home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

त्रिसप्ततितमः सर्गः ॥६-७३॥

॥इन्द्रजिन्मायायुद्धम्॥

[ इन्द्रजितो ब्रह्मास्त्रेण वानरसेनासहितयोः श्रीरामलक्ष्मणयोर्मूर्च्छा ]

ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोऽतिकायान्। रक्षोगणास्तत्र हतावशिष्टा- स्ते रावणाय त्वरितं शशंसुः॥ १॥ ततो हतांस्तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः। पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ॥ २॥ ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम्। रथर्षभो राक्षसराजसूनु- स्तमिन्द्रजिद् वाक्यमिदं बभाषे॥ ३॥ न तात मोहं प्र्तिगन्तुमर्हसे यत्रेन्द्रजिज्जीवति राक्षसेन्द्र। मद‍्बाणनिर्भिन्नविकीर्णदहाः प्राणैर्वियुक्ताः समरे पतन्ति॥ ४॥ नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरेऽभिपातुम्। पश्याद्य रामं सह लक्ष्मणेन मद‍्बाणनिर्भिन्नविकीर्णदेहम्॥ ५॥ गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम्। इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम्॥ ६॥। अद्यैव रामं सह लक्ष्मणेन संतर्पयिष्यामि शरैरमोघैः। अद्येन्द्रवैवस्वतविष्णुमित्र- साध्याश्च वैश्वानरचन्द्रसूर्याः॥ ७॥ द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे। स एवमुक्त्वा त्रिदशेन्द्रशत्रु- रापृच्छ्य राजानमदीनसत्त्वः। समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम्॥ ८॥ तमास्थाय महातेजा रथं हरिरथोपमम्। जगाम सहसा तत्र यत्र युद्धमरिंदमः॥ ९॥ तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः। संहर्षमाणा बहवो धनुःप्रवरपाणयः॥ १०॥ गजस्कन्धगताः केचित् केचित् परमवाजिभिः। व्याघ्रवृश्चिकमार्जारैः खरोष्ट्रैश्च भुजङ्गमैः॥ ११॥ वराहैः श्वापदैः सिंहैः जम्बुकैः पर्वतोपमैः। शशहंसमयूरैश्च राक्षसा भीमविक्रमाः॥ १२॥ प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः। सशङ्खनिनदैः पूर्णैर्भेरीणां चापि निःस्वनैः॥ १३॥ जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः। सशङ्खशशिवर्णेन च्छत्रेण रिपुसूदनः॥ १४॥ रराज प्रतिपूर्णेन नभश्चन्द्रमसा यथा। अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः॥ १५॥ चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम्। स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्॥ १६॥ राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत् । त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः॥ १७॥ किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम्। तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णान्महाशिषः॥ १८॥ ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा। रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता॥ १९॥ स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः। स्थापयामास रक्षांसि रथं प्रति समन्ततः॥ २०॥ ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः। जुहुव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा॥ २१॥ स हविर्लाजसंस्कारैः माल्यगन्धपुरस्कृतैः। जुहुवे पावकं दीप्तं राक्षसेन्द्रः प्रतापवान्॥ २२॥ शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः। लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा॥ २३॥ स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः। छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः॥ २४॥ सकृदेव समिद्धस्य विधूमस्य महार्चिषः। बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन्॥ २५॥ प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः। हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः॥ २६॥ सोऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा। धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्॥ २७॥ तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके। सार्कग्रहेन्दुनक्षत्रं वितत्रास नभःस्थलम्॥ २८॥ स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः। सचापबाणासिरथाश्वसूतः खेऽन्तर्दधेत्मानमचिन्त्यरूपः॥ २९॥ ततो हयरथाकीर्णं पताकाध्वजशोभितम्। निर्ययौ राक्षसबलं नर्दमानं युयुत्सया॥ ३०॥ ते शरैर्बहुभिः शस्त्रैस्तीक्ष्णवेगैरलंकृतैः। तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे॥ ३१॥ रावणिस्तु ततः क्रुद्धस्तान् निरीक्ष्य निशाचरान्। हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया॥ ३२॥ ततस्ते राक्षसाः सर्वे नर्दन्तो जयकांक्षिणः। अभ्यवर्षंस्ततो घोरान् वानरान् शरवृष्टिभिः॥ ३३॥ स तु नालीकनाराचैर्गदाभिर्मुसलैरपि। रक्षोभिः संवृतः संख्ये वानरान् विचकर्त ह॥ ३४॥ ते वध्यमानाः समरे वानराः पादपायुधाः। अभ्यद्रवन्त सहसा रावणिं रणकर्कशम्॥ ३५॥ इन्द्रजित् तु ततः क्रुद्धो महातेजा महाबलः। वानराणां शरीराणि व्यधमद् रावणात्मजः॥ ३६॥ शरेणैकेन च हरीन् नव पञ्च च सप्त च। चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन्॥ ३७॥ स शरैः सूर्यसंकाशैः शातकुम्भविभूषितैः। वानरान् समरे वीरः प्रममाथ सुदुर्जयः॥ ३८॥ ते भिन्नगात्राः समरे वानराः शरपीडिताः। पेतुर्मथितसंकल्पाः सुरैरिव महासुराः॥ ३९॥ तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः। अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः॥ ४०॥ ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः। व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः॥ ४१॥ रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः। नर्दन्तस्तेऽभिवृत्तास्तु समरे सशिलायुधाः॥ ४२॥ ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः। अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः॥ ४३॥ तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत्। व्यपोहत महातेजा रावणिः समितिंजयः॥ ४४॥ ततः पावकसंकाशैः शरैराशीविषोपमैः। वानराणामनीकानि बिभेद समरे प्रभुः॥ ४५॥ अष्टादशशरैस्तीक्ष्णैः स विद्‍ध्वा गन्धमादनम्। विव्याध नवभिश्चैव नलं दूरादवस्थितम्॥ ४६॥ सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः। पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे॥ ४७॥ जाम्बवन्तं तु दशभिः नीलं त्रिंशद्भिरेव च। सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा॥ ४८॥ घोरैर्दत्तवरैस्तीक्ष्णैः निष्प्राणानकरोत् तदा। अन्यानपि तथा मुख्यान् वानरान् बहुभिः शरैः॥ ४९॥ अर्दयामास संक्रुद्धः कालाग्निरिव मूर्छितः। स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः॥ ५०॥ वानराणामनीकानि निर्ममन्थ महारणे। आकुलां वानरीं सेनां शरजालेन मोहिताम्॥ ५१॥ हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम्। पुनरेव महातेजा राक्षसेन्द्रात्मजो बली॥ ५२॥ संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम्। ममर्द वानरानीकं इन्द्रजित्त्वरितो बली॥ ५३॥ स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु। अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु॥ ५४॥ ते शक्रजिद‍्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः। रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः॥ ५५॥ ते केवलं संददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु। मायाविगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमप्यपश्यन्॥ ५६॥ ततः स रक्षोधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताग्रैः। प्रच्छादयामास रविप्रकाशै- र्विषादयामास च वानरेन्द्रान्॥ ५७ ॥ स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसंनिभानि। सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये॥ ५८॥ ततो ज्वलनसंकाशैः शितैर्वानरयूथपाः। ताडिताः शक्रजिद‍्बाणैः प्रफुल्ला इव किंशुकाः॥ ५९॥ तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्। राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः॥ ६०॥ उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः। शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले॥ ६१॥ हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम्। जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च॥ ६२॥ मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ। केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम्॥ ६३॥ सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्। पावकाक्षं नलं चैव कुमुदं चैव वानरम्॥ ६४॥ प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः। विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः॥ ६५॥ स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः। ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः॥ ६६॥ स बाणवर्षैरभिवृष्यमाणो धारानिपातानिव तानचिन्त्य। समीक्षमाणः परमाद्भुतश्री- रामस्तदा लक्ष्मणमित्युवाच॥ ६७॥ असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः। निपातयित्वा हरिसैन्यमुग्रमान् शरैरर्दयति प्रसक्तम्॥ ६८॥ स्वयंभुवा दत्तवरो महात्मा खमास्थितोऽन्तर्हितभीमकायः। कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः॥ ६९॥ मन्ये स्वयंभूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च योऽस्य। बाणावपातं स्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व॥ ७०॥ प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः। एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम्॥ ७१॥ आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ गतरोषहर्षौ। ध्रुवं प्रवेक्ष्यत्यमरारिवास- मसौ समादाय रणाग्रलक्ष्मीम्॥ ७२॥ ततस्तु ताविन्द्रजिदस्त्रजालै- र्बभूवतुस्तत्र तथा विशस्तौ। स चापि तौ तत्र विषादयित्वा ननाद हर्षाद् युधि राक्षसेन्द्रः॥ ७३॥ स तत्तदा वानरसैन्यमेवं रामं च संख्ये सह लक्ष्मणेन। विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम्॥ ७४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे इन्द्रजिन्मायायुद्धं नाम त्रिसप्ततितमः सर्गः ॥६-७३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध