धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः। क्रोधेन महताविष्टो निःश्वसन्नुरगो यथा॥ १॥ दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः। अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम्॥ २॥ गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः। जहि दाशरथिं रामं सुग्रीवं वानरैः सह॥ ३॥ तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः। निर्जगाम बलैः सार्धं बहुभिः परिवारितः॥ ४॥ नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः। पताकाध्वजचित्रैश्च रथैश्च समलंकृतः॥ ५॥ ततो विचित्रकेयूरमुकुटैश्च विभूषितः। तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम्॥ ६॥ पताकालंकृतं दीप्तं तप्तकाञ्चनभूषितम्। रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः॥ ७॥ यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि। भिण्डिपालैश्च पाशैश्च शक्तिभिः पट्टसैरपि॥ ८॥ खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः। पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः॥ ९॥ विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः। गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः॥ १०॥ ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः। अन्ये लक्षणसंयुक्ताः शूरा रूढा महाबलाः॥ ११॥ तद्राक्षसबलं घोरं विप्रस्थितमशोभत। प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः॥ १२॥ निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः। तेषां निष्क्रममाणानामशुभं समजायत॥ १३॥ आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा। वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे॥ १४॥ व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा। समापतन्तो योधास्तु प्रास्खलन् भयमोहिताः॥ १५॥ एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः। धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः॥ १६॥ तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः। प्रणेदुः सुमहानादान् पुरयंश्च दिशो दश॥ १७॥ ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह। घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम्॥ १८॥ निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः। रुधिरोक्षितसर्वाङ्गा न्यपतञ्चगतीतले॥ १९॥ केचिदन्योन्यमासाद्य शूराः परिघपाणयः। चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः॥ २०॥ द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः। श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः॥ २१॥ रथनेमिस्वनस्तत्र धनुषश्चापि निःस्वनः। शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः॥ २२॥ केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत। तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि॥ २३॥ जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः। शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः॥ २४॥ वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन्। चचार लोकसंहारे पाशहस्त इवान्तकः॥ २५॥ बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे। जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधर्मूच्छिताः॥ २६॥ निघ्नतो राक्षसान् धृष्ट्वा सर्वान् वालिसुतो रणे। क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः॥ २७॥ तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान्। अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव॥ २८॥ चकार कदनं घोरं शक्रतुल्यपराक्रमः। अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः॥ २९॥ विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः। रथैश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम्॥ ३०॥ रुधिरेण च संछन्ना भूमिर्भयकरी तदा। हारकेयूरवस्त्रैश्च शस्त्रैश्च समलंकृता॥ ३१॥ भूमिर्भाति रणे तत्र शारदीव यथा निशा। अङ्गदस्य च वेगेन तद्राक्षसबलं महत्। प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा॥ ३२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे वज्रदंष्ट्रवद्धं नाम त्रिपञ्चाशः सर्गः ॥६-५३॥