home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

पञ्चषष्टितमः सर्गः ॥६-६५॥

॥कुम्भकर्णाभ्षेणनम्॥

[ कुम्भकर्णस्य रणयात्रा ]

स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्। अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः॥ १॥ सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः। रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव॥ २॥ गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः। पश्य सम्पद्यमानं तु गर्जितं युधि कर्मणा॥ ३॥ न मर्षयन्ति चात्मानं सम्भावयिति नात्मना। अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्॥ ४॥ विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम्। शृण्वतां सादितमिदं त्वद्विधानं महोदर॥ ५॥ युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः। राजानमनुगच्छद्भिः कृत्यमेतद्धि सादितम्॥ ६॥ राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्। राजानमिममासाद्य सुहृच्चिह्नममित्रकम्॥ ७॥ एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये। दुर्नयं भवतामद्य समीकर्तुमिहाहवे॥ ८॥ एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः। प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः॥ ९॥ महोदरोऽयं रामात्तु परित्रस्तो न संशयः। न हि रोचयते तात युद्धं युद्धविशारद॥ १०॥ कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च। गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च॥ ११॥ तस्मात्तु भयनाशार्थं भवान् सम्बोधितो मया। अयं हि कालः सुहृदां राक्षसानामरिन्दम॥ १२॥ तद्गच्छ शूलमादाय पाशहस्त इवान्तकः। वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ॥ १३॥ समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः। रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः॥ १४॥ एवमुक्त्वा महाराजः कुम्भकर्णं महाबलम्। पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः॥ १५॥ कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम्। बभूव मुदितो राजा शशाङ्क इव निर्मलः॥ १६॥ इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः। राज्ञस्तु वचनं श्रुत्वा कुम्भकर्णः समुद्यतः॥ १७॥ आददे निशितं शूलं वेगाच्छत्रुनिबर्हणम्। सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्॥ १८॥ इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम्। देवदानवगन्धर्वयक्षकिन्नरसूदनम्॥ १९॥ रक्तमाल्यं महादाम स्वतश्चोद‍्गतपावकम्। आदाय निशितं शूलं शत्रुशोणितरञ्जितम्॥ २०॥ कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्। गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत्॥ २१॥ अद्य तान् क्षुधितान् क्रुद्धो भक्षयिष्यामि वानरान्। कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत्॥ २२॥ सैन्यैः परिवृतो गच्छ शूलमुद‍्गरपाणिभिः। वानरा हि महात्मानः शीघ्राः सुव्यवसायिनः॥ २३॥ एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्। तस्मात् परमदुर्धर्षैः सैन्यैः परिवृतो व्रज॥ २४॥ रक्षसामहितं सर्वं शत्रुपक्षं निषूदय। अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम्॥ २५॥ आबबन्ध महातेजाः कुम्भकर्णस्य रावणः। अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च॥ २६॥ हारं च शशिसंकाशमाबबन्ध महात्मनः। दिव्यानि च सुगन्धीनि माल्यदामानि रावणः॥ २७॥ श्रोत्रे चासञ्जयामास श्रिमती चास्य कुण्डले। काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः॥ २८॥ कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ। श्रोणीसूत्रेण महता मेचकेन व्यराजत। अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः॥ २९॥ स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा। आबध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवाद्रिराजः॥ ३०॥ सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः। त्रिविक्रमकृतोत्साहो नारायण इवाबभौ॥ ३१॥ भ्रातरं सम्परिष्वज्य कृत्वा चाभिप्रदक्षिणम्। प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलः॥ ३२॥ निष्पतन्तं महाकायं महानादं महाबलम्। तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः॥ ३३॥ शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः। तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः॥ ३४॥ अनुजग्मुर्महात्मानं रथिनो रथिनां वरम्। सर्पैरुष्ट्रैः खरैश्चैव सिंहद्विपमृगद्विजैः। अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम्॥ ३५॥ स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः। मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः॥ ३६॥ पदातयश्च बहवो महानादा महाबलाः। अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः॥ ३७॥ रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः। शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान्॥ ३८॥ बहुव्यामांश्च परिघान् गदाश्च मुसलानि च। तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान्॥ ३९॥ अथान्यद्वपुरादाय दारुणं रोमहर्षणम्। निष्पपात महातेजाः कुम्भकर्णो महाबलः॥ ४०॥ धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः। रौद्रः शकटचक्राक्षो महापर्वतसंनिभः॥ ४१॥ संनिवर्त्य च रक्षांसि दग्धशैलोपमो महान्। कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत्॥ ४२॥ अद्य वानरमुख्यानां तानि यूथानि भागशः। निर्दहिष्यामि संक्रुद्धः शलभानिव पावकः॥ ४३॥ नापराध्यन्ति मे कामं वानरा वनचारिणः। जातिरस्मद्विधानां सा पुरोद्यानविभूषणम्॥ ४४॥ पुररोधस्य मूलं तु राघवः सहलक्ष्मणः। हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे॥ ४५॥ एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः। नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम्॥ ४६॥ तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः। बभूवुर्घोररूपाणि निमित्तानि समन्ततः॥ ४७॥ उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः। ससागरवना चैव वसुधा समकम्पत॥ ४८॥ घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः। मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः॥ ४९॥ निष्पपात च मालेव गृध्रोऽस्य पथि गच्छतः। प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत॥ ५०॥ निष्पपात तदा चोल्का ज्वलन्ती भीमनिःस्वना। आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः॥ ५१॥ अचिन्तयन् महोत्पातानुत्थितान् रोमहर्षणान्। निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः॥ ५२॥ स लङ्घयित्वा प्राकारं पद‍्भ्यां पर्वतसंनिभः। ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम्॥ ५३॥ ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्। वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा॥ ५४॥ तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम्। स कुम्भकर्णः समवेक्ष्य हर्षा- न्ननाद भूयो घनवद्घनाभः॥ ५५॥ ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य। पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव शालवृक्षाः॥ ५६॥ विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा। कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्डवान् युगान्ते॥ ५७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णाभ्षेणनं नाम पञ्चषष्टितमः सर्गः ॥६-६५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध