आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले। रावणः करुणं शब्दं शुश्राव परिदेवितम्॥ १॥ स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः। बभूव परमक्रुद्धो रावणो भीमदर्शनः॥ २॥ संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः। राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः॥ ३॥ उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः। मयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा॥ ४॥ महोदरमहापार्श्वं विरूपाक्षं च राक्षसम्। शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया॥ ५॥ तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः। चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया॥ ६॥ ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः। कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः॥ ७॥ प्रतिपूज्य यथान्यायं रावणं ते महारथाः। तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः॥ ८॥ अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः। महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम्॥ ९॥ अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः। राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्॥ १०॥ खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा। करिष्यामि प्रतीकारमद्य शत्रुवधादहम्॥ ११॥ नैवान्तरिक्षं न दिशो न नद्यौ नापि सागराः। प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः॥ १२॥ अद्य वानरमुख्यानां तानि यूथानि भागशः। धनुषा शरजालेन वधिष्यामि पत्रिणा॥ १३॥ अद्य वानरसैन्यानि रथेन पवनौजसा। धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः॥ १४॥ आकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्। अद्य यूथतटाकानि गजवत् प्रमथाम्यहम्॥ १५॥ सशरैरद्य वदनैः संख्ये वानरयूथपाः। मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः॥ १६॥ अद्य यूद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्। मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्॥ १७॥ हतो भर्ता हतो भ्राता यासां च तनया हताः। वधेनाद्य रिपोस्तासां करोम्यस्त्रप्रमार्जनम्॥ १८॥ अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः। करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्॥ १९॥ अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे। सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः॥ २०॥ कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः। अनुप्रयान्तु मां सर्वे येऽवशिष्टा निशाचराः॥ २१॥ तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः। बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति॥ २२॥ बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात्। चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः॥ २३॥ ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः। नदन्तो भीमवदना नानाप्रहरणैर्भुजैः॥ २४॥ असिभिः पट्टसैः शूलैर्गदाभिर्मुसलैर्हलैः। शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः॥ २५॥ यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः। भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः॥ २६॥ अथानयन् बलाध्यक्षाः सत्वारा रावणाज्ञया। रथानां नियुतं साग्रं नागानामयुतं त्रयम्॥ २७॥ अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च। पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात्॥ २८॥ बलाध्यक्षास्तु संस्थाप्य राज्ञः सेनां पुरःस्थिताः। एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम्॥ २९॥ दिव्यास्त्रग्वस्त्रसम्पन्नं नानालंकारभूषितम्। दीर्घवाजिसमायुक्तं दिव्यालंकारभूषणम्॥ ३०॥ नानायुधसमाकीर्णं किङ्किणीजालमण्डितम्। नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम्॥ ३१॥ जाम्बूनदमयैश्चैव सहस्रकलशैर्युतम्। तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं ययुः॥ ३२॥ तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः। कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम्॥ ३३॥ द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्। आरुरोह रथं भीमो दीप्यमानं स्वतेजसा॥ ३४॥ ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः। रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम्॥ ३५॥ रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा॥ ३६॥ ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्। नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः॥ ३७॥ ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः। निर्ययावुद्यतधनुः कालान्तकयमोपमः॥ ३८॥ ततः प्रजविताश्वेन रथेन स महारथः। द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ॥ ३९॥ ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदुर्घोराश्च संचचालेव मेदिनी॥ ४०॥ ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि। ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः॥ ४१॥ नयनं चास्फुरद् वामं सव्यो बाहुरकम्पत। विवर्णं वदनं चासीत् किञ्चिदभ्रश्यत स्वनः॥ ४२॥ ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे॥ ४३॥ अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना। विनेदुरशिवा गृध्रा वायसैरनुनादिताः॥ ४४॥ एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान्। निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः॥ ४५॥ तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणामपि चमूर्युद्धायैवाभ्यवर्तत॥ ४६॥ तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्। अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्॥ ४७॥ ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः। वानराणामनीकेषु चकार कदनं महत्॥ ४८॥ निकृत्तशिरसः केचिद् रावणेन वलीमुखाः। केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः॥ ४९॥ निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः। केचिद् विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः॥ ५०॥ दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये। ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुंगवास्ते॥ ५१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणाभिषेणनं नाम षण्णवतितमः सर्गः ॥६-९६॥