अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा। उद्वेगमगमद् राजा वचनं चेदमब्रवीत्॥ १॥ धूम्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः। अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च॥ २॥ एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः। जेतारः परसैन्यानां परैर्नित्यापराजिताः॥ ३॥ निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा। राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः॥ ४॥ अन्ये च बहवः शूरा महात्मानो निपातिताः। प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम॥ ५॥ यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः। यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः॥ ६॥ मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः। तन्न जाने प्रभावैर्वा मायया मोहनेन वा॥ ७॥ शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ। ये योधा निर्गताः शूरा राक्षसा मम शासनात्॥ ८॥ ते सर्वे निहता युद्धे वानरैः सुमहाबलैः। तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम्॥ ९॥ शासयेत् सबलं वीरं ससुग्रीवविभीषणम्। अहो नु बलवान् रामो महदस्त्रबलं च वै॥ १०॥ यस्य विक्रममासाद्य राक्षसा निधनं गताः। तं मन्ये राघवं वीरं नारायणमनामयम्॥ ११॥ तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा। अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम्॥ १२॥ अशोकवनिकायां च यत्र सीताभिरक्ष्यते। निष्क्रमो वे प्रवेशो वा ज्ञातव्यः सर्वथैव नः॥ १३॥ यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः। सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः॥ १४॥ द्रष्टव्यं च पदं तेषां वानराणां निशाचराः। प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वतः॥ १५॥ नावज्ञा तत्र कर्तव्या वानरेषु कदाचन। द्विषतां बलमुद्युक्तमापतत् किं स्थितं सदा॥ १६॥ ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत्। वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः॥ १७॥ स तान् सर्वान् समादिश्य रावणो राक्षसाधिपः। मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम्॥ १८॥ ततः स संदीपितकोपवह्नि- र्निशाचराणामधिपो महाबलः। तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा व्यनिःश्वसत्॥ १९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणमन्युशल्याविष्कारो नाम द्विसप्ततितमः सर्गः ॥६-७२॥