home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

चतुष्पञ्चाशः सर्गः ॥६-५४॥

॥वज्रदंष्ट्रवधः॥

[ वज्रदंष्ट्राङ्गदयोर्युद्धमङ्गदेन तस्य वधश्च ]

बलस्य च निघातेन अङ्गदस्य जयेन च। राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः॥ १॥ स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम्। वानराणामनीकानि प्राकिरच्छरवृष्टिभिः॥ २॥ राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः। नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे॥ ३॥ वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः। अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः॥ ४॥ तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम्। राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा॥ ५॥ वानराश्चचापि रक्षःसु गिरिन् वृक्षान् महाशिलाः। प्रवीराः पातयामासुर्मत्तवारणसंनिभाः॥ ६॥ शूराणां युध्यमानानां समरेष्वनिवर्तिनाम्। तद्राक्षसगणानां च सुयुद्धं समवर्तत॥ ७॥ प्रभिन्निशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः। शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः॥ ८॥ हरयो राक्षसाश्चैव शेरते गां समाश्रिताः। कङ्कगृध्रबलाढ्याश्च गोमायुगणसंकुलाः॥ ९॥ कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै। भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले॥ १०॥ वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे। ततो वानरसैन्येन हन्यमानं निशाचरम्॥ ११॥ प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः। राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः॥ १२॥ दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान्। प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम्॥ १३॥ शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः। बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च॥ १४॥ विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान्। त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तकन्धराः॥ १५॥ अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः। ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा॥ १६॥ क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत। वज्रदंष्ट्रोऽङ्गदश्चोभौ संगतौ हरिराक्षसौ॥ १७॥ चेरतुः परमक्रुद्धौ हरिमत्तगजाविव। ततः शतसहस्रेण हरिपुत्रं महाबलः॥ १८॥ जघान मर्मदेशेषु मातङ्गमिव तोमरैः। रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः॥ १९॥ चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः। दृष्ट्वापतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः॥ २०॥ चिच्छेद बहुधा सोऽपि निकृत्तः पतितो भुवि। तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः॥ २१॥ प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च। समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान्॥ २२॥ गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत। अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि॥ २३॥ सचक्रकूबरं साश्वं प्रममाथ रथं तदा। ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम्॥ २४॥ वज्रदंष्ट्रस्य शिरसि पातयामास सोऽङ्गदः। अभवच्छोणितोद‍्गारी वज्रदंष्ट्रः स मूर्च्छितः॥ २५॥ मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन्। स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम्॥ २६॥ जघान परमक्रुद्धो वक्षोदेशे निशाचरः। गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत॥ २७॥ अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ। रुधिरोद‍्गारिणौ तौ तु प्रहारैर्जनितश्रमौ॥ २८॥ बभूवतुः सुविक्रान्तावङ्गारकबुधाविव। ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः॥ २९॥ उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलान्वितम्। जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम्॥ ३०॥ किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम्। विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ॥ ३१॥ जघ्नतुश्च तदान्योन्यं नर्दयं जयकाङ्क्षिणौ। व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ॥ ३२॥ युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ। निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः॥ ३३॥ उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः। निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः॥ ३४॥ जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः। रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा॥ ३५॥ सरोषपरीवृत्ताक्षं शुभं खड्गहतं शिरः। वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः॥ ३६॥ त्रस्ता प्रत्यपतल्लँङ्कां वध्यमानाः प्लवङ्गमैः। विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः॥ ३७॥ निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये। जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः॥ ३८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे वज्रदंष्ट्रवधो नाम चतुष्पञ्चाशः सर्गः ॥६-५४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध