home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

अष्टपञ्चाशः सर्गः ॥६-५८॥

॥प्रहस्तवधः॥

[ नीलकर्तृकः प्रहस्तस्य वधः ]

ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम्। उवाच सस्मितं रामो विभीषणमरिन्दमः॥ १॥ क एष सुमहाकायो बलेन महता वृतः। आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम्॥ २॥ राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः। एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः॥ ३॥ लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः। वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे॥ ४॥ ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्। गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम्॥ ५॥ ददर्श महती सेना वानराणां बलीयसाम्। अतिसंजातरोषाणां प्रहस्तमभिगर्जताम्॥ ६॥ खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च। गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः॥ ७॥ धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्। प्रगृहीतान्यशोभन्त वानरानभिधावताम्॥ ८॥ जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः। शिलाश्च विपुला दीर्घा योद‍्धुकामाः प्लवङ्गमाः॥ ९॥ तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत्। बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम्॥ १०॥ बहवो राक्षसा युद्धे बहून् वानरयूथपान्। वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून्॥ ११॥ शूलैः प्रमथिताः केचित्केचिच्च परमायुधैः। परिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः॥ १२॥ निरुच्छ्वासाः कृताः केचित्पतिता धरणीतले। विभिन्नहृदयाः केचिदिषुसन्धानसंदिताः॥ १३॥ केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि। वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः॥ १४॥ वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः। पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले॥ १५॥ वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्। वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः॥ १६॥ आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम्। बभूव तुमुलः शब्दो हरीणां रक्षसां युधि॥ १७॥ वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः। विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत्॥ १८॥ नरान्तकः कुम्भहनुर्महानादः समुन्नतः। एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः॥ १९॥ तेषामापततां शीघ्रं निघ्नतां चापि वानरान्। द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्॥ २०॥ दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम्। राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत्॥ २१॥ जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्। पातयामास तेजस्वी महानादस्य वक्षसि॥ २२॥ अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्। वृक्षेणभिहतो मूर्ध्नि प्राणान् संत्याजयद्रणे॥ २३॥ अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः। चकार कदनं घोरं धनुष्पाणिर्वनौकसाम्॥ २४॥ आवर्त इव संजज्ञे उभयोः सेनयोस्तदा। क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः॥ २५॥ महता हि शरौघेण प्रहस्तो युद्धकोविदः। अर्दयामास संक्रुद्धो वानरान् परमाहवे॥ २६॥ वानराणां शरीरैश्च राक्षसानां च मेदिनी। बभूव निचिता घोरा पतितैरिव परेवतैः॥ २७॥ सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते। संछन्ना माधवे मासि पलाशैरिव पुष्पितैः॥ २८॥ हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्। शोणितौघमहातोयां यमसागरगामिनीम्॥ २९॥ यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्। भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम्॥ ३०॥ गृध्रहंसगणाकीर्णां कङ्कसारससेविताम्। मेदःफेनसमाकीर्णामार्तस्तनितनिःस्वनाम्॥ ३१॥ तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्। नदीमिव घनापाये हंससारससेविताम्॥ ३२॥ राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम्। यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः॥ ३३॥ ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्। ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान्॥ ३४॥ उद्‍धूत इव वायुः खे महदभ्रबलं बलात्। समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः॥ ३५॥ रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे। स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे॥ ३६॥ नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः। ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः॥ ३७॥ महीं जग्मुर्महावेगा रुषिता इव पन्नगाः। नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः॥ ३८॥ स तं परमदुर्धर्षमापतन्तं महाकपिः। प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान्॥ ३९॥ स तेनाभिहतः क्रुद्धो नर्दन् राक्षसपुंगवः। ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ॥ ४०॥ तस्य बाणगणान् घोरान् राक्षसस्य महाबलः। अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः॥ ४१॥ यथैव गोवृषो वर्षं शारदं शीघ्रमागतम्। एवमेव प्रहस्तस्य शरवर्षं दुरासदम्॥ ४२॥ निमीलिताक्षः सहसा नीलः सेहे सुदारुणम्। रोषितः शरवर्षेण सालेन महता महान्॥ ४३॥ प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान्। ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः॥ ४४॥ बभञ्ज तरसा नीलो ननाद च पुनः पुनः। विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः॥ ४५॥ प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे। तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ॥ ४६॥ स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ। उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्॥ ४७॥ सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ। विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ॥ ४८॥ काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ। आजघान तदा नीलं ललाटे मुसलेन सः॥ ४९॥ प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम्। ततः शोणितदिग्धाङ्गः प्रगृह्य मुसलं महत्॥ ५०॥ प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः। तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत्॥ ५१॥ अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम्। तमुग्रवेगं संरब्धमापतन्तं महाकपिः॥ ५२॥ ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम्। तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः॥ ५३॥ प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत्। सा तेन कपिमुख्येन विमुक्ता महती शिला॥ ५४॥ बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा। स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः॥ ५५॥ पपात सहसा भूमौ छिन्नमूल इव द्रुमः। विभिन्नशिरसस्तस्य बहु सुस्राव शोणितम्॥ ५६॥ शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा। हते प्रहस्ते नीलेन तदकम्प्यं महाबलम्॥ ५७॥ राक्षसानामहृष्टानां लङ्कामभिजगाम ह। न शेकुः समरे स्थातुं निहते वाहिनीपतौ॥ ५८॥ सेतुबन्धं समासाद्य विकीणं सलिलं यथा। हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः॥ ५९॥ रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः। प्राप्ताः शोकार्णवं तीव्रं निःसंज्ञा इव तेभवन्॥ ६०॥ ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा। समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः॥ ६१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे पहस्तवधो नाम अष्टपञ्चाशः सर्गः ॥६-५८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध