ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः। अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा॥ १॥ देवदानवगन्धर्वाः पिशाचपतगोरगाः। न त्वां धर्षयितुं श्क्ताः किं पुनर्मानवौ रणे॥ २॥ सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता। न हि मे जीवतो गच्छेज्जीवन् स वनगोचरः॥ ३॥ सर्वां सागरपर्यन्तां सशैलवनकाननाम्। करोम्यवानरां भूमिमाज्ञापयतु मां भवान्॥ ४॥ रक्षां चैव विधास्यामि वानराद्रजनीचर। नागमिष्यति ते दुःखं किंचिदात्मापराधजम्॥ ५॥ अब्रवीत्तु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः। इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम्॥ ६॥ अयं परिभवो भूयः पुरस्यान्तःपुरस्य च। श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम्॥ ७॥ अस्मिन् मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्। प्रविष्टान् सागरं भीममम्बरं वा रसातलम्॥ ८॥ ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः। प्रगृह्य परिघं घोरं मांसशोणितरूषितम्॥ ९॥ किं वो हनूमता कार्यं कृपणेन दुरात्मना। रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे॥ १०॥ अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्। आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्॥ ११॥ इदं ममापरं वाक्यं शृणु राजन् यदिच्छसि। उपायकुशलो ह्येव जयेच्छत्रूनतन्द्रितः॥ १२॥ कामरूपधराः शूराः सुभीमा भीमदर्शनाः। राक्षसा वै सहस्राणि राक्षसाधिप निश्चिताः॥ १३॥ काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः। सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम्॥ १४॥ प्रेषिता भरतेन स्म तव भ्रात्रा यवीयसा। तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति॥ १५॥ स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति। ततो वयमितस्तूर्णं शूलशक्तिगदाधराः॥ १६॥ चापबाणासिहस्ताश्च त्वरितास्तत्र याम हे। आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम्॥ १७॥ अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम्। एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ॥ १८॥ अवश्यमपनीतेन जहतामेव जीवितम्। कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्॥ १९॥ अब्रवीत्परमक्रुद्धो रावणं लोकरावणम्। सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः॥ २०॥ अहमेको हनिष्यामि राघवं सहलक्ष्मणम्। सुग्रीवं च हनूमन्तं सर्वानेव च वानरान्॥ २१॥ ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः। क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यमब्रवीत्॥ २२॥ स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः। एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान्॥ २३॥ स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम्। अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम्। अङ्गदं च हनूमन्तं रामं च रणकुञ्जरम्॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे प्रहस्तादिवचनं नाम अष्टमः सर्गः ॥६-८॥