्धं राक्षसेन महाबलः। निकुम्भेन महातेजा नीलोऽपि समयुध्यत॥ ९॥ वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः। संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः॥ १०॥ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः॥ ११॥ वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः। राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ॥ १२॥ वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः। समरे तीक्ष्णवेगेन नलेन समयुध्यत॥ १३॥ धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः। स विद्युन्मालिना सार्धमयुध्यत महाकपिः॥ १४॥ वानराश्चापरे भीमा राक्षसैरपरैः सह। द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह॥ १५॥ तत्रासीत्सुमहद् युद्धं तुमुलं रोमहर्षणम्। रक्षसां वानराणां च वीराणां जयमिच्छताम्॥ १६॥ हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः। शरीरसङ्घाटवहाः प्रसुस्रुः शोणतापगाः॥ १७॥ आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः। अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्॥ १८॥ तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्। जघान समरे श्रीमानङ्गदो वेगवान् कपिः॥ १९॥ सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः। निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि॥ २०॥ जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः। बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे॥ २१॥ तस्य तं रथमास्थाय हनूमान् मारुतात्मजः। प्रममाथ तलेनाशु सह तेनैव रक्षसा॥ २२॥ नदन् प्रतपनो घोरो नलं सोऽभ्यनुधावत। नलः प्रतपनस्याशु पातयामास चक्षुषी॥ २३॥ भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा। प्रजाधानाद्रिशृङ्गेण तपनं मुष्टिना गजः॥ २४॥ भिन्नगात्रौः शरैस्तीक्ष्णैः मित्रघ्नेन विभीषणः। मित्रघ्नं गदया क्रुद्धो निजघान विभीषणः॥ २५॥ ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः। सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च॥ २६॥ प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्। निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः॥ २७॥ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः॥ २८॥ तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरैः। क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः॥ २९॥ वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे। पपात सरथः साश्वः पुराट्ट इव भूतले॥ ३०॥ निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्। निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान्॥ ३१॥ पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः। बिभेद समरे नीलं निकुम्भः प्रजहास च॥ ३२॥ तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे। शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः॥ ३३॥ वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्। जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्॥ ३४॥ द्विविदं वानरेन्द्रं तु नगायोधिनमाहवे। शरैरशनिसंकाशैः स विव्याधाशनिप्रभः॥ ३५॥ स शरैरतिविद्धाङ्गो द्विविदः क्रोधर्मूच्छितः। सालेन सरथं साश्वं निजघानाशनिप्रभम्॥ ३६॥ विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः। सुषेणं ताडयामास ननाद च मुहुर्मुहुः॥ ३७॥ तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः। गिरिशृङ्गेण महता रथमाशु न्यपातयत्॥ ३८॥ लाघवेन तु संयुक्तो विद्युन्माली निशाचरः। अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः॥ ३९॥ ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः। शिलां सुमहतीं गृह्य निशाचरमभिद्रवत्॥ ४०॥ तमापतन्तं गदया विद्युन्माली निशाचरः। वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम्॥ ४१॥ गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः। तां शिलां पातयामास तस्योरसि महामृधे॥ ४२॥ शिलाप्रहाराभिहतो विद्युन्माली निशाचरः। निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह॥ ४३॥ एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः। द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः॥ ४४॥ भग्नैः खङ्गैर्गदाभिश्च शक्तितोमरपट्टसैः। अपविद्धैश्च भिन्नैश्च रथैः सांग्रामिकैर्हयैः॥ ४५॥ निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः। चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः॥ ४६॥ बभूवायोधनं घोरं गोमायुगणसंकुलम्। कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्। विमर्दे तुमुले तस्मिन् देवासुररणोपमे॥ ४७॥ विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः। पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः॥ ४८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे युद्धारम्भो नाम द्विचत्वारिंशः सर्गः ।। ४२ ।।


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध