निर्गतं मकराक्षं ते दृष्ट्वा वानरयूथपाः। आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः॥ १॥ ततः प्रवृत्तं सुमहत् तद् युद्धं रोमहर्षणम्। निशाचरैः प्लवङ्गानां देवानां दानवैरिव॥ २॥ वृक्षशूलनिपातैश्च शिलापरिघपातनैः। अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः॥ ३॥ शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः। पट्टशैर्भिण्डिपालैश्च निर्घातैश्च समन्ततः॥ ४॥ पाशमुद्गरदण्डैश्च निखातैश्चापरै तदा। कदनं कपिवीराणां चक्रुस्ते रजनीचराः॥ ५॥ बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः। सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः॥ ६॥ तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान्। नेदुस्ते सिंहवद् दृष्टा राक्षसा जितकाशिनः॥ ७॥ विद्रवत्सु तदा तेषु वानरेषु समन्ततः। रामस्तान् वारयामास शरवर्षेण राक्षसान्॥ ८॥ वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः। क्रोधानलसमाविष्टो वचनं चेदमब्रवीत्॥ ९॥ क्वासौ रामः सुदुर्बुधिर्येन मे निहतः पिता। जनस्थानगतः पूर्वं सानुगः सपरिच्छदः॥ १०॥ अद्य गन्तस्मि वैरस्य पारं वै रजनीचराः। सुहृदां चैव सर्वेषां निहतानां रणाजिरे॥ ११॥ हत्वा रामं सुदुर्बुद्धिं लक्ष्मणं च सवानरम्। तेषां शोणितनिष्यन्दैः करिष्ये सलिलक्रियाम्॥ १२॥ एवमुक्त्वा महाबाहुर्युद्धे स रजनीचरः। व्यलोकयत तत् सर्वं बलं रामदिदृक्षया॥ १३॥ आहूयमानः कपिभिर्बहुभिर्बलशालिभिः। युद्धाय स महातेजा रामादन्यं न चेच्छति॥ १४॥ मार्गमाणस्तदा रामं बलवान् रजनीचरः। रथेनाम्बुदघोषेण व्यचस्तामनीकिनीम्॥ १५॥ दृष्ट्वा राममदुरस्थं लक्ष्मणं च महारथम्। सघोषं पाणिनाहूय ततो वचनमब्रवीत्॥ १६॥ तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते। त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः॥ १७॥ यत् तदा दण्डकारण्ये पितरं हतवान् मम। मदग्रतः स्वकर्मस्थं दृष्ट्वा रोषोऽभिवर्धते॥ १८॥ दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव। यन्मयासि न दृष्टस्त्वं तस्मिन् काले महाहवे॥ १९॥ दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह। काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः॥ २०॥ अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः। ये त्वया निहता वीराः सह तैश्च समेष्यसि॥ २१॥ बहुनात्र किमुक्तेन शृणु राम वचो मम। पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे॥ २२॥ अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे। अभ्यस्तं येन वा राम तेनैव युद्गि वर्तताम्॥ २३॥ मकराक्षवचः श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम्॥ २४॥ कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु। न रणे शक्यते जेतुं विना युद्धेन वाग्बलात्॥ २५॥ चतुर्दश सहस्राणि रक्षसां त्वत्पिता च यः। त्रिशिरा दूषणश्चव दण्डके निहतो मया॥ २६॥ स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः। भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः॥ २७॥ रुधिरार्द्रमुखा हृष्टा रक्तपक्षाः खगाश्च ये। खे तथा वसुधायां च भ्रमिष्यन्ति समन्ततः॥ २८॥ राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः। बाणौघानमुचत् तस्मै राघवाय रणाजिरे॥ २९॥ ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा। निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः॥ ३०॥ तद् युद्धमभवत् तत्र समेत्यान्योन्यमोजसा। रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च॥ ३१॥ जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा। धनुर्मुक्तः स्वनोऽन्योन्यं श्रूयते च रणाजिरे॥ ३२॥ देवदानवगन्धर्वाः किन्नराश्च महोरगाः। अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम्॥ ३३॥ विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम्। कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे॥ ३४॥ राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद् रणे। रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः॥ ३५॥ बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा। संछन्ना वसुधा द्यौश्च समन्तान्न प्रकाशते॥ ३६॥ ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः। अष्टाभिरथ नाराचैः सूतं विव्याध राघवः॥ ३७॥ भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्। विरथो वसुधां तिष्ठन् मकराक्षो निशाचरः॥ ३८॥ तत्तिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना। त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम्॥ ३९॥ विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः। स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे॥ ४०॥ तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्। बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः॥ ४१॥ स च्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः। व्यशीर्यत महोल्केव रामबाणार्दितो भुवि॥ ४२॥ तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा। साधु साध्विति भूतानि व्याहरन्ति नभोगताः॥ ४३॥ तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः। मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत्॥ ४४॥ स तं दृष्ट्वापतन्तं वै प्रहस्य रघुनन्दनः। पावकास्त्रं ततो रामः संदधे तु शरासने॥ ४५॥ तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे। संछिन्नहृदयं तत्र पपात च ममार च॥ ४६॥ दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्। लङ्कामेवाभ्यधावन्त रामबाणर्दितास्तदा॥ ४७॥ दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम्। दद्य्शुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम्॥ ४८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे मकताक्षवधो नाम एकोनाशीतितमः सर्गः ॥६-७९॥