home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

सप्ततितमः सर्गः ॥६-७०॥

॥देवान्तकादिवधः॥

[ हनुमता देवान्तकत्रिशिरसोर्वधो नीलेन महोदरस्यर्षभेण महापार्श्वस्य च वधः ]

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः। देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः॥ १॥ आरूढो मेघसंकाशं वारणेन्द्रं महोदरः। वालिपुत्रं महावीर्यमभिदुद्राव वेगवान्॥ २॥ भ्रातृव्यसनसंतप्तस्तथा देवान्तको बली। आदाय परिघं दीप्तमङ्गदं समभिद्रवत्॥ ३॥ रथमादित्यसंकाशं युक्तं परमवाजिभिः। आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात्॥ ४॥ स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः। वृक्षमुत्पाटयामास महाविटपमङ्गदः॥ ५॥ देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः। महावृक्षं महाशाखं शक्रो दीप्तामिवाशनिम्॥ ६॥ त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः। स वृक्षं कृत्तमालोक्य उत्पपात तदाङ्गदः॥ ७॥ स ववर्ष ततो वृक्षाञ्शैलाश्च कपिकुञ्जरः। तान् प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः॥ ८॥ परिघाग्रेण तान्वृक्षान् बभञ्ज च सुरान्तक्ः। त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः॥ ९॥ गजेन समभिद्रुत्य वालिपुत्रं महोदरः। जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः॥ १०॥ देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्। उपगम्याभिहत्याशु व्यपचक्राम वेगवान्॥ ११॥ स त्रिभिर्नैर्ऋतश्रेष्ठैः युगपत्समभिद्रुतः। न विव्यथे महातेजा वालिपुत्रः प्रतापवान्॥ १२॥ स वेगवान् महावेगं कृत्वा परमदुर्जयः। तलेन मृशमुत्पत्य जघानास्य महागजम्॥ १३॥ तस्य तेन प्रहारेण नागराजस्य संयुगे। पेततुत्लोचने तस्य विननाश स वारणः॥ १४॥ विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः। देवान्तकमभिप्लुत्य ताडयामास संयुगे॥ १५॥ स विह्वलतसर्वाङ्गो वातोद्‍धूत इव द्रुमः। लाक्षारससवर्णं च सुस्राव रुधिरं मुखात्॥ १६॥ अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली। आविध्य परिघं घोरमाजघान तदाङ्गदम्॥ १७॥ परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा। जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह॥ १८॥ तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः। घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह॥ १९॥ ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः। हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः॥ २०॥ ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा। तद्रावणसुतो धीमान् बिभेद निशितैः शरैः॥ २१॥ तद‍्बाणशतनिर्भिन्नं विदारितशिलातलम्। सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः॥ २२॥ ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा। परिघेणाभिदुद्राव मारुतात्मजमाहवे॥ २३॥ तमापतन्तमुत्प्लुत्य हनूमान् मारुतात्मजः। आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना॥ २४॥ शिरसि प्राहरद् वीरस्तदा वायुसुतो बली। नादेनाकम्पयच्चैव राक्षसान् स महाकपिः॥ २५॥ स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः। देवान्तको राक्षसराजसूनु- र्गतासुरुर्व्यां सहसा पपात॥ २६॥ तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ। क्रुद्धस्त्रिमूर्धा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम्॥ २७॥ महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम्। भूयः समधिरुह्याशु मन्दरं रश्मिमानिव॥ २८॥ ततो बाणमयं वर्षं नीलस्योरस्यपातयत्। गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः॥ २९॥ ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः। नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन॥ ३०॥ ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्। ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि॥ ३१॥ ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन। विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथाद्रिः॥ ३२॥ पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे। हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः॥ ३३॥ स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः। त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली॥ ३४॥ तद् व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः। विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति॥ ३५॥ तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान्। त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च॥ ३६॥ ततो हनूमानुत्प्लुत्य हयांस्त्रिशिरसस्तदा। विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव॥ ३७॥ अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः। चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः॥ ३८॥ दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्। गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च॥ ३९॥ तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता। प्रहृष्टा वानरगणा विनेदुर्जलदा इव॥ ४०॥ ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः। निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥ ४१॥ निजघान त्रिशिरसं तलेनोरसि वीर्यवान् खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः। आजघान त्रिशिरसं तलेनोरसि वीर्यवान्॥ ४२॥ स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि। निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः॥ ४३॥ स तस्य पततः खड्गं तमाच्छिद्य महाकपिः। ननाद गिरिसंकाशस्त्रासयन् सरनैर्ऋतान्॥ ४४॥ अमृष्यमाणस्तं घोषमुत्पपात निशाचरः। उत्पत्य च हनूमन्तं ताडयामास मुष्टिना॥ ४५॥ तेन मुष्टिप्रहारेण संचुकोप महाकपिः। कुपितश्च निजग्राह किरीटे राक्षसर्षभम्। हनुमान् रोषताम्राक्षो राक्षसं परवीरहा॥ ४६॥ स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि। क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः॥ ४७॥ तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि। पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथार्कमार्गात्॥ ४८॥ तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण। नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात्॥ ४९॥ हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्। हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ॥ ५०॥ चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः। जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम्॥ ५१॥ हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्। विराजमानां वपुषा शत्रुशोणितरञ्जिताम्॥ ५२॥ तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम्। ऐरावतमहापद्मसार्वभौमभयावहाम्॥ ५३॥ गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः। हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन्॥ ५४॥ अथर्षभः समुत्पत्य वानरो रावणानुजम्। मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली॥ ५५॥ तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्। आजघानोरसि क्रुद्धो गदया वज्रकल्पया॥ ५६॥ स तयाभिहतस्तेन गदया वानरर्षभः। भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु॥ ५७॥ स सम्प्राप्य चिरात् संज्ञामृषभो वानरर्षभः। क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत॥ ५८॥ स वेगवान् वेगवदभ्युपेत्य तं राक्षसं वानरयूथमुख्यः। संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः॥ ५९॥ स कृत्तमूलः सहसेव वृक्षः पपात भूमौ क्षतजोक्षिताङ्गः। तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा सहर्षः॥ ६०॥ मुहूर्तमासीत् स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः। उपेत्य सन्ध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान॥ ६१॥ अभिजग्राह वेगेन गदां तस्य महात्मनः। गृहीत्वा तां गदां भीमामाविध्य च पुनः पुनः॥ ६२॥ मत्तानीकं महात्मानं जघान रणमूर्धनि। स स्वया गदया भग्नो विशीर्णदशनेक्षणः॥ ६३॥ निपपात ततो मत्तो वज्राहत इवाचलः। विशीर्णनयने भूमौ गतसत्त्वे गतायुषि॥ ६४॥ पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम्। उन्मत्तस्तु तदा दृष्ट्वा गतासुं भ्रातरं रणे॥ चुकोप परमक्रुद्धः प्रलयाग्निसमुद्युतिः॥ ६५॥ ततः समादाय गदां स वीरो वित्रासयन् वानरसैन्यमुग्रम्। दुद्राव वेगेन तु सैन्यमध्ये दहन् यथा वह्निरतिप्रचण्डः॥ ६६॥ आपतन्तं तदा दृष्ट्वा राक्षसं भीमविक्रमम्। शैलमादाय दुद्राव गवाक्षः पर्वतोपमः॥ ६७॥ जिघांसू राक्षसं भीमं तं शैलेन महाबलः। आपतन्तं तदा दृष्ट्वा उन्मत्तोऽपि महागिरिम्॥ ६८॥ चिच्छेद गदया वीरः शतधा तत्र संयुगे। चूर्णीकृतं गिरिं दृष्ट्वा रक्षसा कपिकुञ्जरः॥ ६९॥ विस्मितोऽभून्महाबाहुर्जगर्ज च मुहुर्मुहुः। उन्मत्तस्तु सुसंक्रुद्धो ज्वलन्तीं राक्षसोत्तमः॥ ७०॥ गदामादाय वेगेन कपेर्वक्षस्यताडयत्। स तया गदया वीरस्ताडितः कपिकुञ्जरः॥ ७१॥ पपात भूमौ निःसंज्ञः सुरत्राव रुधिरं बहु। पुनः संज्ञामथास्थाय वानरः स समुत्थितः॥ ७२॥ तलेन ताडयामास ततस्तस्य शिरः कपिः। तेन प्रताडितो वीरो राक्षसः पर्वतोपमः॥ ७३॥ विस्त्रस्तदन्तनयनो निपपात महीतले। सुस्त्राव रुधिरं सोष्णं गतासुश्च ततोऽभवत्॥ ७४॥ तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्। त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम्॥ ७५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे देवान्तकादिवधो नाम सप्ततितमः सर्गः ॥६-७०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध