ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः। सुप्तघ्नो यज्ञहा रक्षो महापार्श्व महोदरः॥ १॥ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्। इन्द्रजिच्च महातेजा बलवान् रावणात्मजः॥ २॥ प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः। धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः॥ ३॥ परिघान् पट्टिशान् प्रासान् शक्तिशूलापरश्वधान्। चापानि च सुबाणानि खड्गांश्च विपुलाञ्शितान्॥ ४॥ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः। अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा॥ ५॥ अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्। कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता॥ ६॥ तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः। अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्॥ ७॥ अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः॥ ८॥ प्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च। विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः॥ ९॥ अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्। जितरोषं दुराधर्षं तं प्रधर्षयितुमिच्छथ॥ १०॥ समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्। गतं हनूमतो लोके को विद्यात् तर्कयेत वा॥ ११॥ बलान्यपरिमेयानि वीर्याणि च निशाचराः। परेषां सहसावज्ञा न कर्तव्या कथंचन॥ १२॥ किं च राक्षसराजस्य रामेणापकृतं पुरा। आजहार जनस्थानाद् यस्य भार्यां यशस्विनः॥ १३॥ खरो यद्यतिवृत्तस्तु रामेण निहतो रणे। अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम्॥ १४॥ अयशस्यमनायुष्यं परदाराभिमर्शनम्। अर्थक्षयकरं घोरं पापस्य च पुनर्भवम्॥ १५॥ एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत्। आहृता सा परित्याज्या कलहार्थे कृतेन किम्॥ १६॥ न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली॥ १७॥ यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्। पुरीं दारयते बाणैर्दीयतामस्य मैथिली॥ १८॥ यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी। नावस्कन्दति नो लङ्कां दीयतामस्य मैथिली॥ १९॥ विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः। रामस्य दयिता पत्नी न स्वयं यदि दीयते॥ २०॥ प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम। हितं तथ्यमहं ब्रूमि दीयतामस्य मैथिली॥ २१॥ पुरा शरत्सूर्यमरीचिसन्निवान् सुपुङ्खान् सुदृढान्नृपात्मजः। सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली॥ २२॥ त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम्। प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली॥ २३॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम्॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे विभीषणसमालोचनं नाम नवमः सर्गः ॥६-९॥