home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

अष्टसप्ततितमः सर्गः ॥६-७८॥

॥मकराक्षाभिषेणनम्॥

[ रावणस्याज्ञया मकराक्षस्य युद्धाय प्रस्थानम् ]

निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्। रावणः परमामर्षी प्रजज्वालानलो यथा॥ १॥ नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः। खरपुत्रं विशालाक्षं मकराक्षमचोदयत्॥ २॥ गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः। राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः॥ ३॥ रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः। बाढमित्यब्रवीद‍्धृष्टो मकराक्षो निशाचरः॥ ४॥ सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्। निर्जगाम गृहाच्छुभ्राद् रावणस्याज्ञया बली॥ ५॥ समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम्। रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात्॥ ६॥ तस्य तद् वचनं श्रुत्वा बलाध्यक्षो निशाचरः। स्यन्दनं च बलं चैव समीपं प्रत्यपादयत्॥ ७॥ प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः। सूतं संचोदयामास शीघ्रं मे रथमावह॥ ८॥ अथ तान् राक्षसान् सर्वान् मकराक्षोऽब्रवीदिदम्। यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः॥ ९॥ अहं राक्षसराजेन रावणेन महात्मना। आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ॥ १०॥ अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः। शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः॥ ११॥ अद्य शूलनिपातैश्च वानराणां महाचमूम्। प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः॥ १२॥ मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः। सर्वे नानायुधोपेता बलवन्तः समागताः॥ १३॥ ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः। मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः॥ १४॥ परिवार्य महाकाया महाकायं खरात्मजम्। अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम्॥ १५॥ शङ्खभेरीसहस्राणामाहतानां समन्ततः। क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत्॥ १६॥ प्रभ्रष्टोऽथ करात् तस्य प्रतोदः सारथेस्तदा। पपात सहसा चैव ध्वजस्तस्य च रक्षसः॥ १७॥ तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः। चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः॥ १८॥ प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः। निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः॥ १९॥ तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः। अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ॥ २०॥ घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद‍्गदासिभिन्नाः। अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्वदन्तः॥ २१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे मकराक्षाभिषेणनं नाम अष्टसप्ततितमः सर्गः ॥६-७८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध