home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकनवतितमः सर्गः ॥६-९१॥

॥रावणिवधः॥

[ इन्द्रजिल्लक्ष्मणयोर्घोरं युद्धमिन्द्रजितो वधश्च ]

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः। इन्द्रजित् परमक्रुद्धः संप्रजज्वाल तेजसा॥ १॥ तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्। विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव॥ २॥ निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः। भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः॥ ३॥ ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः। स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत्॥ ४॥ तमसा बहुलेनेमाः सम्सक्ताः सर्वतो दिशः। नेह विज्ञायते स्वो वा परो वा रक्षसोत्तमाः॥ ५॥ धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै। अहं तु रथमास्थाय आगमिष्यामि संयुगम्॥ ६॥ तथा भवन्तः कुर्वन्तु यथेमे काननौकसः। न युध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि॥ ७॥ इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः। प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा॥ ८॥ स रथं भूषयित्वा तु रुचिरं हेमभूषितम्। प्रासासिशतसंपूर्णं युक्तं परमवाजिभिः॥ ९॥ अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना। आरुरोह महातेजा रावणिः समतिञ्जियः॥ १०॥ स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः। निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः॥ ११॥ सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परवीरहा। अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम्॥ १२॥ ततो रथस्थमालोक्य सौमत्री रावणात्मजम्। वानराश्च महावीर्या राक्षसश्च विभीषणः॥ १३॥ विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः। रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान्॥ १४॥ पातयामास बाणौघैः शतशोऽथ सहस्रशः। स मण्डलीकृतधनू रावणिः समतिञ्जयः॥ १५॥ हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः। ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः॥ १६॥ सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः। ततः समरकोपेन ज्वलितो रघुनन्दनः॥ १७॥ चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम्। सोऽन्यत् कार्मुकमादाय सज्यं चक्रे त्वरन्निव॥ १८॥ तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत। अथैनं छिन्नधन्वानमाशीविषविषोपभैः॥ १९॥ विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः। ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः॥ २०॥ निपेतुर्धरणीं बाणा रक्ता इव महोरगाः। स भिन्नवर्मा रुधिरं वमन् वक्त्रेण रावणिः॥ २१॥ जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम्। स लक्ष्मणं समुद्धिश्य परं लाघवमास्थितः॥ २२॥ ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः। मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः॥ २३॥ अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम्। दर्शयामास च तदा रावणिं रघुनन्दनः॥ २४॥ असम्ब्रान्तो महातेजेस्तदद्भुतमिवाभवत्। तस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे॥ २५॥ अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्। राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत्॥ २६॥ सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना। असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान्॥ २७॥ तानप्राप्तान् शितैर्बाणैश्चिच्छेद रघुनन्दनः। सारथेरस्य च रणे रथिनो रघुसत्तमः॥ २८॥ शिरो जहार धर्मात्मा भल्लेनानतपर्वणा। असूतास्ते हयास्तत्र रथमूहुरविक्लबाः॥ २९॥ मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत्। अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः॥ ३०॥ प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे। अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली॥ ३१॥ विव्याथ दशभिर्बाणैः सौमित्रिं तममर्षणम्। ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः॥ ३२॥ विलयं जग्मुरागत्य कवचं काञ्चनप्रभम्। अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः॥ ३३॥ ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्। अविध्यत् परमक्रुद्धः शीघ्रमस्त्रं च प्रदर्शयन्॥ ३४॥ तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः। रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः॥ ३५॥ स तथा ह्यर्दितो बाणै राक्षसेन तदामृधे। तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः॥ ३६॥ विकृष्वेन्द्रजितो युद्धे वदने शुभकुण्डले। लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ॥ ३७॥ अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्मीविक्रमौ। ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्दजितावुभौ॥ ३८॥ रणे तौ राजतुर्वीरौ पुष्पिताविव किंशुकौ। तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ॥ ३९॥ घोरैर्विव्यधतुर्भाणैः कृतभावावुभौ जये। ततः समरकोपेन संयुक्तो रावणात्मजः॥ ४०॥ विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे। अयोमुखैस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्॥ ४१॥ एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान्। तस्मै दृढतरं क्रुद्धो जघान गदया हयान्॥ ४२॥ विभीषणो महातेजा रावणेः स दुरात्मनः। स हताश्वादवप्लुत्य रथान्निहतसारथे:॥ ४३॥ रथशक्तिं महातेजाः पितृव्याय मुमोच ह। तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः॥ ४४॥ चिच्छेद निशितैर्बाणैर्दशधा सापातयद्भुवि। तस्मै दृढतनुः क्रुद्धो हताश्वाय विभीषणः॥ ४५॥ वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान्। ते तस्य कायं निभिद्य रुक्मपुङ्खा निमित्तगाः॥ ४६॥ बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः। स पितृव्याय सङ्क्रुद्ध इन्द्रजिच्छरमाददे॥ ४७॥ उत्तमं रक्षसां मध्ये यमदत्तं महाबलः। तं समीक्ष्य महातेजा महेषुं तेन संहितम्॥ ४८॥ लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः। कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना॥ ४९॥ दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः। तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः॥ ५०॥ विकृष्यमाणे बलवत् क्रौञ्चविव चुकूजतुः। ताभ्यां तौ धनुषि श्रेष्ठे संसितौ सायकोत्तमौ॥ ५१॥ विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया। तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ॥ ५२॥ मुखेन मुखमाहत्य सन्निपेततुरोजसा। सन्निपातस्तयोरासीच्छरयोर्घोररूपयोः॥ ५३॥ सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत्। तौ महाग्रहसङ्काशावन्योन्यं सन्निपत्य च॥ ५४॥ सङ्ग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः। शरौ प्रतिहतौ दृष्टवा तावुभौ रणमूर्धनि॥ ५५॥ व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा। सुसंरर्ब्धस्तु सौमित्रिरस्त्रं वारुमाददे॥ ५६॥ रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्युधि निष्ठितः। तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम्॥ ५७॥ ततः क्रुद्धो महातेजा इन्द्रजित् समितिञ्जयः। आग्नेयं सन्दधे दीप्तं स लोकं सङ्क्षिपन्निव॥ ५८॥ सौरेणास्त्रण तद्वीरो लक्ष्मणः प्रत्यवारयत्। अस्त्रं निवारितं दृष्टवा रावणिः क्रोधमूर्छितः॥ ५९॥ आसुरं शत्रुनाशाय घोरमस्त्रं समाददे। तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः॥ ६०॥ शूलानि च मुशुण्ड्यश्च गदाः खङ्गा परश्वधाः। तद्दृष्टवा लक्ष्मणः सङ्ख्ये घोरमस्त्रमथासुरम्॥ ६१॥ अवार्यं सर्वभूतानां सर्वशस्त्रुविनाशनम्। महेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत्॥ ६२॥ तयोः समुतुलं युद्धं सम्बभूवाद्भुतिपमम्। गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्॥ ६३॥ भैरवाभिरुते भीमे युद्धे वानरक्षसाम्। भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ॥ ६४॥ ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः। शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे॥ ६५॥ अथान्यं मार्गणश्रेष्ठं सन्दधे राघवानुजः। हुताशनसमस्पर्शं रावणात्मजदारणम्॥ ६६॥ सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्। सुवर्णविकृतं वीरः शरीरान्तकरं शरम्॥ ६७॥ दुरावारं दुर्विषह्यं राक्षसानां भयावहम्। आशीविषविषप्रख्यं देवसङ्घैः समर्चितम्॥ ६८॥ येन शक्रो महातेजा दानवानजत् प्रभुः। पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः॥ ६९॥ तदैन्द्रमस्त्रं सौमित्रिः सम्युगेष्वपराजितम्। शरश्रेष्ठं धनु:श्रेष्ठे नरश्रेष्ठोऽभिसंदधे॥ ७०॥ संधायामित्रदलनं विचकर्ष शरासनम्। सज्यमायम्य दुर्धर्षं कालो लोकक्षये यथा॥ ७१॥ संधाय धनुषि श्रेष्ठे विक्र्षन्निदमब्रवीत्। लक्ष्मीवान् लक्ष्मणो वाक्यमर्थसाधकमात्मनः॥ ७२॥ धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यति। पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम्॥ ७३॥ इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्। लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति॥ ७४॥ ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा। स शिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्॥ ७५॥ प्रमथ्येन्द्रजितः कायात् पातयामास भूतले। तद्राक्षसतनूजस्य च्छिन्नस्कन्धं शिरो महत्॥ ७६॥ तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्। हतस्तु निपपाताशु धरण्यां रावणात्मजः॥ ७७॥ कवची सशिरस्त्राणो विद्धस्तः सशरासनः। चुक्रुशुस्ते ततःसर्वे वानराः सविभीषणाः॥ ७८॥ हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा। अथान्तरिक्षे देवानामृषीणां च महात्मनाम्॥ ७९॥ अभिजज्ञे च संनादो गन्धर्वाप्सरसामपि। पतितं तमभिज्ञाय राक्षसी सा महाचमूः॥ ८०॥ वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः॥ ८१॥ लङ्कामभिमुखाः सस्रुर्नष्टसंज्ञाः प्रधाविताः। दुद्रुवुर्भहुधा भीता राक्षसाः शतशो दिशः॥ ८२॥ त्यक्त्वा प्रहरणान् सर्वे पट्टसासिपरश्वधान्। केचिल्लङ्कां परित्रस्ताः विष्टा वानरार्दिताः॥ ८३॥ समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः। हतमिन्द्रजितं दृष्टवा शयानं समरक्षितौ॥ ८४॥ राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत। यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः॥ ८५॥ तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः। शान्तरश्मिरिवादित्यो निर्वाण इव पावकः॥ ८६॥ स बभूव महातेजा व्यपास्तगतजीवितः। प्रशान्तपीडाबहुलो नष्टारिष्टः प्रतापवान्॥ ८७॥ बभूव लोकःपतिते राक्षसेन्द्रसुतो तदा। हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः॥ ८८॥ जगाम निहते तस्मिन् राक्षसे पापकर्मणि। आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः॥ ८९॥ नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः। ववर्षुः पुष्पवर्षाणि तदद्भुतमभूत्तदा॥ ९०॥ प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि। शुद्धा आपो दिशश्चैव जहृषुर्देवदानवाः॥ ९१॥ आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे। ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः॥ ९२॥ विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति। ततोऽभ्यनन्दन् सम्हृष्टाः समरे हरियूथपाः॥ ९३॥ तमप्रतिबलं दृष्टवा हतं नैर्ऋतपुङ्गवम्। विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः॥ ९४॥ विजयेनाभिनन्दन्तसुष्टुवुश्चापि लक्ष्मणम्। क्ष्वेळन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः॥ ९५॥ लब्दलक्षा रघुसुतं परिवार्योपतस्थिरे। लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः॥ ९६॥ लक्ष्मणो जयतीत्येवं वाक्यं विश्रावयंस्तदा। अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः। चक्रुरुच्चावगुणा राघवाश्रयजा: कथा:॥ ९७॥ तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म। परममुपलभन् मनःप्रहर्षं विनिहत- मिन्द्ररिपुं निशम्य देवाः॥ ९८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रवणिवधो नाम एकनवतितमः सर्गः ॥६-९१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध