home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

अष्टाशीतितमः सर्गः ॥६-८८॥

॥सौमित्रिरावणियुद्धम्॥

[ लक्ष्मणेन्द्रजितो रुषा संवादो मिथो युद्धं च ]

विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः॥ अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात ह॥ १॥ उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते॥ कालाश्वयुक्ते महति स्थितः कालान्तकोपमः॥ २॥ महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम्॥ धनुर्भीमं पमृश्य शरांश्चामित्रशातनान्॥ ३॥ तं ददर्श महेष्वासो रथे सुसमलंकृतः॥ अलंकृतममित्रघ्नं रावणस्यानुजं बली॥ ४॥ हनूमत्पृष्ठमासिनमुदयस्थरविप्रभम्॥ उवाचैनं समारब्धः सौमित्रिं सविभीषणम्॥ ५॥ तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्॥ अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्॥ ६॥ मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे॥ अद्य वो मामका बाणा महाकार्मुकनिःसृताः॥ ७॥ विधमिष्यन्ति गात्राणि तूलराशिमिवानलः॥ तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः॥ ८॥ अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्॥ क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि॥ ९॥ जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः॥ रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः॥ १०॥ शायितौ स्थो मया भूमौ विसंज्ञौ सपुरःसरौ॥ स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं वा यमसादनम्॥ ११॥ आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः॥ तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा॥ १२॥ अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्॥ उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया॥ १३॥ कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्॥ स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्॥ १४॥ वाचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते॥ अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा॥ १५॥ तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस॥ १६॥ दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे॥ एवमुक्तो धनुर्भीमं परामृश्य महाबलः॥ १७॥ ससर्ज निशितान् बाणानिन्द्रजित् समितिञ्जयः॥ ते निसृष्टा महावेगाः शराः सर्पविषोपमाः॥ १८॥ सम्प्राप्य लक्ष्मणः पेतुः श्वसन्त इव पन्नगाः॥ शरैरतिमहावेगैर्वेगवान् रावणात्मजः॥ १९॥ सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम्॥ स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः॥ २०॥ शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः॥ इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याद्गिगम्य च॥ २१॥ विनद्य सुमहानादमिदं वचनमब्रवीत्॥ पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः॥ २२॥ आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः॥ अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण॥ २३॥ गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया॥ अद्य यास्य्ति सौमित्रे मर्णगोचरतां तव॥ २४॥ तर्जनं यमदूतानां सर्वभूतभयावहम्॥ क्षत्रबन्धुः सदानार्यं रामः परमदुर्मतिः॥ २५॥ भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम्॥ विशस्तकवचं भूमौ व्यपविद्धशरासनम्॥ २६॥ हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया॥ इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्॥ २७॥ हेतुमद् वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह॥ वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मासि राक्षस॥ २८॥ अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा॥ अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस॥ २९॥ कुरु तत् कर्म येनाहं श्रदृध्यां तव कत्थनम्॥ अनुक्त्वा परुषं वाक्यं किञ्चिदप्यनवक्षिपन्॥ ३०॥ अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधन॥ इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शितान्॥ ३१॥ विजघान महावेगाँल्लक्ष्मणो राक्षसोरसि॥ सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः॥ ३२॥ नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा॥ स शरैराहतस्तेन सरोषो रावणात्मजः॥ ३३॥ सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्॥ स बभूव तदा भीमो नरराक्षससिंहयोः॥ ३४॥ विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः॥ उभौ हि बलसम्पन्नावुभौ विक्रमशालिनौ॥ ३५॥ उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ॥ उभौ परमदुर्जेयावतुल्यबलतेजसौ॥ ३६॥ युयुधाते तदा वीरौ ग्रहाविव नभोगतौ॥ बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ॥ ३७॥ युयुधाते महात्मानौ तदा केसरिणाविव॥ बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ॥ नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम्॥ ३८॥ सुसंप्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गचापधारिणौ॥ परस्परं तौ प्रववर्षतुर्भृशं शरैघवर्षेण बलाहकाविव॥ ३९॥ अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ सितशस्त्रधारिणौ॥ अभीक्ष्णमाविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव॥ ४०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सौमित्रिरवणियुद्धं नाम अष्टाशीतितमः सर्गः ॥६-८८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध