home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

षट्षष्टितमः सर्गः ॥६-६६॥

॥वानरपर्यवस्थापनम्॥

[ कुम्भकर्णभयात् पलायमानानां वानराणामङ्गदेन प्रोत्साहनमावाहनं च कुम्भकर्णेन कपीनां संहारः पुनर्वानरसैनिकानां पलायनमङ्गदेन प्रबोध्य तेषां पुनः प्रत्यावर्तनं च ]

स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्। निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः॥ १॥ स ननाद महानादं समुद्रमभिनादयन्। जनयन्निव निर्घातान् विधमन्निव पर्वतान्॥ २॥ तमवध्यं मघवता यमेन वरुणेन वा। प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः॥ ३॥ तांस्तु विप्रद्रुतान् दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत्। नलं नीलं गवाक्षं च कुमुदं च महाबलम्॥ ४॥ आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च। क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा॥ ५॥ साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ। नालं युद्धाय वै रक्षो महतीयं विभीषिका॥ ६॥ महतीमुत्थितामेनां राक्षसानां विभीषिकाम्। विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः॥ ७॥ कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः। वृक्षाद्रहस्ता हरयः सम्प्रतस्थू रणाजिरम्॥ ८॥ ते निवर्त्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः। निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः॥ ९॥ प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः। पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते॥ १०॥ तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः। पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले॥ ११॥ सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम्। ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः॥ १२॥ लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः। निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः॥ १३॥ लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्। केचित् समुद्रे पतिताः केचिद्गगनमाश्रिताः॥ १४॥ वध्यमानास्तु ते वीरा राक्षसेन च लीलयसा। सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः॥ १५॥ ते स्थलानि तथा निम्नं विषण्णवदना भयात्। ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः॥ १६॥ ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः। निपेतुः प्लवगाः केचित् केचिन्नैवावतस्थिरे। केचिद् भूमौ निपतिताः केचित् सुप्ता मृता इव॥ १७॥ तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत्। अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः॥ १८॥ भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम्। स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ॥ १९॥ निरायुधानां द्रवतामसङ्गगतिपौरुषाः। दारा ह्युपहसिष्यन्ति स वै घातस्तु सुजीवताम्॥ २०॥ कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च। क्व गच्छत भयत्रस्ताः हरयः प्राकृता यथा। अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत॥ २१॥ विकत्थनानि वो यानि तदा वै जनसंसदि। तानि वः क्व नु यातानि सोदग्राणि महान्ति च॥ २२॥ भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः। मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्॥ २३॥ शयामहेऽथ निहताः पृथिव्यामल्पजीविताः। दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः॥ २४॥ संप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे। जीवितं वीरलोकस्य भोक्ष्यामो वसु वानराः॥ २५॥ न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति। दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा॥ २६॥ पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्। एकेन बहवो भग्ना यशो नाशं गमिष्यति॥ २७॥ एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्। द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्॥ २८॥ कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा। न स्थानकालो गच्छामो दयितं जीवितं हि नः॥ २९॥ एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः। भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः॥ ३०॥ द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः। सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः॥ ३१॥ प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता। आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः॥ ३२॥ ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः। द्विविदपनसवायुपुत्रमुख्या- स्त्वरिततराभिमुखं रणं प्रयाताः॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे वानरपर्यवस्थापनं नाम षट्षष्टितमः सर्गः ॥६-६६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध