निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्। प्रदहन्निव कोपेन वानरेन्द्रमुदैक्षत॥ १॥ ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्। आददे परिघं धीरो नगेन्द्रशिखरोपमम्॥ २॥ हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्। यमदण्डोपमं भीमं रक्षसां भयनाशनम्॥ ३॥ तमाविध्य महातेजाः शक्रध्वजसमं तदा। निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः॥ ४॥ उरोगतेन निष्केण भुजस्थैरङ्गदैरपि। कुण्डलाभ्यां च चित्राभ्यां मालया च सचित्रया॥ ५॥ निकुम्भो भूषणैर्भाति तेन स्म परिघेण च। यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्॥ ६॥ परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः। प्रजज्वाल सघोषश्च विधूम इव पावकः॥ ७॥ नगर्या विटपावत्या गन्धर्वभवनोत्तमैः। सह चैवामरावत्या सर्वैश्च भवनैः सह॥ सताराग्रहनक्षत्रं सचन्द्रं समहाग्रहम्। निकुम्भपरिघाघूर्णं भ्रमतीव नभःस्थलम्॥ ८॥ दुरासदश्च संजज्ञे परिघाभरणप्रभः। कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः॥ ९॥ राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्। हनुमांस्तु विवृत्योरस्तस्थौ तस्याग्रतो बली॥ १०॥ परिघोपमबाहुस्तु परिघं भास्करप्रभम्। बली बलवतस्तस्य पातयामास वक्षसि॥ ११॥ स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः। विशीर्यमाणः सहसा उल्काशतमिवाम्बरे॥ १२॥ स तु तेन प्रहारेण विचचाल महाकपिः। परिघेण समाधूतो यथा भूमिचलेऽचलः॥ १३॥ स तदाभिहतस्तेन हनुमान् प्लवगोत्तमः। मुष्टिं संवर्तयामास बलेनातिमहाबलः॥ १४॥ तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्। अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः॥ १५॥ ततः पुस्फोट वर्मास्य प्रसुस्राव च शोणितम्। मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता॥ १६॥ स तु तेन प्रहारेण निकुम्भो विचचाल च। स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम्॥ १७॥ विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः। निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम्॥ १८॥ स तदा ह्रियमाणोऽपि कुम्भकर्णात्मजेन ह। आजघानानिलसुतो वज्रकल्पेन मुष्टिना॥ १९॥ आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत। हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः॥ २०॥ निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह। उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान्॥ २१॥ परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्। उत्पाटयामास शिरो भैरवं नदतो महत्॥ २२॥ अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम्। दशरथसुतराक्षसेन्द्रसून्वो- र्भृशतरमागतरोषयोः सुभीमम्॥ २३॥ व्यपेते तु जीवे निकुम्भस्य हृष्टा निनेदुः प्लवङ्गा दिशः सस्वनुश्च। चचालेव चोर्वी पफालेव च द्यौ- र्भयं राक्षसानां बलं चाविवेश॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे निकुम्भवधो नाम सप्तसप्ततितमः सर्गः ॥६-७७॥