ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः। जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः॥ १॥ रावणस्य वधं घोरं राघवस्य पराक्रमम्। सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्॥ २॥ अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च। कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम्॥ ३॥ राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्। अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत्॥ ४॥ राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः। दिव्यं तं रथमास्थाय दिवमेवारुरोह सः॥ ५॥ तस्मिंस्तु दिवमारूढे सरसारथिसत्तमे। राघवः परमप्रीतः सुग्रीवं परिषस्वजे॥ ६॥ परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः। पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम्॥ ७॥ अबवीच्च तदा रामः समीपपरिवर्तिनम्। सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम्॥ ८॥ विभीषणमिमं सौम्य लङ्कायामभिषेचय। अनुरक्तं च भक्तं च मम चैवोपकारिणम्॥ ९॥ एष मे परमः कामो यदिमं रावणानुजम्। लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्॥ १०॥ एवमुक्तस्तु सौमित्री राघवेण महात्मना। तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे॥ ११॥ तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्। आदिदेश महासत्त्वान् समुद्रसलिलानये॥ १२॥ अतिशीघ्रं ततो गत्वा वानरास्तु महाबलाः। आगतास्तज्जलं गृह्य समुद्राद् वानरोत्तमाः॥ १३॥ ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने। घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम्॥ १४॥ लङ्कायां रक्षसां मध्ये राजानं रामशासनात्। विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम्॥ १५॥ अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम्। तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः॥ १६॥ दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्। स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः॥ १७॥ प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत्। अक्षतान् मोदकाँल्लाजान् दिव्याः सुमनसस्तदा॥ १८॥ आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः। स तान् गृहीत्वा दुर्धर्षा राघवाय न्यवेदयत्॥ १९॥ मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्। कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्॥ २०॥ प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया। ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम्॥ २१॥ अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम्। अनुमान्य महारजमिमं सौम्य विभीषणम्॥ २२॥ गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि। प्रविश्य रावणगृहं विजयेनाभिनन्द्य च॥ २३॥ वैदेह्यै मां च कुशलिनं ससुग्रीवं सलक्ष्मणम्। आचक्ष्व वजयतां श्रेष्ठ रावणं च मया हतम्॥ २४॥ प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर। प्रतिगृह्य च संदेशमुपावर्तितुमर्हसि॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे विभीषणाभिषेको नाम पञ्चदशोत्तरशततमः सर्गः ॥६-११५॥