home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

द्व्यशीततमः सर्गः ॥६-८२॥

॥हनूमदादिनिर्वेदः॥

[ हनुमन्नायकत्वे वानराणां रक्षसां च युद्धम्, हनुमतः श्रीरामपार्श्वे निवर्तनमिन्द्रजिता निकुम्भिलामुपेत्य यज्ञस्यानुष्ठानं च ]

श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम्। वीक्ष्यमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः॥ १॥ तानुवाच ततः सर्वान् हनूमान् मारुतात्मजः। विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक्॥ २॥ कस्माद् विषण्णवदना विद्रवध्वं प्लवङ्गमाः। त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्॥ ३॥ पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे। शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्॥ ४॥ एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः। शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः॥ ५॥ अभिपेतुश्च गर्जन्तै राक्षसान् वानरर्षभाः। परिवार्य हनूमन्तमन्वयुश्च महाहवे॥ ६॥ स तैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः। हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्॥ ७॥ स राक्षसानां कदनं चकार सुमहाकपिः। वृतो वानरसैन्येन कालान्तकयमोपमः॥ ८॥ स तु कोपेन चाविष्टः शोकेन च महाकपिः। हनूमान् रावणिरथेऽपातयन्महतीं शिलाम्॥ ९॥ तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा। विधेयाश्वसमायुक्तः सुदूरमपवाहितः॥ १०॥ तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम्। विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता॥ ११॥ पतितायां शिलायां तु रक्षसां व्यथिता चमूः। निपतन्त्या च शिलया राक्षसा मथिता भृशम्॥ १२॥ तमभ्यधावन् शतशो नदन्तः काननौकसः। ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः॥ १३॥ क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः। वृक्षशैलमहावर्षं विसृजन्तः प्लवंगमाः॥ १४॥ शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः। वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः॥ १५॥ वीर्यादभिहता वृक्षैर्व्यचेष्टन्त रणाजिरे। स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्॥ १६॥ प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ। स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः॥ १७॥ जघान कपिशार्दूलान् सुबहून् दृढविक्रमः। शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद‍्गरैः॥ १८॥ ते चाप्यनुचरांस्तस्य वानराञ्जघ्नुरोजसा। सुस्कन्धविटपैः सालैः शिलाभिश्च महाबलः॥ १९॥ हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्। स निवार्य परानीकमब्रवीत् तान् वनौकसः॥ २०॥ हनूमान् संनिवर्तध्वं न नः साध्यमिदं बलम्। त्यक्त्वा प्राणान् विवेष्टन्तो रामप्रियचिकीर्षवः॥ २१॥ यन्निमित्तं हि युध्यामो हता सा जनकात्मजा। इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च॥ २२॥ तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम्। इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्॥ २३॥ शनैः शनैरसंत्रस्तः सबलः संन्यवर्तत। ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः॥ २४॥ स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम्। निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित्॥ २५॥ यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा। हूयमानः प्रजज्वाल मांसशोणितभुक् तदा॥ २६॥ सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः। सन्ध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः॥ २७॥ अथेन्द्रजिद् राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित्। दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे हनूमदादिनिर्वेदो नाम द्व्यशीततमः सर्गः ॥६-८२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध