स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम्। भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान्॥ १॥ पितृव्यौ चापि संदृश्य समरे संनिपातितौ। युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ॥ २॥ चुकोप च महातेजा ब्रह्मदत्तवरो युधि। अतिकायोऽद्रिसंकाशो देवदानवदर्पहा॥ ३॥ स भास्करसहस्रस्य सङ्घातमिव भास्वरम्। रथमास्थाय शक्रारिरभिदुद्राव वानरान्॥ ४॥ स विस्फार्य महाच्चापं किरीटी मृष्टकुण्डलः। नाम विश्रावयामास ननाद च महास्वनम्॥ ५॥ तेन सिंहप्रणादेन नामविश्रावणेन च। ज्याशब्देन च भीमेन त्रासयामास वानरान्॥ ६॥ ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः। भयार्ता वानराः सर्वे संश्रयन्ते परस्परम्॥ ७॥ ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे। भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः॥ ८॥ तेऽतिकायं समासाद्य वानरा मूढचेतसः। शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे॥ ९॥ ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्। ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत्॥ १०॥ स तं दृष्ट्वा महाकायं राघवस्तु विसिष्मिये। वानरान् सान्त्वयित्वाथ विभीषणमुवाच ह॥ ११॥ कोऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः। युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः॥ १२॥ य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः। अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः॥ १३॥ कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते। आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः॥ १४॥ धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः। शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम्॥ १५॥ क एष रक्षःशार्दूलो रणभूमिं विराजयन्। अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा॥ १६॥ ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते। सूर्यरश्मिभैर्बाणैर्दिशो दश विराजयन्॥ १७॥ त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्। शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते॥ १८॥ सध्वजः सपताकश्च सानुकर्षो महारथः। चतुःसादिसमायुक्तो मेघस्तनितनिःस्वनः॥ १९॥ विंशतिर्दश चाष्टौ च तूण्योऽस्य रथमास्थिताः। कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः॥ २०॥ द्वौ च खड्गौ च रथगतौ पार्श्वस्थौ पार्श्वशोभितौ। चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ॥ २१॥ रक्तकण्ठगुणौ धीरो महापर्वतसंनिभः। कालः कालमहावक्त्रो मेघस्थ इव भास्करः॥ २२॥ काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते। शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः॥ २३॥ कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं सुभीषणम्। पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम्॥ २४॥ आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्। यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः॥ २५॥ स पृष्टो राजपुत्रेण रामेणामिततेजसा। आचचक्षे महातेजा राघवाय विभीषणः॥ २६॥ दशग्रीवो महातेजा राजा वैश्रवणानुजः। भीमकर्मा महोत्साहो रावणो राक्षसाधिपः॥ २७॥ तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो रणे। वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः॥ २८॥ अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे। भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः॥ २९॥ यस्य बाहु समाश्रित्य लङ्का वसति निर्भया। तनयं धान्यमालिन्या अतिकायमिमं विदुः॥ ३०॥ एतेनाराधितो ब्रह्मा तपसा भावितात्मना। अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः॥ ३१॥ सुरासुरैरवध्यत्वं दत्तमस्मै स्वयंभुवा। एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्वरः॥ ३२॥ एतेन शतशो देवा दानवाश्च पराजिताः। रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः॥ ३३॥ वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः। पाशः सलिलराजस्य रणे प्रतिहतस्तथा॥ ३४॥ एषोऽतिकायो बलवान् राक्षसानामथर्षभः। रावणस्य सुतो धीमान् देवदानवदर्पहा॥ ३५॥ तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव। पुरा वानरसैन्यानि क्षयं नयति सायकैः॥ ३६॥ ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्। विस्फारयामास धनुर्ननाद च पुनः पुनः॥ ३७॥ तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्। अभिपेतुर्महात्मानो ये प्रधाना वनौकसः॥ ३८॥ कुमुदो द्विविदो मैन्दो नीलः शरभ एव च। पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन्॥ ३९॥ तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः। अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः॥ ४०॥ तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली। विव्याधाभिमुखान् संख्ये भीमकायो निशाचरः॥ ४१॥ तेऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः। न शेकुरतिकायस्य प्रतिकर्तुं महारणे॥ ४२॥ तत् सैन्यं हरिवीराणां त्रासयामास राक्षसः। मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः॥ ४३॥ स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कञ्चित्। उपेत्य रामं स धनुःकलापी सगर्वितं वाक्यमिदं बभाषे॥ ४४॥ रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामि। यश्चास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम्॥ ४५॥ तत् तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता। अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा॥ ४६॥ क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्। पुरस्तादतिकायस्य विचकर्ष महद्धनुः॥ ४७॥ पूरयन् स महीं शीलानाकाशं सागरं दिशः। ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान्॥ ४८॥ सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा। विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली॥ ४९॥ अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्। आदाय निशितं बाणमिदं वचनमब्रवीत्॥ ५०॥ बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः। गच्छ किं कालसद्य्शं मां योधयितुमिच्छसि॥ ५१॥ न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि। सोढुमुत्सहते वेगमन्तरिक्षमथो मही॥ ५२॥ सुखप्रसुप्तं कालाग्निं विबोधयितुमिच्छसि। न्यस्य चापं निवर्तस्व मा प्राणाञ्चहि मद्धतः॥ ५३॥ अथवा त्वं प्रतिस्तब्धो न निवर्तितुमिच्छसि। तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम्॥ ५४॥ पश्य मे निशितान् बाणानरिदर्पनिषूदनान्। ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्॥ ५५॥ एष ते सर्पसंकाशो बाणः पास्यति शोणितम्। मृगराज इव क्रुद्धो नागराजस्य शोणितम्। इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे॥ ५६॥ श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः। स संचुकोपातिबलो मनस्वी उवाच वाक्यं च ततो महार्थम्॥ ५७॥ न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति। मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन्॥ ५८॥ कर्मणा सूचयात्मानं न विकत्थितुमर्हसि। पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः॥ ५९॥ सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः। शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम्॥ ६०॥ ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः। मारुतः कालसम्पक्वं वृन्तात् तालफलं यथा॥ ६१॥ अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः। पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम्॥ ६२॥ बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि। बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे॥ ६३॥ बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिभिः क्रमैः। इत्येवमुक्त्वा संक्रुद्धः शरन् धनुषि संदधे॥ ६४॥ लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत्। अतिकायः प्रचुक्रोध बाणं चोत्तममाददे॥ ६५॥ ततो विद्याधरा भूता देवा दैत्या महर्षयः। गुह्यकाश्च महात्मानस्तद् युद्धं द्रष्टुमागमन्॥ ६६॥ ततोऽतिकायः कुपितश्चापमारोप्य सायकम्। लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम्॥ ६७॥ तमापतन्तं निशितं शरमाशीविषोपमम्। अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा॥ ६८॥ तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्। अतिकायो भृशं क्रुद्धः पञ्च बाणान् समाददे॥ ६९॥ तान् शरान् सम्प्रचिक्षेप लक्ष्मणाय निशाचरः। तानप्राप्तान् शिरैस्तीक्ष्णैश्चिच्छेद भरतानुजः॥ ७०॥ स तान् छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा। आददे निशितं बाणं ज्वलन्तमिव तेजसा॥ ७१॥ तमादाय धनुःश्रेष्ठे योजयामास लक्ष्मणः। विचकर्ष च वेगेन विससर्ज च वीर्यवान्॥ ७२॥ पूर्णायतविसृष्टेन शरेण नतपर्वणा। ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान्॥ ७३॥ स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः। ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले॥ ७४॥ राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रपीडितः। रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम्॥ ७५॥ चिन्तयामास चाश्वास्य विमृश्य च महाबलः। साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः॥ ७६॥ विधायैवं विनम्यास्यं नियम्य च भुजावुभौ। स रथोपस्थमास्थाय रथेन प्रचचार ह॥ ७७॥ एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः। आददे संदधे चापि विचकर्षोत्ससर्ज च॥ ७८॥ ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः। हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम्॥ ७९॥ ततस्तान् राक्षसोत्सृष्टान् शरौघान् राघवानुजः। असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः॥ ८०॥ तान् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः। चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम्॥ ८१॥ स संधाय महातेजास्तं बाणं सहसोत्सृजत्। ततः सौमित्रिमायान्तमाजघान स्तनान्तरे॥ ८२॥ अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि। सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः॥ ८३॥ स चकार तदात्मानं विशल्यं सहसा विभुः। जग्राह च शरं तीक्ष्णमस्त्रेणापि च संदधे॥ ८४॥ आग्नेयेन तदास्त्रेण योजयामास सायकम्। स जज्वाल तदा बाणो धनुष्यस्य महात्मनः॥ ८५॥ अतिकायोऽपि तेजस्वी सौरमस्त्रं समादधे। तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत्॥ ८६॥ तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम्। अतिकायाय चिक्षेप कालदण्डमिवान्तकः॥ ८७॥ आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः। उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम्॥ ८८॥ तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः। तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ॥ ८९॥ तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले। निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ॥ ९०॥ ततोऽतिकायः संक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत्। तत् प्रचिच्छेद सौमित्रिरस्त्रेणैन्द्रेण वीर्यवान्॥ ९१॥ ऐषीकं निहतं दृष्ट्वा रुशिति रावणात्मजः। याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम्॥ ९२॥ ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः। वायव्येन तदस्त्रेण निजघान स लक्ष्मणः॥ ९३॥ अथैनं शरधाराभिर्धाराभिरिव तोयदः। अभ्यवर्षत सुसंक्रुद्धो लक्ष्मणो रावणात्मजम्॥ ९४॥ तेऽतिकायं समासाद्य कवचे वज्रभूषिते। भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले॥ ९५॥ तान् मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा। अभ्यवर्षन्महेषूणां सहस्रेण महायशाः॥ ९६॥ स वृष्यमाणो बाणौघैरतिकायो महाबलः। अवध्यकवचः संख्ये राक्षसो नैव विव्यथे॥ ९७॥ शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत्। स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह॥ ९८॥ मुहूर्तमात्रं निःसंज्ञः अभवच्छत्रुतापनः। ततः संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः॥ ९९॥ निजघान हयान् संख्ये सारथिं च महाबलः। ध्वजस्योन्मथनं कृत्वा शरवर्षैररिन्दमः॥ १००॥ असम्भ्रान्तः स सौमित्रिः तान् शरानभिलक्षितान्। मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः॥ १०१॥ न शशाक रुजं कर्तुं युधि तस्य शरोत्तमः। अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह॥ १०२॥ ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः। ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा। अवध्य एष ह्यन्येषामस्त्राणां कवची बली॥ १०३॥ ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः। समाददे बाणममोघवेगं तद्ब्राह्ममस्त्रं सहसा नियुज्य॥ १०४॥ तस्मिन् महास्त्रे तु नियोज्यमाने सौमित्रिणा बाणवरे शिताग्रे। दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास चचाल चोर्वी॥ १०५॥ तं ब्रह्मणोऽस्त्रेण नियोज्य चापे शरं सपुङ्खं यमदूतकल्पम्। सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम्॥ १०६॥ तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम्। सुवर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श॥ १०७॥ तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः। स सायकस्तस्य सुपर्णवेग- स्तदातिकायस्य जगाम पार्श्वम्॥ १०८॥ तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम्। जघान शक्त्यृष्टिगदाकुठारैः शूलैर्हलैश्चाप्यविपन्नचेताः॥ १०९॥ तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः। प्रगृह्य तस्यैव किरीटजुष्टं ततोऽतिकायस्य शिरो जहार॥ ११०॥ तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम्। पपात सहसा भूमौ शृङ्गं हिमवतो यथा॥ १११॥ तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम्। बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः॥ ११२॥ ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः। विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः॥ ११३॥ ततस्ते त्परितं याता निरपेक्षा निशाचराः। पुरीमभिमुखा भीता द्रवन्तो नायके हते॥ ११४॥ प्रहर्षयुक्ता बहवस्तु वानराः प्रबुद्धपद्मप्रतिमाननास्तदा। अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे॥ ११५॥ अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः। त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम॥ ११६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे अतिकायवधो नाम एकसप्ततितमः सर्गः ॥६-७१॥