home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

चतुष्षष्ठितमः सर्गः ॥६-६४॥

॥सीताप्रलोभनोपायः॥

[ कुम्भकर्णं प्रत्याक्षिप्य महोदरेण युद्धं विनैवाभीष्ट-वस्तुनो लाभोपायस्य कथनम् ]

तदुक्तमतिकायस्य बलिनो बाहुशालिनः। कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः॥ १॥ कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः। अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम्॥ २॥ न हि राजा न जानीते कुम्भकर्ण नयानयौ। त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि॥ ३॥ स्थानं वृद्धिं च हानिं च देशकालविभागवित्। आत्मनश्च परेषां च बुध्यते राक्षसर्षभः॥ ४॥ यत्त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना। अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः॥ ५॥ यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्। अनुबोद्धुं स्वभावे तान्न हि लक्षणमस्ति ते॥ ६॥ कर्म चैव हि सर्वेषां कारणानां प्रयोजकम्। श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्॥ ७॥ निःश्रेयसफलावेव धर्मार्थावितरावपि। अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम्॥ ८॥ ऐहलौकिकपारत्रं कर्म पुंभिर्निषेव्यते। कर्माण्यपि तु कल्याणि लभते काममास्थितः॥ ९॥ तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः। शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते॥ १०॥ एकस्यैवाभियाने तु हेतुर्यः कथितस्त्वया। तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च॥ ११॥ येन पूर्वं जनस्थाने बहवोऽतिबला हताः। राक्षसा राघवं तं त्वं कथमेको जयिष्यसि॥ १२॥ ये पुरा निर्जितास्तेन जनस्थाने महौजसः। राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि॥ १३॥ तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्। सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि॥ १४॥ ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्। कस्तं मृत्युमिवासह्यमासादयितुमर्हति॥ १५॥ संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने। एकस्य गमनं तात न हि मे रोचते भृशम्॥ १६॥ हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा। निश्चित्य जीवितत्यागे वशमानेतुमिच्छति॥ १७॥ यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम। कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः॥ १८॥ एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः। उवाच रक्षसां मध्ये रावणं लोकरावणम्॥ १९॥ लब्ध्वा पुरस्त्वं वैदेहीं किमर्थं संप्रजल्पसि। यदीच्छसि तदा सीता वशगा ते भविष्यति॥ २०॥ दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः। रुचितश्चेत् स्वया बुद्ध्या राक्षसेन्द्र तं शृणु॥ २१॥ अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः। पञ्च रामवधायैते निर्यान्तीत्यवघोषय॥ २२॥ ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः। जेष्यामो यदि ते शत्रून्नोपायैः कार्यमस्ति नः॥ २३॥ अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः। ततस्तदभिपत्स्यामो मनसा यत्समीक्षितम्॥ २४॥ वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः। विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः॥ २५॥ भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः। तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय॥ २६॥ ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव। हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः॥ २७॥ प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम। भोगांश्च परिवारांश्च कामांश्च वसु च दापय॥ २८॥ ततो माल्यानि वासांसि वीराणामनुलेपनम्। पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब॥ २९॥ ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते। भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते॥ ३०॥ प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय। धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय॥ ३१॥ अनयोपधया राजन् भूयशोकानुबन्धया। अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति॥ ३२॥ रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा। नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते॥ ३३॥ सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता। त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति॥ ३४॥ एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः। इहैव ते सेत्स्यति मोत्सुको भू- र्महानयुद्धेन सुखस्य लाभः॥ ३५॥ अनष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन्नराधिपः। यशश्च पुण्यं च महान्महीपते श्रियं च कीर्तिं च चिरं समश्नुते॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सिताप्रलोभनोपायो नाम चतुष्षष्ठितमः सर्गः ॥६-६४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध