home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकाशीतितमः सर्गः ॥६-७१॥

॥मायासीतावधः॥

[ इन्द्रजिता मायामयसीताया वधः ]

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः। संनिवृत्याहवात् तस्मात् संविवेश पुरं ततः॥ १॥ सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्। क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः॥ २॥ स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः। इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः॥ ३॥ इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत् तदा॥ ४॥ इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः। बलेन महतावृत्य तस्या वधमरोचयत्॥ ५॥ मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः। हन्तुं सीतां व्यवसितो वानरामिमुखो ययौ॥ ६॥ तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः। उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः॥ ७॥ हनूमान् पुरतस्तेषां जगाम कपिकुञ्जरः। प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम्॥ ८॥ स ददर्श हतानन्दां सीतामिन्द्रजितो रथे। एकवेणीधरां दीनामुपवासकृशाननाम्॥ ९॥ परिक्लिष्टैकवसनाममृजां राघवप्रियाम्। रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम्॥ १०॥ तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य तु। बभूवाचिरदृष्टा हि तेन सा जनकात्मजा॥ ११॥ तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम्। बाष्पपर्याकुलमुखो हनुमान् व्यथितोऽभवत्॥ १२॥ अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनीम्। सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुतश्रिताम्॥ १३॥ किं समर्थितमस्येति चिन्तयन् स महाकपिः। सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम्॥ १४॥ तद् वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः। कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत्॥ १५॥ तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः। क्रोशन्तीं राम रामेति मायया योजितां रथे॥ १६॥ गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यमागतः। शोकजं वारि नेत्राभ्यामसृजन्मारुतात्मजः॥ १७॥ तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम्। अब्रवीत् परुषं वाक्यं क्रोधाद् रक्षोधिपात्मजम्॥ १८॥ दुरात्मन्नात्मनाशाय केशपक्षे परामृशः। ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः॥ १९॥ धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी। नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम॥ २०॥ अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण। च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली॥ २१॥ किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि। सीतां च हत्वा न चिरं जीविष्यसि कथंचन॥ २२॥ वधार्हकर्मणानेन मम हस्तगतो ह्यसि। ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः॥ २३॥ इह जीवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे। इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः॥ २४॥ अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति। आपतन्तं महावीर्यं तदनीकं वनौकसाम्॥ २५॥ रक्षसां भीमवेगानामनीकं तु न्यवारयत्। स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्॥ २६॥ हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह। सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः॥ २७॥ तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः। इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर॥ २८॥ सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम्। न हन्तव्याः स्त्रियश्चेति यद् ब्रवीषि प्लवङ्गम॥ २९॥ पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत्। तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा॥ ३०॥ शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम्। यज्ञोपवीतमाधूय भिन्ना तेन तपस्विनी॥ ३१॥ सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना। तामिन्द्रजित् स्वयं हत्वा हनूमन्तमुवाच ह॥ ३२॥ मया रामस्य पश्येमां कोपेन च निषूदिताम्। एषा विशस्ता वैदेही विफलो वः परिश्रमः॥ ३३॥ ततः खड्गेन महता हत्वा तामिन्द्रजित् स्वयम्। हृष्टः स रथमास्थाय विननाद महास्वनम्॥ ३४॥ वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः। व्यादितास्यस्य नदतस्तद् दुर्गं संश्रितस्य च॥ ३५॥ तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः। तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे मायासीतावधो नाम एकाशीतितमः सर्गः ॥६-८१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध