home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

द्विनवतितमः सर्गः ॥६-९२॥

॥रावणिशस्त्रहतचिकित्सा॥

[ श्रीरामपार्श्वमागम्य लक्ष्मणविभीषणप्रभृतिभि- रिन्द्रजिद्वधवृत्तान्तस्य श्रावणं संतुष्टेन श्रीरामेण लक्ष्मणं परिष्वज्य तस्य प्रशंसनं सुषेणेन लक्ष्मणादीनां चिकित्सनं च ]

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः। बभूव हृष्टस्तं हत्वा शक्र जेतारमाहवे॥ १॥ ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्। संनिपर्त्य महातेजास्तांश्च सर्वान् वनौकसः॥ २॥ आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ। विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः॥ ३॥ ततो राममभिक्रम्य सौमित्रिरभिवाद्य च। तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा॥ ४॥ निष्टनन्निव चागम्य राघवाय महात्मने। आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्॥ ५॥ रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टो विभीषणः॥ ६॥ श्रुत्वैवतु महावीर्यो लक्षणनेन्द्रजिद्वधम्। प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह॥ ७॥ साधु लक्ष्मण तुष्टोऽस्मि कर्मणा सुकृतम् कृतम्। रावणेर्हि विनाशेन जितमुत्यपधारय॥ ८॥ स तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम्। लज्जमानं बलात्स्नेहादङ्कमारोप्य वीर्यवान्॥ ९॥ उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्। भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैक्षत॥ १०॥ शल्यसंपीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम्। रामस्तु दुःखसन्तप्तस्तदा निःश्वासितो भृशम्॥ ११॥ मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्। उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः॥ १२॥ कृतं परमकळ्याणं कर्म दुष्करकर्मणा। अद्य मन्ये हते पुत्रे रावणं निहतं युधि॥ १३॥ अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि। रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे॥ १४॥ छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः। विभीषणहनूमद्भ्यां कृतं कर्म महद्रणे॥ १५॥ अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः। विरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः॥ १६॥ बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्। तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम्॥ १७॥ बलेनावृत्य महता निहनिष्यामि दुर्जयम्। त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे॥ १८॥ न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे। स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः॥ १९॥ रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्। सशल्योऽयं महाप्राज्ञ स्सौमित्रिर्मित्रवत्सलः॥ २०॥ यथा भवति सुस्वस्थस्तथा त्वं समुपाचर। विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः॥ २१॥ ऋक्ष्वानरसैन्यानां शूराणां द्रुमयोधिनाम्। ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा॥ २२॥ तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया। एवमुक्तस्तु रामेण महात्मा हरियूथपः॥ २३॥ लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्। स तस्या गन्धमाघ्राय विशल्यः समपद्यत॥ २४॥ तथा निर्वेदनश्चैव संरूढव्रण एव च। विभीषणमुखानां च सुहृदां राघवाज्ञया॥ २५॥ सर्ववानरमुख्यानां चिकित्सां स तदाकरोत्। ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथ:॥ २६॥ सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः। तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान्। आवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे॥ २७॥ अपूजयत् कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा। हृष्टा बभूवुर्युद्गि वानरेन्द्रा निपातितं शक्रजितं निपातितम्॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणिशस्त्रहतचिकित्सा नाम द्विनवतितमः सर्गः ॥६-९२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध