home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकोनषष्टितमः सर्गः ॥६-५९॥

॥रावणाभिषेणनम्॥

[ प्रहस्तस्य वधेन दुःखितस्य रावणस्य युद्धाय प्रस्थानं तेन सहागतानां वीराणां परिचयो रावणस्य प्रहारेण सुग्रीवस्य मूर्च्छा, लक्ष्मणस्य रणभूमावागमनं हनुमद्रावणयोर्मिथस्तल प्रहारो रावणकर्तृकं नीलस्य विसंज्ञत्वम्, शक्तिप्रहारेण लक्ष्मणस्य मूर्च्छा ससंज्ञता च, श्रीरामात् पराजितस्य रावणस्य लङ्कायां प्रवेशः ]

तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे। भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम्॥ १॥ गत्वाथ रक्षोऽधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम्। तच्चापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम॥ २॥ संख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः। उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान्॥ ३॥ नावज्ञा रिपवे कार्या यैरिन्द्रबलसादनः। सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः॥ ४॥ सोऽहं रिपुविनाशाय विजयायाविचारयन्। स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम्॥ ५॥ अद्य तद् वानरानीकं रामं च सहलक्ष्मणम्। निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः। अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः॥ ६॥ स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजियुक्तम्। प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ ७॥ स शङ्खभेरीपणवप्रणादै- रास्फोटितक्ष्वेलितसिंहनादैः । पुण्यैः स्तवैश्चाप्य भिपूज्यमान- स्तदा ययौ राक्षसराजमुख्यः॥ ८॥ स शैलजीमूतनिकाशरूपै- र्मांसाशनैः पावकदीप्तनेत्रैः। बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवामरेशः॥ ९॥ ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम्। महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम्॥ १०॥ तद्राक्षसानीकमतिप्रचण्ड- मालोक्य रामो भुजगेन्द्रबाहुः। विभीषणं शस्त्रभृतां वरिष्ठ- मुवाच सेनानुगतः पृथुश्रीः॥ ११॥ नानापताकाध्वजस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम्। सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम्॥ १२॥ ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः। शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम्॥ १३॥ योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः। प्रकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन्॥ १४॥ योऽसौ रथस्थो मृगराजकेतु- र्धुन्वन् धनुः शक्रधनुःप्रकाशम्। करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः॥ १५॥ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः। विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः॥ १६॥ योऽसौ नवार्कोदितताम्रचक्षु- रारुह्य घण्टानिनदप्रणादम्। गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः॥ १७॥ योऽसौ हयं काञ्चनचित्रभाण्ड- मारुह्य सन्ध्याभ्रगिरिप्रकाशम्। प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्यवेगः॥ १८॥ यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम्। वृषेन्द्रमास्थाय गिरिप्रकाश- मायाति योऽसौ त्रिशिरा यशस्वी॥ १९॥ असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः। समाहितः पन्नगराजकेतु- र्विस्फारयन् भाति धनुर्विधुन्वन्॥ २०॥ यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य। आयाति रक्षोबलकेतुभूत स्त्वसौ निकुम्भोऽद्भुतघोरकर्मा॥ २१॥ यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम्। रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी॥ २२॥ यश्चैष नानाविधघोररूपै- र्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः । भूतैर्वृतो भाति विवृत्तनेत्रैः सोऽसौ सुराणामपि दर्पहन्ता॥ २३॥ यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम्। अत्रैष रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति॥ २४॥ असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः। महेन्द्रवैवस्वतदर्पहन्ता रक्षोऽधिपः सूर्य इवावभाति॥ २५॥ प्रत्युवाच ततो रामो विभीषणमरिन्दमम्। अहो दीप्तो महातेजा रावणो राक्षसेश्वरः॥ २६॥ आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः। सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम्॥ २७॥ देवदानववीराणां वपुर्नैवंविधं भवेत्। यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते॥ २८॥ सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः। सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः॥ २९॥ भाति रक्षोराजोऽसौ प्रदीप्तैर्भीमविक्रमैः। भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः॥ ३०॥ दिष्ट्यायमद्य पापात्मा मम दृष्टिपथं गतः। अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम्॥ ३१॥ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्। लक्ष्मणानुचरस्तस्थौ समुद‍्धृत्य शरोत्तमम्॥ ३२॥ ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि। द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः॥ ३३॥ इहागतं मां सहितं भवद्भि- र्वनौकसश्छिद्रमिदं विदित्वा। शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः॥ ३४॥ विसर्जयित्वा सहितांस्ततस्तान् गतेषु रक्षःसु यथानियोगम्। व्यदारयद् वानरसागरौघं महाझषः पूर्णमिवार्णवौघम्॥ ३५॥ तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम्। महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोऽधिपतिं हरीशः॥ ३६॥ तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय। तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः॥ ३७॥ तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम्। महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः॥ ३८॥ स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम्। बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः॥ ३९॥ स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः। सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः॥ ४०॥ स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः। तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः॥ ४१॥ ततो गवाक्षो गवयः सुदंष्ट्र स्त्वथर्षभो ज्योतिमुखो नभश्च। शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम्॥ ४२॥ तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणगणैः शिताग्रैः। तान् वानरेन्द्रानपि बाणजालै- र्बिभेद जाम्बूनदचित्रपुङ्खैः॥ ४३॥ ते वानरेन्द्रास्त्रिदशारिबाणै- र्भिन्ना निपेतुर्भुवि भीमकायाः। ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः॥ ४४॥ ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः। शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम्॥ ४५॥ ततो महात्मा स धनुर्धनुष्मा- नादाय रामः सहसा जगाम। तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम्॥ ४६॥ काममार्य सुपर्याप्तो वधायास्य दुरात्मनः। विधमिष्याम्यहं चैतमनुजानीहि मां विभो॥ ४७॥ तमब्रवीन्महातेजा रामः सत्यपराक्रमः। गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे॥ ४८॥ रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः। त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः॥ ४९॥ तस्यच्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय। चक्षुषा धनुषा यफ़्नाद्रक्षात्मानं समाहितः॥ ५०॥ राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च। अभिवाद्य ततो रामं ययौ सौमित्रिराहवम्॥ ५१॥ स रावणं वारणहस्तबाहुं ददर्श दीप्तोद्यतभीमचापम्। प्रच्छादयन्तं शरवृष्टिजालै- स्तान् वानरान् भिन्नविकीर्णदेहान्॥ ५२॥ तमालोक्य महातेजा हनूमान् मारुतात्मजः। निवार्य शरजालानि प्रदुद्राव स रावणम्॥ ५३॥ रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम्। त्रासयन् रावणं धीमान् हनूमान् वाक्यमब्रवीत् ॥ ५४॥ देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः। अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम्॥ ५५॥ एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः। विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम्॥ ५६॥ श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः। संरक्तनयनः क्रोधादिदं वचनमब्रवीत्॥ ५७॥ क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि। ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर॥ ५८॥ रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत्। प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव॥ ५९॥ एवमुक्तो महातेजा रावणो राक्षसेश्वरः। आजघानानिलसुतं तलेनोरसि वीर्यवान्॥ ६०॥ स तलाभिहतस्तेन चचाल च मुहुर्मुहुः। स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः॥ ६१॥ आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम्। ततस्तलेनाभिहतो वानरेण महात्मना॥ ६२॥ दशग्रीवः समाधूतो यथा भूमितलेऽचलः। संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम्॥ ६३॥ ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः। अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ॥ ६४॥ साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः। रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत्॥ ६५॥ धिगस्तु मम वीर्येण यत्त्वं जीवसि रावण। सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे॥ ६६॥ ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम्। ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत्॥ ६७॥ संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम्। पातयामास वेगेन वानरोरसि वीर्यवान्॥ ६८॥ हनूमान् वक्षसि व्यूढे संचचाल हतः पुनः। विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम्॥ ६९॥ रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात्। राक्षसानामधिपतिर्दशग्रीवः प्रतापवान्॥ ७०॥ पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः। शरैरादीपयामास नीलं हरिचमूपतिम्॥ ७१॥ स शरौघसमायस्तो नीलः कपिचमूपतिः। करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत्॥ ७२॥ हनूमानपि तेजस्वी समाश्वस्तो महामनाः। विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत्॥ ७३॥ नीलेन सह संयुक्तं रावणं राक्षसेश्वरम्। अन्येन युध्यमानस्य न युक्तमभिधावनम्॥ ७४॥ रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः। आजघान सुतीक्ष्णाग्रैस्तद् विकीर्णं पपात ह॥ ७५॥ तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः। कालाग्निरिव जज्वाल क्रोधेन परवीरहा॥ ७६॥ सोऽश्वकर्णन् धवान् शालांश्चूतांश्चापि सुपुष्पितान्। अन्यांश्च विविधान् वृक्षान् नीलश्चिक्षेप संयुगे॥ ७७॥ स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः। अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम्॥ ७८॥ अभिवृष्टः शरौघेण मेघेनेव महाचलः। ह्रस्वं कृत्वा ततो रूपं ध्वजाग्रे निपपात ह॥ ७९॥ पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम्। जज्वाल रावणः क्रोधात् ततो नीलो ननाद च॥ ८०॥ ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्। लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः॥ ८१॥ रावणोऽपि महातेजाः कपिलाघवविस्मितः। अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम्॥ ८२॥ ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवंगमाः। नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे॥ ८३॥ वानराणां च नादेन संरब्धो रावणस्तदा। सम्भ्रमाविष्टहृदयो न किंचित् प्रत्यपद्यत॥ ८४॥ आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम्। ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः॥ ८५॥ ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः। कपे लाघवयुक्तोऽसि मायया परयानया॥ ८६॥ जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर। तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः॥ ८७॥ तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः। जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति॥ ८८॥ एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः। संधाय बाणमस्त्रेण चमूपतिमताडयत्॥ ८९॥ सोऽस्त्रमुक्तेन बाणेन नीलो वक्षसि ताडितः। निर्दह्यमानः सहसा निपपात महीतले॥ ९०॥ पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा। जानुभ्यामपतद् भूमौ न च प्राणैर्वियुज्यत॥ ९१॥ विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः। रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे॥ ९२॥ आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन्। धनुर्विस्फारयामास कम्पयन्निव मेदिनीम्॥ ९३॥ तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम्। अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः॥ ९४॥ स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा। आसाद्य सौमित्रिमवस्थितं तं कोपान्वितं वाचमुवाच रक्षः॥ ९५॥ दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः। अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः॥ ९६॥ तमाह सौमित्रिरविस्मयानो गर्जन्तमुद‍्वृत्तशिताग्रदंष्ट्रम्। राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ॥ ९७॥ जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च। अवस्थितोऽहं शरचापपाणि- रागच्छ किं मोघविकत्थनेन॥ ९८॥ स एवमुक्तः कुपितः ससर्ज रक्षोऽधिपः सप्त शरान् सुपुङ्खान्। ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खै- श्चिच्छेद बाणैर्निशिताग्रधारैः॥ ९९॥ तान् प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगानिव पन्नगेन्द्रान्। लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान् पृषत्कान्॥ १००॥ स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम्। क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च॥ १०१॥ स बाणजालान्यथ तानि तानि मोघानि पश्यंस्त्रिदशारिराजः। विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान् निशितान् मुमोच॥ १०२॥ स लक्ष्मणश्चाशु शिताञ् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान्। संधाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोऽधिपतेर्वधाय॥ १०३॥ स तान् प्रचिच्छेद हि राक्षसेन्द्र श्छित्तवा च ताल्ँलक्ष्मणमाजघान। शरेण कालाग्निसमप्रभेण स्वयंभुदत्तेन ललाटदेशे॥ १०४॥ स लक्ष्मणो रावणसायकार्त- श्चचाल चापं शिथिलं प्रगृह्य। पुनश्च संज्ञां प्रतिलभ्य कृच्छ्रा- च्चिच्छेद चापं त्रिदशेन्द्रशत्रोः॥ १०५॥ निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः। स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद॥ १०६॥ स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः। जग्राह शक्तिं समुदग्रशक्तिः स्वयंभुदत्तां युधि देवशत्रुः॥ १०७॥ स तां विधूमानलसंनिकाशां वित्रासिनां वानरवाहिनीनाम्। चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः॥ १०८॥ तामापतन्तीं भरतानुजोऽस्त्रै- र्जघान बाणैश्च हुताग्निकल्पैः। तथापि सा तस्य विवेश शक्ति- र्बाह्वन्तरं दाशरथेर्विशालम्॥ १०९॥ स शक्तिमाञ् शक्तिसमाहतः सन् मुहुः प्रजज्वाल रघुप्रवीरः। तं विह्वलन्तं सहसाभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम्॥ ११०॥ हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः। शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः॥ १११॥ शक्त्या ब्राह्म्यापि सौमित्रिस्ताडितोऽपि स्तनान्तरे। विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरन् ॥ ११२॥ ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः। तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत्॥ ११३॥ अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत्। आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना॥ ११४॥ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः। जानुभ्यामपतद्भूमौ चचाल च पपात च॥ ११५॥ आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु। विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत्॥ ११६॥ विसंज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत्। विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम्॥ ११७॥ ऋषयो वानराः सर्वे नेदुर्देवाश्च सवासवाः। हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम्॥ ११८॥ आनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम्। वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः। शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः॥ ११९॥ तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम्। रावणस्य रथे तस्मिन् स्थानं पुनरुपागता॥ १२०॥ आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः। विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन्॥ १२२॥ रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे। आददे निशितान् बाणाञ्जग्राह च महद्धनुः॥ १२१॥ निपातितमहावीरां द्रवन्तीं वानरीं चमूम्। राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत्॥ १२३॥ अथैनमुपसंगम्य हनूमान् वाक्यमब्रवीत्। मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि॥ १२४॥ विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः। तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्॥ १२५॥ आरुरोह महाशूरो बलवन्तं महाकपिम्। रथस्थं रावणं संख्ये ददर्श मनुजाधिपः॥ १२६॥ तमालोक्य महातेजाः प्रदुद्राव स राघवः। वैरोचनिमिव क्रुद्धो विष्णुरभ्युद्यतायुधः॥ १२७॥ ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिःस्वनम्। गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह॥ १२८॥ तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम्। क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि॥ १२९॥ यदीन्द्रवैवस्वतभास्करान् वा स्वयंभुवैश्वानरशंकरान् वा। गमिष्यसि त्वं दश वा दिशोऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे॥ १३०॥ यश्चैष शक्त्याभिहतस्त्वयाद्य इच्छन् विवादं सहसाभ्युपेतः। स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे॥ १३१॥ एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि। चतुर्दशान्यात्तवरायुधानि रक्षःसहस्राणि निषूदितानि॥ १३२॥ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपीम्। वायुपुत्रं महावीर्यं वहन्तं राघवं रणे॥ १३३॥ रोषेण महताविष्टः पूर्ववैरमनुस्मरन्। आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः॥ १३४॥ राक्षसेनाहवे तस्य ताडितस्यापि सायकैः। स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत॥ १३५॥ ततो रामो महातेजा रावणेन कृतव्रणम्। दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान्॥ १३६॥ तस्याभिचङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम्। ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शिरैः सुपुङ्खैः॥ १३७॥ अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन। भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः॥ १३८॥ यो वज्रपाताशनिसंनिपातान्न चुक्षुभे नापि चचाल राजा। स रामबाणाभिहतो भृशार्त- श्चचाल चापं च मुमोच वीरः॥ १३९॥ तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम्। तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्मा॥ १४०॥ तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम्। गतश्रियं कृत्तकिरीटकूट- मुवाच रामो युधि राक्षसेन्द्रम्॥ १४१॥ कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वयाहम्। तस्मात् परिश्रान्त इति व्यवस्यन् न त्वां शरैर्मृत्युवशं नयामि॥ १४२॥ गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम्। आश्वस्य निर्याहि रथी च धन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः॥ १४३॥ स एवमुक्तो हतदर्पहर्षो निकृत्तचापसिहताश्वसूतः। शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा॥ १४४॥ तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ। हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे॥ १४५॥ तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च। ससागराः सर्षिमहोरगाश्च तथैव भूम्यम्बुचराश्च हृष्टाः॥ १४६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणाभिषेणनं नाम एकोनषष्टितमः सर्गः ॥६-५९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध