युध्यतामेव तेषां तु तदा वानररक्षसाम्। रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी॥ १॥ अन्योन्यं बद्धवैराणां घोराणं जयमिच्छताम्। सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम्॥ २॥ राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः। अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे॥ ३॥ जहि दारय चैहीति कथं विद्रवसीति च। एवं सुतुमुलः शब्दस्तस्मिंस्तमिसि शुश्रुवे॥ ४॥ कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः। सम्प्रदृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव॥ ५॥ तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः। परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान्॥ ६॥ ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशीखोपमान्। आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्॥ ७॥ वानरा बलिनो युद्धेऽक्षोभयन् राक्षसीं चमूम्। कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान्॥ ८॥ चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः। लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः॥ ९॥ दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः। तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम्॥ १०॥ रुरोध कर्णनेत्राणि युध्यतां धरणीरजः। वर्तमाने महाघोरे संग्रामे रोमहर्षणे॥ ११॥ रुधिरौघा महाघोरा नद्यस्तत्र प्रसुस्रुवुः। ततो भेरीमृदङ्गानां पणवानां च निःस्वनः॥ १२॥ शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः। हतानां स्तनमानानां राक्षसानां च निःस्वनः॥ १३॥ शस्तानां वानराणां च सम्बभूवातिदारुणः। हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः॥ १४॥ निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः। शस्त्रपुष्पोपहारा च तत्रासीद् युद्धमेदिनी॥ १५॥ दुर्ज्ञेया दुर्निवेशा च शोणितास्त्रावकर्दमा। सा बभूव निशा घोरा हरिराक्षसहारिणी॥ १६॥ कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा। ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे॥ १७॥ राममेवाभ्यवर्तन्त संहृष्टाः शरवृष्टिभिः। तेषामापततां शब्दः क्रुद्धानामपि गर्जताम्॥ १८॥ उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे। तेषां रामः शरैः षङ्भिः षड् जघान निशाचरान्॥ १९॥ निमेषान्तरमात्रेण शितैरग्निशिखोपमैः। यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ॥ २०॥ वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ। ते तु रामेण बाणौघैः सर्व मर्मसु ताडिताः॥ २१॥ युद्धादपसृतास्तत्र सावशेषायुषोऽभवन्। तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः॥ २२॥ दिशश्चकार विमलाः प्रदिशश्च महाबलः। रामनामाङ्कितैर्बाणैर्व्याप्तं तद्रणमण्डलम्॥ २३॥ ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः। तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम्॥ २४॥ सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्त्रशः। बभूव रजनी चित्रा खद्योतैरिव शारदी॥ २५॥ राक्षसानां च निनदैर्भेरीणां चापि निःस्वनैः। सा बभूव निशा घोरा भूयो घोरतरा तदा॥ २६॥ तेन शब्देन महता प्रवृद्धेन समन्ततः। त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः॥ २७॥ गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः। सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान्॥ २८॥ अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः। रावणिं निजघानाशु सारथिं च हयानपि॥ २९॥ वर्तमाने तदा घोरे संग्रामे भृशदरुणे। इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः॥ ३०॥ अङ्गदेन महाकायस्तत्रैवान्तरधीयत। तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः॥ ३१॥ तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ। प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि॥ ३२॥ अद्य्श्यः सर्वभूतानां योऽभवद्युधि दुर्जयः। तेन ते तं महात्मानं तुष्टाः दृष्ट्वा प्रधर्षितम्॥ ३३॥ ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः। साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम्॥ ३४॥ इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा। संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम्॥ ३५॥ सोऽन्तर्धानगतः पापो रावणी रणकर्शितः। ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्च्छितः॥ ३६॥ अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः। स रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः॥ ३७॥ बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः। मायया संवृतस्तत्र मोहयन् राघवौ युधि॥ ३८॥ अदृश्यः सर्वभूतानां कूटयोधी निशाचरः। बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ॥ ३९॥ तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः। सहसा निहतौ वीरौ तदा प्रेक्षन्त वानराः॥ ४०॥ प्रकाशरूपस्तु यदा न शक्त- स्तौ बाधितुं राक्षसराजपुत्रः। मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे निशायुद्धं नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥