स तु राक्षसशार्दूलो निद्रामदसमाकुलः। राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः॥ १॥ राक्षसानां सहस्रैश्च वृतः परमदुर्नयः। गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ॥ २॥ स हेमजालविततं भानुभास्वरदर्शनम्। ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम्॥ ३॥ स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशम्। ददर्श दूरेऽग्रजमासनस्थं स्वयंभुवं शक्र इवासनस्थम्॥ ४॥ भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम्। कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम्॥ ५॥ सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च। ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम्॥ ६॥ अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्। तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत्॥ ७॥ अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः। भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत्॥ ८॥ उत्पत्य चैनं मुदितो रावणः परिषस्वजे। स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः॥ ९॥ कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम्। स तदासनमाश्रित्य कुम्भकर्णो महाबलः॥ १०॥ संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत्। किमर्थमहमादृत्य त्वया राजन् विबोधितः॥ ११॥ शंस कस्माद्भयं तेऽत्र कोऽद्य प्रेतो भविष्यति। भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम्॥ १२॥ ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत्। अद्य ते सुमहान् कालः शयानस्य महाबल॥ १३॥ सुषुप्तस्त्वं न जानीषे मम रामकृतं भयम्। एष दाशरथिः रामः सुग्रीवसहितो बली॥ १४॥ समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति। हन्त पश्यस्व लङ्कायां वनान्युपवनानि च॥ १५॥ सेतुना सुखमागत्य वानरैकार्णवं कृतम्। ये राक्षसां मुख्यतमा हतास्ते वानरैर्युधि॥ १६॥ वानराणां क्षयं युद्धे न पश्यामि कदाचन। न चापि वानरा युद्धे जितपूर्वाः कदाचन॥ १७॥ तदेतद्भयमुत्पन्नं त्रायस्वेह महाबल। नाशय त्वमिमानद्य तदर्थं बोधितो भवान्॥ १८॥ सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम्। त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्॥ १९॥ भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्। मयैवं नोक्तपूर्वो हि भ्राता कश्चिद्भ्रातः परंतप॥ २०॥ त्वय्यस्ति तु मम स्नेहः परा सम्भावना च मे। देवासुरेषु युद्धेषु बहुशो राक्षसर्षभ॥ २१॥ त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि। तदेतत्सर्वमातिष्ठ वीर्यं भीमपराक्रम। न हि ते सर्वभूतेषु दृश्यते सदृशो बली॥ २२॥ कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय। स्वतेजसां विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान्॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणाभ्यर्थना नाम द्विषष्टितमः सर्गः ॥६-६२॥