कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ १॥ राजन् स कालसंकाशः संयुक्तः कालकर्मणा। विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान्॥ २॥ प्रतपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा। कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम्॥ ३॥ निकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु। रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः॥ ४॥ कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः। अगण्डभूतो विवृतो दावदग्ध इव द्रुमः॥ ५॥ ममार राक्षसो घोरः कुम्भकर्णो महाद्युतिः। तं श्रुत्वा निहतं संख्ये कुम्भकर्णं महाबलम्॥ ६॥ रावणः शोकसंतप्तो मुमोह च पपात च। पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ॥ ७॥ त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः। भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा॥ ८॥ महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः। ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुङ्गवः॥ ९॥ कुम्भकर्णवधाद्दीनो विललाप स रावणः। हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल॥ १०॥ त्वं मां विहाय वै दैवाद्यातोऽसि यमसादनम्। मम शल्यमनुद्धृत्य बान्धवानां महाबल॥ ११॥ शत्रुसैन्यं प्रताप्यैकः क्व मां सन्त्यज्य गच्छसि। इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः॥ १२॥ पतितो यं समाश्रित्य न बिभेमि सुरासुरात्। कथमेवंविधो वीरो देवदानवदर्पहा॥ १३॥ कालाग्निरुद्रप्रतिमो राघवेण रणे हतः। यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा॥ १४॥ स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले। एते देवगणाः सार्धमृषिभिर्गगने स्थिताः॥ १५॥ निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः। ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः॥ १६॥ आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः। राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया॥ १७॥ कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः। यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्॥ १८॥ ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्। अद्यैव तं गमिष्यामि देशं यत्रानुजो मम॥ १९॥ न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे। देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्॥ २०॥ कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि। तदिदं मामनुप्राप्तं विभीषणवचः शुभम्॥ २१॥ यदज्ञानान्मया तस्य न गृहीतं महात्मनः। विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः॥ २२॥ विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः। तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः। यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः॥ २३॥ इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्। न्यपतदथ दशाननो भृशार्त- स्तमनुजमिन्द्ररिपुं हतं विदित्वा॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणानुशोको नाम अष्टषष्टितमः सर्गः ॥६-६८॥