तस्य राक्षसराजस्य निशम्य परिदेवितम्। कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च॥ १॥ दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये। हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया॥ २॥ शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः। निरयेष्वेव पतनं यथा दुष्कृतकर्मणः॥ ३॥ प्रथमं वै महाराज कृत्यमेतदचिन्तितम्। केवलं वीर्यदर्पेण नानुबन्धो विचारितः॥ ४॥ यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः। पूर्वं चोत्तरकार्याणि न स वेद नयानयौ॥ ५॥ देशकालविहीनानि कर्माणि विपरीतवत्। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव॥ ६॥ त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति। सचिवैः समयं कृत्वा स सम्ये वर्तते पथि॥ ७॥ यथागमं च यो राजा समयं च विचिकीर्षति। बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति॥ ८॥ धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते। भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः॥ ९॥ त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते। राजा वा राजमात्रो वा व्यर्थं तस्य बहु श्रुतम्॥ १०॥ उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम्। योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ॥ ११॥ काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह। निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥ १२॥ हितानुबन्धमालोच्य कुर्याकार्यमिहात्मनः। राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीविभिः॥ १३॥ अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः। प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः॥ १४॥ अशास्त्रविदुषां तेषां न कार्यमहितं वचः। अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम्॥ १५॥ अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः। अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः॥ १६॥ विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः। विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः॥ १७॥ तान् भर्ता मित्रसंकाशानमित्रान् मन्त्रनिर्णये। व्यवहारेण जानीयात्सचिवानुपसंहितान्॥ १८॥ चपलस्येह कृत्यानि सहसानुप्रधावतः। छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः॥ १९॥ यो हि शत्रुमभिज्ञाय नात्मानमभिरक्षति। अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते॥ २०॥ यदुक्तमिह ते पूर्वं क्रुयतामनुजेन च। तदेव नो हितं कार्यं यथेच्छसि तत्कुरु॥ २१॥ तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्। भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत॥ २२॥ मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि। किमेवं वाक्छ्रमं कृत्वा काले युक्तं तद् विधीयताम्॥ २३॥ विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा। नाभिपन्नमिदानीं यद् व्यर्थास्तस्य पुनः कथा॥ २४॥ अस्मिन् काले तु यद् युक्तं तदिदानीं विधियताम्। गतं तु नानुशोचन्ति गतं तु गतमेव हि॥ २५॥ ममापनयजं दोषं विक्रमेण समीकुरु। यदि खल्वस्ति मे स्नेहो विक्रमं वावगच्छसि॥ २६॥ यदि कार्यमेतत्ते हृदि कार्यतमं मतम्। स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते॥ २७॥ स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते। तमथैवं ब्रुवाणं तु वचनं धीरदारुणम्॥ २८॥ रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह। अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्॥ २९॥ कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्। अलं राक्षसराजेन्द्र संतापमुपपद्य ते॥ ३०॥ रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि। नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव॥ ३१॥ तमहं नाशयिष्यामि यत्कृते परितप्यते। अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव॥ ३२॥ बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव। सदृशं यत्तु कालेऽस्मिन् कर्तुं स्निग्धेन बन्धुना॥ ३३॥ शत्रूणां कदनं पश्य क्रियमाणं मया रणे। अद्य पश्य महाबाहो मया समरमूर्धनि॥ ३४॥ हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्। अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः॥ ३५॥ सुखी भव महाबाहो सीता भवतु दुःखिता। अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम्॥ ३६॥ लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः। अद्य शोकपरीतानां स्वबन्धुवधकारणात्॥ ३७॥ शत्रोर्युधि विनाशेन करोम्यस्त्रप्रमार्जनम्। अद्य पर्वतसंकाशं ससूर्यमिव तोयदम्॥ ३८॥ विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम्। कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः॥ ३९॥ जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ। अथ पूर्वं हते तेन अयि त्वां हन्ति राघवः॥ ४०॥ नाहमात्मनि संतापं गच्छेयं राक्षसाधिप। कामं त्विदानीमपि मां व्यादिश त्वं परंतप॥ ४१॥ न परः प्रेषणीयस्ते युद्धायातुलविक्रम। अहमुत्सादयिष्यामि शत्रूंस्तव महाबल॥ ४२॥ यदि शक्रो यदि यमो यदि पावकमारुतौ। तानहं योधयिष्यामि कुबेरवरुणावपि॥ ४३॥ गिरिमात्रशरीरस्य शितशूलधरस्य मे। नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः॥ ४४॥ अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून्॥ ४५॥ न मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः॥ ४५॥ नैव शक्त्या न गदया नासिना नेषुभिः शितैः। हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम्॥ ४६॥ यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यते। ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु॥ ४७॥ चिन्तया तप्यसे राजन् किमर्थं मयि तिष्ठति सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः॥ ४८॥ मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे। राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्॥ ४९॥ हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता। हरींश्चापि हनिष्यामि संयुगे समवस्थितान्॥ ५०॥ असाधारणमिच्छामि तव दातुं महद्यशः। यदि चेन्द्राद्भयं राजन् यदि चापि स्वयंभुवः॥ ५१॥ अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले। यमं च शमयिष्यामि भक्षयिष्यामि पावकम्॥ ५२॥ आदित्यं पातयिष्यामि सनक्षत्रं महीतले। शतक्रतुं वधिष्यामि पास्यामि वरुणालयम्॥ ५३॥ पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम्। दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम्॥ ५४॥ अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः। नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते॥ ५५॥ वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि। निकृत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान्॥ ५६॥ रमस्व राजन् पिब चाग्र्य्वारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः। मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति॥ ५७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णानुशोको नाम त्रिषष्टितमः सर्गः ॥६-६३॥