home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

षष्ठः सर्गः ॥६-६॥

॥रावणमन्त्रणम्॥

[ कर्तव्यनिर्णयाय मन्त्रिणः प्रति समुचितसम्मति- दानार्थं रावणस्यानुरोधः ]

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम्। राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना॥ १॥ अब्रवीद्राक्षसान् सर्वान् ह्रिया किञ्चिदवाङ्मुखः। धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी॥ २॥ तेन वानरमात्रेण दृष्टा सीता च जानकी। प्रासादो धर्षितश्चैत्यः प्रबला राक्षसा हताः॥ ३॥ आकुला च पुरी लङ्का सर्वा हनुमता कृता। किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्॥ ४॥ उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत्। मन्त्रमूलं च विजयं प्रहुरार्या मनस्विनः॥ ५॥ तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः। त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः॥ ६॥ तेषां तु समवेतानां गुणदोषौ वदाम्यहम्। मन्त्रस्त्रिभिर्हि संयुक्तः समर्थैर्मन्त्रनिर्णये॥ ७॥ मित्रैर्वापि समानार्थैर्बान्धवैरपि वाधिकैः। सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्॥ ८॥ दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्। एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः॥ ९॥ एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्। गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम्॥ १०॥ करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः। यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः॥ ११॥ एवं मन्त्र हि विज्ञेय उत्तमाधममध्यमः। ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा॥ १२॥ मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम्। बह्व्योऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णयः॥ १३॥ पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः। अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते॥ १४॥ न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते। तस्मात्सुमन्त्रितं साधु भवन्तो मतिसत्तमाः॥ १५॥ कार्यं सम्प्रतिपद्यन्तमेतत्कृत्यं मतं मम। वानराणां हि वीराणां सहस्रैः परिवारितः॥ १६॥ रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः। तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्॥ १७॥ तरसा युक्तरूपेण सानुजः सबलानुगः। समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥ १८॥ अस्मिन्नेवंविधे कार्ये विरुद्धे वानरैः सह। हितं पुरे च सैन्ये च सर्वं सम्मन्त्र्यतां मम॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणमन्त्रणं नाम षष्ठः सर्गः ॥६-६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध