home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

पञ्चपञ्चाशः सर्गः ॥६-५५॥

॥अकम्पनयुद्धम्॥

[ रावणाज्ञयाकम्पनादीनां युद्ध आगमनं वानरैः सह तेषां घोरं युद्धं च ]

वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः। बलाध्यक्षमुवाचेदं कृताञ्जलिमपस्थितम्॥ १॥ शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः। अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम्॥ २॥ एष शास्ता च गोप्ता च नेता च युधि संमतः। भूतिकामश्च मे नित्यं नित्यं च समरप्रियः॥ ३॥ एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्। वानरांश्चापरान् घोरान् हनिष्यति परंतपः॥ ४॥ परिगृह्य स तामाज्ञां रावणस्य महाबलः। बलं संतवरयामास तदा लघुपराक्रमः॥ ५॥ ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः। निष्पेतू राक्षसां मुख्या बलाध्यक्षप्रचोदिताः॥ ६॥ रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः। मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः॥ ७॥ राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः। नहि कम्पयितुं शक्यः सुरैरपि महामृधे॥ ८॥ अकम्पनस्ततस्तेषामादित्य इव तेजसा। तस्य निर्धावमानस्य संरब्धस्य युयुत्सया॥ ९॥ अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम्। व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः॥ १०॥ विवर्णो मुखवर्णश्च गद‍्गदश्चाभवत्स्वनः। अभवत्सुदिने चापि दुर्दिनं रूक्षमारुतम्॥ ११॥ ऊचुः खग मृगाः सर्वे वाचः क्रूरा भयावहाः। स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः॥ १२॥ तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्। तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः॥ १३॥ बभूव सुमहान्नादः क्षोभयन्निव सागरम्। तेन शब्देन वित्रस्ता वानराणां महाचमूः॥ १४॥ द्रुमशैलप्रहाराणा योद्धुं समवतिष्ठत। तेषां युद्धं महारौद्रं संजज्ञे हरिरक्षसाम्॥ १५॥ रामरावणयोरर्थे समभित्यक्तजीविनाम्। सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः॥ १६॥ हरयो राक्षसाश्चैव परस्परजिघांसवः। तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम्॥ १७॥ शुश्रुवे सुमहान् क्रोद्गादन्योन्यमभिगर्जताम्। रजश्चारुणवर्णाभं सुभीममभवद् भृशम्॥ १८॥ उद‍्धृतं हरिरक्षोभिः संरुरोध दिशो दश। अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना॥ १९॥ संवृतानि च भूतानि ददृशुर्न रणाजिरे। न ध्वजो न पताका वा वर्म वा तुरगोऽपि वा॥ २०॥ आयुधं स्यन्दनं वापि ददृशे तेन रेणुना। शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्॥ २१॥ श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे। हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे॥ २२॥ राक्षसाश्चापि राक्षांसि निजघ्नुस्तिमिरे तदा। परांश्चव विनिघ्नन्तः स्वांश्च वानरराक्षसाः॥ २३॥ रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम्। ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः॥ २४॥ शरीरशवसंकीर्णा बभूव च वसुंधरा। द्रुमशक्तिशिलाप्रासैर्गदापरिघतिमरैः॥ २५॥ हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा। बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः॥ २६॥ हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे। राक्षसास्त्वपि संक्रुद्धाः प्रासतोमरपाणयः॥ २७॥ कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः। अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः॥ २८॥ संहर्षयति तान् सर्वान् राक्षसान्भीमविक्रमान्। हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः॥ २९॥ विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः। एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः॥ ३०॥ मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम्। ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे॥ ३१॥ कदनं सुमहच्चक्रुर्लीलया हरियूथपाः। ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम्॥ ३२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे अकम्पनयुद्धं नाम पञ्चपञ्चाशः सर्गः ॥६-५५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध