home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकोननवतितमः सर्गः ॥६-८७॥

॥समित्रिसंधुक्षणम्॥

[ लक्ष्मण-इन्द्रजिथयोः मध्ये घोरं च कोलाहलपूर्णं युद्धं भवति बाण-वॉली-आदान-प्रदानेन ]

ततः शरं दाशरथिः सन्धायामित्रकर्शनः॥ ससर्ज राक्षसेन्द्राय कृद्धः सर्प इव श्वसन्॥ १॥ तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः ॥ विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत॥ २॥ तं विवर्णमुखं दृष्टवा राक्षसं रावणात्मजम् ॥ सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः॥ ३॥ निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे ॥ त्वर तेन महाबाहो भग्न एष न संशयः॥४॥ ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान् ॥ मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान्॥५॥ शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ॥ मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः॥६॥ उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः ॥ ददर्शावस्थितं वीरं वीरो दशरथात्मजम्॥७॥ सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः ॥ अब्रवीच्चैनमासाद्य पुनः स परुषं वचः॥८॥ किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् ॥ निबद्धस्त्वं सह भ्रात्रा यदा भुवि विचेष्टसे॥९॥ युवां खलु महायुद्धे शक्रानिसमैः शरैः ॥ शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ॥१०॥ स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ॥ गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि॥११॥ यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ॥ अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः॥१२॥ इत्युक्त्वा सप्तभिर्भाणैरभिविव्याध लक्ष्मणम् ॥ दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः॥१३॥ ततःशरशतेनैव सुप्रयुक्तेन वीर्यवान् ॥ क्रोधाद्व्दिगुणसम्रब्धो निर्बिभेद विभीषणम्॥१४॥ तद्दष्टवेन्द्रजिता कर्म कृतं रामानुजस्तदा ॥ अचिन्तयित्वा प्रहसन्नैतत् किञ्चिदिति ब्रुवन्॥१५॥ मुमोच च शरान् घोरान् सम्गृह्य नरपुङ्गवः ॥ अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि॥१६॥ नैवं रणगताः शूराः प्रहरन्ति निशाचर ॥ लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव॥१७॥ नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ॥ इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत्॥१८॥ तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम् ॥ व्यशीर्यत रथोपस्थे ताराजालमिव्बारात्॥१९॥ विधूतवर्मा नाराचैर्भभूव स कृतव्रणः ॥ इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान्॥२०॥ ततः शरसहस्रेण सङ्क्रुद्धो रावणात्मजः ॥ बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः॥२१॥ व्यशीर्यत महद्धिव्यं कवचं लक्ष्मणस्य च ॥ कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ॥२२॥ अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि ॥ शरसङ्कृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ॥२३॥ सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ॥ ततक्षतुर्महात्मानौ रणकर्मविहारदौ॥२४॥ बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ ॥ तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ॥२५॥ स्त्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥ शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्॥२६॥ सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥ तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः॥२७॥ न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥ अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनःपुनः॥२८॥ शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥ व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च॥२९॥ उभौ तै तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ तयोः पृथक् पृथक् भीमः शुश्रुवे तलनिस्स्वनः॥३०॥ प्रकम्पयञ्जनं घोरो निर्घात इव दारुणः ॥ स तयोर्भ्राजते शब्दस्तदा समरयत्तयोः॥३१॥ सुघोरयोर्निष्टनतोर्गगने मेघयोएयथा ॥ सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ॥३२॥ प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥ ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि॥३३॥ असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् ॥ अन्ये सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे॥३४॥ बभञ्जुश्चिच्छिदुश्चचान्ये तयोर्बाणाः सहस्रशः ॥ स बभूव रणे घोरस्तयोर्बाणमयश्चयः॥३५॥ अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥ तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः॥३६॥ सुपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ॥ चक्रतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः॥३७॥ इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ ॥ लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्॥३८॥ अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ॥ बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ॥३९॥ शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ ॥ तयो रुधिरसिक्तानि सम्वृतानि शरैर्भृशम्॥४०॥ बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥ तयोरथ महान् कालो व्यतीयाद्युध्यमानयोः॥४१॥ न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥ अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ॥ प्रियहितमुपपादयन्महौजाः समरमुपेत्य विभीषणोऽवतस्थे॥४२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे सौमित्रिसंधुक्षणं नाम नएकोननवतितमः सर्गः ॥६-८९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध