ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा। नैष्ठिकीं बुद्धिमासाद्य सर्वे संग्रामकाङ्क्षिणः॥ १॥ समुदीरितवीर्याश्च समारोपितविक्रमाः। पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः॥ २॥ प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः। चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः॥ ३॥ अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च। वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन्॥ ४॥ स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान्। अर्दयन् सुमहाकायः समन्ताद्व्यक्षिपद्रिपून्॥ ५॥ शतानि सप्त चाष्टौ च सहस्राणि च वानराः। प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः॥ ६॥ षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च। परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति॥ ७॥ भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव। कृच्छ्रेण च समाश्वस्ताः संगम्य च ततस्ततः॥ ८॥ वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि। ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः॥ ९॥ दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः। तं समुत्पत्य चिक्षेप कुम्भकर्णाय वानरः॥ १०॥ तमप्राप्य महाकायं तस्य सैन्येऽपतत्तदा। ममर्दाश्वान् गजांश्चापि रथांश्चैव नगोत्तमः॥ ११॥ तानि चान्यानि रक्षांसि पुनश्चान्यद्गिरेः शिरः तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि॥ १२॥ रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत्। रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः॥ १३॥ शिरांसि नदतां जह्रुः सहसा भीमनिःस्वनाः। वानराश्च महात्मानः समुत्पाट्य महाद्रुमान्॥ १४॥ रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन्। हनूमान् शैलशृङ्गाणि वृक्षांश्च विविधान् बहून्॥ १५॥ ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह। बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः॥ १६॥ ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य। तस्थौ स तस्यापततः परस्ता- न्महीधराग्रं हनुमान् प्रगृह्य॥ १७॥ स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम्। संचुक्षुभे तेन तदाभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः॥ १८॥ स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्निशृङ्गम्। बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या॥ १९॥ स शूलनिर्भिन्नमहाभुजान्तरः प्रविह्वलः शोणितमुद्वमन् मुखात् । ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम्॥ २०॥ ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य। प्लवंगमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात्॥ २१॥ ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम्। प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते॥ २२॥ तमापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह। मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत॥ २३॥ सविस्फुलिङ्गं सज्वालं निपपात महीतले। ऋषभः शरभो नीलो गवाक्षो गन्धमादनः॥ २४॥ पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन्। शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः॥ २५॥ कुम्भकर्णं महाकायं सर्वतोऽऽभिप्रदुद्रुवुः। स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे॥ २६॥ ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे। कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः॥ २७॥ निपपातर्षभो भीमः प्रमुखाद्वान्तशोणितः। मुष्टिना शरभं हत्वा जानुना नीलमाहवे॥ २८॥ आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा। पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम्॥ २९॥ दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः। निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः॥ ३०॥ तेषु वानरमुख्येषु पातितेषु महात्मसु। वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः॥ ३१॥ तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः। समारुह्य समुत्पत्य ददंशुश्च महाबलाः॥ ३२॥ तं नखैर्दशनैश्चापि मुष्टिभित्जानुभिस्तथा। कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः॥ ३३॥ स वानरसहस्रैस्तैराचितः पर्वतोपमः। रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव॥ ३४॥ बाहुभ्यां वानरान् सर्वान् प्रगृह्य सुमहाबलः। भक्षयामास संक्रुद्धो गरुडः पन्नगानिव॥ ३५॥ प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे। नासापुटाभ्यां संजग्मुः कर्णाभ्यां चैव वानराः॥ ३६॥ भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः। बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः॥ ३७॥ मांसशोणितसंक्लेदां भूमिं कुर्वन् स राक्षसः। चचार हरिसैन्येषु कालाग्निरिव मूर्छितः॥ ३८॥ वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः। शूलहस्तो बभौ संख्ये कुम्भकर्णो महाबलः॥ ३९॥ यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः। तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत्॥ ४०॥ ततस्ते वध्यमानास्तु हतयूथाः विनयकाः। वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम्॥ ४१॥ अनेकशो वध्यमानाः कुम्भकर्णेन वानराः। राघवं शरणं जग्मुर्व्यथिता खिन्नचेतसः॥ ४२॥ प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तासुतात्मजः। अभ्यधावत वेगेन कुम्भकर्णं महाहवे॥ ४३॥ शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः। त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान्॥ ४४॥ चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि। स तेनाभिहतोऽत्यर्थं गिरिशृङ्गेण मूर्धनि॥ ४५॥ कुम्भकर्णः प्रजज्वाल कोपेन महता तदा। सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः॥ ४६॥ कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान्। शूलं ससर्ज वै रोषादङ्गदे स महाबलः॥ ४७॥ तदापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः। लाघवान्मोचयामास बलवान् वानरर्षभः॥ ४८॥ उत्पत्य चैनं सहसा तलेनोरस्यताडयत्। स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः॥ ४९॥ स लब्धसंज्ञो बलावान् मुष्टिमावर्त्य राक्षसः। अपहस्तेन चिक्षेप विसंज्ञः स पपात ह॥ ५०॥ तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि। तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे॥ ५१॥ तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम्। उत्पपात तदा वीरः सुग्रीवो वानराधिपः॥ ५२॥ पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः। अभिदुद्राव वेगेन कुम्भकर्णं महाबलम्॥ ५३॥ तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम्। तस्थौ विवृत्तसर्वाङ्गो वानरेन्द्रसन्मुखः॥ ५४॥ कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवंगमान्। कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत्॥ ५५॥ पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्। भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः॥ ५६॥ त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि। सहस्वैकनिपातं मे पर्वतस्यास्य राक्षस॥ ५७॥ तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्। श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः॥ ५८॥ प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः। श्रुतपौरुषसम्पन्नः तस्माद्गर्जसि वानर॥ ५९॥ स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच। तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन॥ ६०॥ तच्छैलशृङ्गं सहसा विकीर्णं भुजान्तरे तस्य तदा विशाले। ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः॥ ६१॥ स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्त्रम्। व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय॥ ६२॥ तत् कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनदामजुष्टिम्। क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य॥ ६३॥ कृतं भारसहस्रस्य शूलं कालायसं महत्। बभञ्ज जानुमारोप्य तदा हृष्टः प्लवगर्षभः॥ ६४॥ शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी। हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे॥ ६५॥ बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत्। सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः। मारुतिं पूजयांचक्रुर्दृष्ट्वा शूलं तथागतम्॥ ६६॥ स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा। उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवमुपेत्य तेन॥ ६७॥ स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः। तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः॥ ६८॥ तमभ्युपैत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम्। जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमतिप्रचण्डः॥ ६९॥ स तं महामेघनिकाशरूप- मुत्पाट्य गच्छन् युधि कुम्भकर्णः। रराज मेरुप्रतिमानरूपो मेरुर्यथाभ्युच्छ्रितघोरशृङ्गः॥ ७०॥ ततस्तमाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः। शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम्॥ ७१॥ ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः। अस्मिन् हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः॥ ७२॥ विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः। कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्॥ ७३॥ हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः। एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्॥ ७४॥ यद्धै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा। भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम्॥ ७५॥ मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे। विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः॥ ७६॥ अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः। गृहीतोऽयं यदि भवेत् त्रिदशैः सासुरोरगैः॥ ७७॥ मन्ये न तावदात्मानं बुध्यते वानराधिपः। शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे॥ ७८॥ अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे। आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति॥ ७९॥ मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः। अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः॥ ८०॥ तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः। भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्॥ ८१॥ इत्येवं चिन्तयित्वा तु हनूमान् मारुतात्मजः। भूयः संस्तम्भयामास वानराणां महाचमूम्॥ ८२॥ स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम्। विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः॥ ८३॥ लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः। राजमार्गस्य शीतत्वात् संज्ञामाप महाबलः॥ ८४॥ ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः। अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा॥ ८५॥ एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य। तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम्॥ ८६॥ ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम्। खरैश्च कर्णौ दशनैश्च नासां ददंश पार्श्वषु च कुम्भकर्णम्॥ ८७॥ स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च। रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ॥ ८८॥ स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः। जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम॥ ८९॥ कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः। रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव॥ ९०॥ शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः। युद्धायाभिमुखो भूयो मनश्चक्रे महावलः॥ ९१॥ अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः। नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः॥ ९२॥ गते तु तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः। अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद॥ ९३॥ ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम्। तेनैव रुपेण बभञ्ज रुष्टः प्रहारमुष्ट्या च पदेन सद्यः॥ ९४॥ बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्तानगिरिव प्रदीप्तः। बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम्॥ ९५ ॥ चखाद रक्षांसि हरीन् पिशाचा- न्नृक्षांश्च मोहाद्युधि कुम्भकर्णः। यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान्॥ ९६॥ एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः। समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे॥ ९७॥ सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः। वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान्॥ ९८॥ ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्। कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति॥ ९९॥ शतानि सप्त चाष्टौ च विंशत् त्रिंशत्तथैव च। सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति॥ १००॥ मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः। ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्ताग्निरिव प्रवृद्धः॥ १०१॥ तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः। चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः॥ १०२॥ स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान्। निचखानाददे बाणान् विससर्ज च लक्ष्मणः॥ १०३॥ भिद्यमानस्तदा तैस्तु विषेहे तत् स राक्षसः। ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः॥ १०४॥ अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम्। प्रच्छादयामास शरैः सन्ध्याभ्रैरिव मारुतः॥ १०५॥ नीलाञ्जनचयप्रख्यैः शरैः काञ्चनभूषणैः। आच्छाद्यमानः शुशुभे मेघैः सूर्य इवांशुमान्॥ १०६॥ ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम्। सावज्ञमेवं प्रोवाच वाक्यं मेघौघनिःस्वनम्॥ १०७॥ अन्तकस्यापि क्रुद्धस्य भयदातारमाहवे। युध्यता मामभीतेन ख्यापिता वीरता त्वया॥ १०८॥ प्रगृहीतायुधस्येव मृत्योरिव महामृधे। तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः॥ १०९॥ ऐरावतगजारूढो वृतः सर्वामरैः प्रभुः। नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन॥ ११०॥ शृणु मे वीर संक्षोभं श्लाघनीयोऽसि मे रिपुः। अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमैः॥ १११॥ तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम्। सत्त्वधैर्यबलोत्साहैस्तोषितोऽहं रणे त्वया॥ ११२॥ राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम्। रामे मया चेन्निहते येऽन्ये स्थास्यन्ति संयुगे॥ ११३॥ तानहं योधयिष्यामि स्वबलेन प्रमाथिना। इत्युक्तवाक्यं तद्रक्षः प्रोवाच स्तुतिसंहितम्॥ ११४॥ मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव। यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम्॥ ११५॥ तत् सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः। एष दाशरथी रामस्तिष्ठत्यद्रिरिवापरः॥ ११६॥ मनोरथो रात्रिचर तत्समीपे भविष्यति। इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः॥ ११७॥ अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः। राममेवाभिदुद्राव दारयन्निव मेदिनीम्॥ ११८॥ अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्। कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान्॥ ११९॥ तस्य रामेण विद्धस्य सहसाभिप्रधावतः। अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः॥ १२०॥ रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः। अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे॥ १२१॥ तस्योरसि निमग्नाश्च शरा बर्हिणवाससः। हस्ताच्चापि परिभ्रष्टा गदा चोर्व्यां पपात ह॥ १२२॥ आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले। स निरायुधमात्मानं यदा मेने महाबलः॥ १२३॥ मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत्। स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः॥ १२४॥ रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा। स तीव्रेण च कोपेन रुधिरेण च मूर्च्छितः॥ १२५॥ वानरान् राक्षसानृक्षान् खादन् स विपरिधावति। अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः॥ १२६॥ चिक्षेप राममुद्दिश्य बलवानन्तकोपमः। अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः॥ १२७॥ शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः। तन्मेरुशिखराकारं द्योतमानमिव श्रिया॥ १२८॥ द्वे शते वानराणां पतमानमपातयत्। तस्मिन् काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत्॥ १२९॥ कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून्। नैवायं वानरान् राजन्नापि जानाति राक्षसान्॥ १३०॥ मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति। साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः॥ १३१॥ यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः। अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः॥ १३२॥ प्रचतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान्। तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः॥ १३३॥ ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः। कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः॥ १३४॥ व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान्। तान् दृष्ट्वा निर्धुतान् रामो रुष्टोऽयमिति राक्षसः॥ १३५॥ समुत्पपात वेगेन धनुरुत्तममाददे। क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा॥ १३६॥ राघवो राक्षसं रोषादभिदुद्राव वेगितः। यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान्॥ १३७॥ स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम्। हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः॥ १३८॥ स वानरगणैस्तैस्तु वृतः परमदुर्जयः। लक्ष्मणानुचरो वीरः सम्प्रतस्थे महाबलः॥ १३९॥ स ददर्श महात्मानं किरीटिनमरिन्दमम्। शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम्॥ १४०॥ सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम्। मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम्॥ १४१॥ विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम्। स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम्॥ १४२॥ जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम्। मृद्नन्तं वानरानीकं कालान्तकयमोपमम्॥ १४३॥ तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्। विस्फारयामास तदा कार्मुकं पुरुषर्षभः॥ १४४॥ स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः। अमृष्यमाणस्तं घोषमभिदुद्राव राघवम्॥ १४५॥ पुरस्ताद्राघवस्यार्थ गदायुक्तो विभीषणः। अभिदुद्राव वेगेन भ्राता भ्रातरमाहवे॥ १४६॥ विभीषणं पुरो दृष्ट्वा कुम्भकर्णाऽब्रवीदिदम्। प्रहरस्व रणे शीघ्रं क्षत्त्रधर्मे स्थिरो भव॥ १४७॥ भ्रातृस्नेहं परित्यज्य राघवस्य प्रियं कुरु। अस्मत्कार्यं कृतं वत्स यस्त्वं राममुपागतः॥ १४८॥ त्वमेको रक्षसां लोके सत्यधर्माभिरक्षिता। नास्ति धर्माभिरक्तानां व्यसनं तु कदाचन॥ १४९॥ संतानार्थं त्वमेवैकः कुलस्यास्य भिविष्यसि। राघवस्य प्रसादात्त्वं रक्षसां राज्यमाप्स्यसि॥ १५०॥ प्रकृत्या मम दुर्धर्ष शीघ्रं मार्गादपक्रम। न स्थात्व्यं पुरस्तान्मे संभ्रमान्नष्टचेतसः॥ १५१॥ न वेद्मि संयुगे शक्तः स्वान् परान् वा निशाचर। रक्षणीयोऽसि मे वत्स सत्यमेतद्ब्रवीमि ते॥ १५२॥ एवमुक्तो वचस्तेन कुम्भकर्णेन धीमता। विभीषणो महाबाहुः कुम्भकर्णमुवाच ह॥ १५३॥ गदितं मे कुलस्यास्य रक्षणार्थमरिन्दम। न श्रुतं सर्वरक्षोभिस्ततोऽहं राममागतः॥ १५४॥ एवमुक्त्वाश्रुपूर्णाक्षो गदापणिर्विभीषणः। एकान्तमाश्रीतो भूत्वा चिन्तयामास संस्थितः॥ १५५॥ ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम्। तमापतन्तं धरणीधराभ- मुवाच रामो युधि कुम्भकर्णम्॥ १५६॥ आगच्छ रक्षोऽधिप मा विषाद- मवस्थितोऽहं प्रगृहीतचापः। अवेहि मां शक्रसपत्न रामं मया मुहूर्ताद्भविता विचेताः॥ १५७॥ रामोऽयमिति विज्ञाय जहास विकृतस्वनम्। अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे॥ १५८॥ पातयन्निव सर्वेषां हृदयानि वनौकसाम्। प्रहस्य विकृतं भीमं स मेघस्तनितोपमम्॥ १५९॥ कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत्। नाहं विराधो विज्ञेयो न कबन्धः खरो न च॥ १६०॥ न वाली न च मारीचः कुम्भकर्णोऽहमागतः। पश्य मे मुद्गरं घोरं सर्वकालायसं महत्॥ १६१॥ अनेन निर्जिता देवा दानवाश्च पुरा मया। विकर्णनास इति मां नावज्ञातुं त्वमर्हसि॥ १६२॥ स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात्। दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु। ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्॥ १६३॥ स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान्। तैराहतो वज्रसमप्रवेगै- र्न चुक्षुभे न व्यथ ते सुरारिः॥ १६४॥ यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च। ते कुम्भकर्णस्य तदा शरीरे वज्रोपमा न व्यथयांबभूवुः॥ १६५॥ स वारिधारा इव सायकांस्तान् पिबञ्शरीरेण महेन्द्रशत्रुः। जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम्॥ १६६॥ ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम्। विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम्॥ १६७॥ वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय। समुद्गरं तेन जघान बाहुं स कृत्तबाहुस्तुमुलं ननाद॥ १६८॥ स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः। पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनीं च॥ १६९॥ ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः। प्रवेपिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम्॥ १७०॥ स कुम्भकर्णोऽस्त्रनिकृत्तबाहु- र्महेन्द्रकृत्ताग्र इवाचलेन्द्रः। उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम्॥ १७१॥ स तस्य बाहुं सहतालवृक्षं समुद्यतं पन्नगभोगकल्पम्। ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन॥ १७२॥ स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः। विचेष्टमानोऽजघान वृक्षान् शैलाञ्शिला वानरराक्षसांश्च॥ १७३॥ तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम्। द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य॥ १७४॥ तौ तस्य पादौ प्रदिशो दिशश्च गिरीन् गुहाश्चैव महार्णवं च। लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च॥ १७५॥ निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम्। दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे॥ १७६॥ अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः। स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि॥ १७७॥ अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम्। अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम्॥ १७८॥ तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम्। महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय॥ १७९॥ स सायको राघवबाहुचोदितो दिशःस्वभासा दश सम्प्रकाशयन्। विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः॥ १८०॥ स तन्महापर्वतकूटसंनिभं निवृत्तदंष्ट्रं चलचारुकुण्डलम्। चकर्त रक्षोऽधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरंदरः॥ १८१॥ कुम्भकर्णशिरो भाति कुण्डलालंकृतं महत्। आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः॥ १८२॥ तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम्। बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च॥ १८३॥ न्यपतत् कुम्भकर्णोऽथ स्वकायेन निपातयन्। प्लवङ्गमानां कोट्यश्च परितः संप्रधावताम्॥ १८४॥ तच्चातिकायं हिमवत्प्रकाशं रक्षस्ततस्तोयनिधौ पपात। ग्राहान् वरान् मीनवरान् भुजङ्गमान् ममर्द भूमिं च तदा विवेश॥ १८५॥ तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे। चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः॥ १८६॥ ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः। सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराकमेण॥ १८७॥ ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः। विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः॥ १८८॥ स देवलोकस्य तमो निहत्य सूर्ये यथा राहुमुखाद्विमुक्तः। तथा व्यभासीद्भुवि वानरौघे निहत्य रामो युधि कुम्भकर्णम्॥ १८९॥ प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः। अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे॥ १९०॥ स कुम्भकर्णं सुरसङ्घमर्दनं महत्सु युद्धेषु पराजितश्रमम्। ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः॥ १९१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णवधो नाम सप्तषष्टितमः सर्गः ॥६-६७॥