तानि तानि सहस्राणि सारोहाणां च वाजिनाम्। रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः॥ १॥ राक्षसानां सहस्राणि गदापरिघयोधिनाम्। काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्॥ २॥ निहतानि शरैर्दीस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः। रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा॥ ३॥ दृष्टवा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः। राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः॥ ४॥ विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्दवाः। राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन्॥ ५॥ कथं शूर्पणखा वृद्धा कराला निर्णतोदरी। आससाद वने रामं कन्दर्पमिव रूपिणम्॥ ६॥ सुकुमारं महासत्त्वं सर्वभूतहिते रतम्। तं दृष्टवा लोकनिन्द्या सा हीनरूपा प्रकामिता॥ ७॥ कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्। सुमुखं दुर्मुखी रामं कामयामास राक्षसी॥ ८॥ जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा। अकार्यमपहास्यं च सर्वलोकविगर्हितम्॥ ९॥ राक्षसानां विनाशाय दूषणस्य खरस्य च। चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्॥ १०॥ तन्निमित्तमिदं वैरं रावणेन कृतं महत्। वधाय सीता सासीता दशग्रीवेण रक्षसा॥ ११॥ न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्। बद्धं बलवता वैरमक्षयं राघवेण च॥ १२॥ वैदेहीं प्रार्थयानं तं विराधं प्रेक्षय राक्षसम्। हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्॥ १३॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ १४॥ खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा। शरैरादितसङ्काशैः पर्याप्तं तन्निदर्शनम्॥ १५॥ हतो योजनबाहुश्च कबन्धो रुधिराशनः। क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम्॥ १६॥ जघान बलिनं रामः सहस्रनयनात्मजम्। वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम्॥ १७॥ ऋष्यमूके वसञ्शैले दीनो भग्नमनोरथः। सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम्॥ १८॥ एको वायुसुतः प्राप्य कङ्कां हत्वा च राक्षसान्। दग्ध्वा तां च पुनर्यातः पर्याप्तं तन्निदर्शनम्॥ १९॥ निगृह्य सागरं तस्मिन् सेतुं बध्वा प्लवङ्गमैः। वृतोऽतरत्तं यद्रामः पर्याप्तं तन्निदर्शनम्॥ २०॥ धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्। युक्तं विभीषणेनोक्तं मोहत्तस्य न रोचते॥ २१॥ विभीषणवचः कुर्याद्यदि स्म धनदानुजः। श्मशानभूता दुःखार्ता नेयं लङ्कापुरी भवेत्॥ २२॥ कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्। अतिकायं च दुर्मर्षं लक्ष्मणेन हतं पुनः॥ २३॥ प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते। मम पुत्रो मम भ्राता मम भर्ता रणे हतः॥ २४॥ इत्येवं श्रूयते शब्दो राक्षसीनां कुले कुले। रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः॥ २५॥ रणे रामेण शूरेण हताश्च पदातयः। रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः॥ २६॥ हन्ति नो रामरूपेण यदि वा स्वयमन्तकः। हतप्रवीरा रामेण निराशा जीविते वयम्॥ २७॥ अपश्यन्तो भयस्यान्तमनाथा विलपामहे। रामहस्ताद्धशग्रीवः शूरो दत्तमहावरः॥ २८॥ इदं भयं महाघोरंसमुत्पन्नं नावबुध्यते। न देवा न च गन्धर्वा न पिशाचा न राक्षसाः॥ २९॥ उपसृष्टं परित्रातुं शक्ता रामेण सम्युगे। उत्पताश्चापि दृश्यन्ते रावणस्य रणे रणे॥ ३०॥ कथयिष्यन्ति रामेण रावणस्य निबर्हणम्। पितामहेन प्रीतेन देवदानवराक्षसैः॥ ३१॥ रावणस्याभयं दत्तं मनुष्येभ्यो न याचितम्। तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम्॥ ३२॥ जीवितान्तकरं घोरं रक्षसां रावणस्य च। पीड्यमानास्तु बलिना वरदानेन रक्षसा॥ ३३॥ दीप्स्सैस्तपोभिर्विबुधाः पितामहमपूजयन्। देवतानां हितार्थाय महात्मा वै पितामहः॥ ३४॥ उवाच देवताः सर्वा इदं तुष्टो महद्वचः। अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः॥ ३५॥ भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम्। दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः॥ ३६॥ वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः। प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत्॥ ३७॥ उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा। एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा॥ ३८॥ भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान्। रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः॥ ३९॥ अयं निष्टानको घोरं शोकेन समभिप्लुतः। तं न पश्यामहे लोके यो नः शरणदो भवेत्॥ ४०॥ राघवेणोपसृष्टानां कालेनेव युगक्षये। नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम्॥ ४१॥ दावाग्निवेष्टितानां हि करेणूनां यथा वने। प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना॥ ४२॥ यत एव भयं दृष्टं तमेव शरणं गतः। इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः। विषेदुरार्ता भयाभिपीडिता विनेदुरुच्चैश्च तदा सुदारुणम्॥ ४१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे राक्षसीविलापो नाम पञ्चनवतितमः सर्गः ॥६-९५॥